अध्यायः 078

स्वजरामनङ्गीकुर्वतां यदुप्रभृतीनां ययातिना शापः ॥ 1 ॥ तामङ्गीकुर्वतः पूरोर्वरदानम् ॥ 2 ॥

वैशंपायन उवाच ।
जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि ।
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥
ययातिरुवाच ।
जरावली च मां तात पलितानि च पर्यगुः ।
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥
त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन त्वदीयेन चरेयं विषयानहम् ॥
पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् ।
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ॥
यदुरुवाच ।
जरायां बहवो दोषाः पानभोजनकारिताः ।
तस्माज्जरां न ते राजन्ग्रहीष्य इति मे मतिः ॥
सितश्मश्रुर्निरानन्दो जरया शिथिलीकृतः ।
वलीसङ्गतगात्रस्तु दुर्दर्शो दुर्बलः कृशः ॥
अशक्तः कार्यकरणे परिभूतः स यौवतैः ।
सहोपजीविभिश्चैव तां जरां नाभिकामये ॥
सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप ।
जरां ग्रहीतुं धर्मज्ञ तस्मादन्यं वृणीष्व वै ॥
ययातिरुवाच ।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मादराज्यभाक्तात प्रजा तव भविष्यति ॥
`प्रत्याख्यातस्तु राजा स तुर्वसुं प्रत्युवाच ह ।' तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ।
यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥
तुर्वसुरुवाच ।
न कामये जरां तात कामभोगप्रणाशिनीम् ।
बलरूपान्तकरणीं बुद्धिप्राणप्रणाशिनीम् ॥
ययातिरुवाच ।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥
संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च ।
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ॥
गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च ।
पशुधर्मेषु पापेषु म्लेच्छेषु त्वं भविष्यसि ॥
वैशंपायन उवाच ।
एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः ।
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ॥
ययातिरुवाच ।
द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ।
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥
द्रुह्युरुवाच ।
न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् ।
वाग्भङ्गश्चास्य भवति तां जरां नाभिकामये ॥
ययातिरुवाच ।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् ॥
यत्राश्वरथमुख्यानामश्वानां स्याद्गतं न च ।
हस्तिनां पीठकानां च गर्दभानां तथैव च ॥
बस्तानां च गवां चैव शिबिकायास्तथैव च । उडुपप्लवसंतारो यत्र नित्यं भविष्यति ।
ययातिरुवाच ।
अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥
अनुरुवाच ।
जीर्णः शिशुवदादत्ते कालेऽन्नमशुचिर्यथा ।
न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥
ययातिरुवाच ।
यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
जरादोषस्त्वया प्रोक्तस्तस्मात्त्वं प्रतिलप्स्यसे ॥
प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव ।
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ॥
वैशंपायन उवाच ।
प्रत्याख्यातश्चतुर्भिश्च शप्त्वा तान्यदुपूर्वकान् ।
पूरोः सकाशमगमन्मत्त्वा पूरुमलङ्घनम् ॥
ययातिरुवाच ।
पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि ।
जरा वली च मांतात पलितानि च पर्यगुः ॥
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने । पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ।
कंचित्कालं चरेयं वै विषयान्वयसातव ॥
पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् ।
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥
वैशंपायन उवाच ।
एवमुक्तः प्रत्युवाच पूरुः पितरमज्जसा ।
यदात्थ मां महाराज तत्करिष्यामि ते वचः ॥
`गुरोर्वै वचनं पुण्यं स्वर्ग्यमायुष्करं नृणाम् ।
गुरुप्रसादात्त्रैलोक्यमन्वशासच्छतक्रतुः ॥
गुरोरनुमतं प्राप्य सर्वान्कामानमाप्नुयात् ।
यावदिच्छसि तावच्च धारयिष्यामि ते जराम्' ॥
प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह ।
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ॥
जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ।
यौवनं भवते दत्त्वा चरिष्यामि यथात्थमाम् ॥
ययातिरुवाच ।
पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते ।
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ॥
वैशंपायन उवाच ।
एवमुक्त्वा ययातिस्तु स्मृत्वा काव्यं महातपाः ।
संक्रामयामास जरां तदा पूरौ महात्मनि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

1-78-2 वली त्वचःसंवलनम् । पलितानि केशरोम्णां शौक्ल्यम् । पर्यगुः परितः शरीरे गतानि प्राप्तानियौवने यौवनसाध्ये कामभोगे ॥ 1-78-3 पाप्मानं भोगसामर्थ्येऽपि तदिच्छारूपं चित्तस्य दौस्थ्यम् । चरेयं भुज्जीय ॥ 1-78-5 दोषाः कफाद्याधिक्याद्वमनादयः ॥ 1-78-15 तिर्यग्योनीनामिव गतं प्रकाशं मैथुनाद्याचरणं येप तेषु ॥ 1-78-21 पीठकानां राजयोग्यानां नरयानविशेषाणां तखतरावा इति म्लेच्छेषु प्रसिद्धानाम् ॥ 1-78-26 अग्निप्रस्कन्दनं श्रौतस्मार्ताद्यग्निसाध्यकर्मत्यागस्तत्परः ॥ 1-78-28 वरीयान्स्वभ्रातृभ्यो महान् । जरो देहेन्द्रियशक्तिघातः ॥ 1-78-31 अञ्जसा आर्जवेन ॥ 1-78-34 यथेप्सितान् यावज्जीवम् ॥ अष्टसप्ततितमोऽध्यायः ॥ 78 ॥