अध्यायः 081
इन्द्रययातिसंवादः ॥ 1 ॥
वैशंपायन उवाच ।
स्वर्गतः स तु राजेन्द्रो निवसन्देववेश्मनि ।
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥
देवलोकं ब्रह्मलोकं संचरन्पुण्यकृद्वशी ।
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥
स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् ।
कथान्ते तत्र शक्रेण स पृष्टः पृथिवीपतिः ॥
शक्र उवाच ।
यदा स पूरुस्तव रूपेण राज-
ञ्जरां गृहीत्वा प्रचचार भूमौ ।
तदा च राज्यं संप्रदायैव तस्मै
त्वया किमुक्तः कथयेह सत्यम् ॥
ययातिरुवाच ।
गङ्गायमुनयोर्मध्ये कृत्स्नोयं विषयस्तव ।
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ॥
`न च कुर्यान्नरो दैन्यं शाठ्यं क्रोधं तथैव च ।
जैहयं च मत्सरं वैरं सर्वत्रेदं न कारयेत् ॥
मातरं पितरं ज्येष्ठं विद्वांसं च तपोधनम् ।
क्षमावन्तं च राजेन्द्र नावमन्येत बुद्धिमान् ॥
ळशक्तस्तु क्षमते नित्यमशक्तः क्रुध्यते नरः ।
दुर्जनः सुजनं द्वेष्टि दुर्बलो बलवत्तरम् ॥
रूपवन्तमरूपी च धनवन्तं च निर्धनः ।
अकर्मी कर्मिणं द्वेष्टि धार्मिकं च नधार्मिकः ॥
निर्गुणो गुणवन्तं च पुत्रैतत्कलिलक्षणम् ।
विपरीतं च राजेन्द्र एतेषु कृतलक्षणम् ॥
ब्राह्मणो वाथ वा राजा वैश्यो वा शूद्र एव वा ।
प्रशस्तेषु प्रसक्ताश्चेत्प्रशस्यन्ते यशस्विनः ॥
तस्मात्प्रशस्ते राजेन्द्र नरः सक्तमना भवेत् ।
अलोकज्ञा ह्यप्रशस्ता भ्रातरस्ते ह्यबुद्धयः ॥
अन्त्याधिपतयः सर्वे ह्यभवन्गुरुशासनात् ।
इन्द्र उवाच ।
त्वं हि धर्मविदो राजन्कत्थसे धर्मसुत्तमम् ।
कथयस्व पुनर्मेऽद्य लोकवृत्तान्तमुत्तमम् ॥
ययातिरुवाच'
अक्रोधनः क्रोधनेभ्यो विशिष्ट-
स्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना
विद्वांस्तथैवाविदुषः प्रधानः ॥
आक्रुश्यमानो नाकोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥
नारुन्तुदः स्यान्न नृशंसवादी
न हीनतः परमभ्याददीत ।
ययाऽस्य वाचा पर उद्विजेत
न तां वदेद्रुशतीं पापलोक्याम् ॥
अरुन्तुदं पुरुषं तीक्ष्णवाचं
वाक्कण्टकैर्वितुदन्तं मनुष्यन् ।
विद्यादलक्ष्मीकतमं जनानां
मुखे निबद्धां निर्ऋतिं वहन्तम् ॥
सद्भिः पुरस्तादभिपूजितः स्या-
त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् ।
सदाऽसतामतिवादांस्तितिक्षे-
त्सतां वृत्तं चाददीतार्यवृत्तः ॥
वाक्सायका वदनान्निष्पतन्ति
यैराहतः शोचति रात्र्यहानि ।
परस्य ये मर्मसु संपतन्ति
तान्पण्डितो नावसृजेत्परेषु ॥
नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भूतेषु दानं च मधुरा च वाक् ॥
तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् ।
पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकाशीतितमोऽध्यायः ॥ 81 ॥
1-81-16 अस्य आक्रोष्टुः सुकृतं तितिक्षुर्विन्दति । रुशतीं अकल्याणी ॥ 1-81-17 निर्ऋति दुर्देवताम् ॥ 1-81-20 संवननं वशीकरणम् ॥ एकाशीतितमोऽध्यायः ॥ 81 ॥