अध्यायः 083
ययातेः स्वनामकथनपूर्वकं अष्टकेन सह संवादः ॥ 1 ॥ तत्र ययातिना
स्वस्य स्वर्गादधःपतनकारणकथनम् ॥ 2 ॥
अहं ययातिर्नहुषस्य पुत्रः
पूरोः पिता सर्वभूतावमानात् ।
प्रभ्रंशितः सुरसिद्धर्षिलोका-
त्परिच्युतः प्रपताम्यल्पपुण्यः ॥
अहं हि पूर्वो वयसा भवद्भ्य-
स्तेनाभिवादं भवतां न प्रयुञ्जे ।
यो विद्यया तपसा जन्मना वा
वृद्धः स पूज्यो भवति द्विजानाम् ॥
अष्टक उवाच ।
अवादीस्त्वं वयसा यः प्रवृद्धः
स वै राजन्नाभ्यधिकः कथ्यते च ।
यो विद्यया तपसा संप्रवृद्धः
स एव पूज्यो भवति द्विजानाम् ॥
ययातिरुवाच ।
प्रतिकूलं कर्मणां पापमाहु-
स्तद्वर्ततेऽप्रवणे पापलोक्यम् ।
सन्तोऽसतां नानुवर्तन्ति चैत-
द्यथा चैषामनुकूलास्तथाऽऽसन् ॥
अभूद्धनं मे विपुलं गतं त-
द्विचेष्टमानो नाधिगन्ता तदस्मि ।
एवं प्रधार्यात्महिते निविष्टो
यो वर्तते स विजानाति जीवः ॥
महाधनो यो यजते सुयज्ञै-
र्यः सर्वविद्यासु विनीतबुद्धिः ।
वेदानधीत्य तपसा योज्य देहं
दिवं स यायात्पुरुषो वीतमोहः ॥
न जातु हृष्येन्महता धनेन
वेदानधीयीतानहंकृतः स्यात् ।
नानाभावा बहवो जीवलोके
दैवाधीना नष्टचेष्टाधिकाराः ।
तत्तत्प्राप्य न विहन्येत धीरो
दिष्टं बलीय इति मत्वाऽऽत्मबुद्ध्या ॥
सुखं हि जन्तुर्यदि वाऽपि दुःखं
दैवाधीनं विन्दते नात्मशक्त्या ।
तस्माद्दिष्टं बलवन्मन्यमानो
न संज्वरेन्नापि हृष्येत्कथंचित् ॥
दुःखैर्न तप्येन्न सुखैः प्रहृष्ये-
त्समेन वर्तेत सदैव धीरः ।
दिष्टं बलीय इति मन्यमानो
न संज्वरेन्नापि हृष्येत्कथंचित् ॥
भये न मुह्याम्यष्टकाहं कदाचि-
त्सन्तापो मे मानसो नास्ति कश्चित् ।
धाता यथा मां विदधीत लोके
ध्रुवं तथाऽहं भवितेति मत्वा ॥
संस्वेदजा अण्डजाश्चोद्भिदश्च
सरीसृपाः कृमयोऽथाप्सु मत्स्याः ।
तथाश्मनस्तृणकाष्ठं च सर्वे
दिष्टक्षये स्वां प्रकृतिं भजन्ति ॥
अनित्यतां सुखदुःस्वस्य बुद्ध्वा
कस्मात्संतापमष्टकाहं भजेयम् ।
किं कुर्यां वै किं च कृत्वा न तप्ये
तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ॥
वैशंपायन उवाच ।
एवं व्रुवाणं नृपतिं ययाति-
मथाष्टकः पुनरेवान्वपृच्छत् ।
मातामहं सर्वगुणोपपन्नं
तत्रस्थितं स्वर्गलोके यथावत् ॥
अष्टक उवाच ।
ये ये लोकाः पार्थिवेन्द्रप्रधाना-
स्त्वया भुक्ता यं च कालं यथावत् ।
तान्मे राजन्ब्रूहि सर्वान्यथाव-
त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ॥
ययातिरुवाच ।
राजाऽहमासमिह सार्वभौम-
स्ततो लोकान्महतश्चाजयं वै ।
तत्रावसं वर्षसहस्रमात्रं
ततो लोकं परमस्म्यभ्युपेतः ॥
ततः पुरीं पुरुहूतस्य रम्यां
सहस्रद्वारां शतयोजनायताम् ।
अध्यावसं वर्षसहस्रमात्रं
ततो लोकं परमस्म्यभ्युपेतः ॥
ततो दिव्यमजरं प्राप्य लोकं
प्रजापतेर्लोकपतेर्दुरापम् ।
तत्रावसं वर्षसहस्रमात्रं
ततो लोकं परमस्म्यभ्युपेतः ॥
स देवदेवस्य निवेशने च
विहृत्य लोकानवसं यथेष्टम् ।
संपूज्यमानस्त्रिदशैः समस्तै-
स्तुल्यप्रभावद्युतिरीश्वराणाम् ॥
तथाऽऽवसं नन्दने कामरूपी
संवत्सराणामयुतं शतानाम् ।
सहाप्सरोभिर्विहरन्पुण्यगन्धा-
न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ॥
तत्र स्थितं मां देव सुखेषु सक्तं
कालेऽतीते महति ततोऽतिमात्रम् ।
दूतो देवानामब्रवीदुग्ररूपो
ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥
एतावन्मे विदितं राजसिंह
ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः ।
वाचोऽश्रौषं चान्तरिक्षे सुराणां
सानुक्रोंशाः शोचतां मां नरेन्द्र ॥
अहो कष्टं क्षीणपुण्यो ययातिः
पतत्यसौ पुण्यकृत्पुण्यकीर्तिः ।
तानब्रुवं पतमानस्ततोऽहं
सतां मध्ये निपतेयं कथं नु ॥
तैराख्याता भवतां यज्ञभूमिः
समीक्ष्य चेमां त्वरितमुपागतोऽस्मि ।
हविर्गन्धं देशिकं यज्ञभूमे-
र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥
1-83-2 ययातिरपनीततपोविद्यागर्वत्वाद्वयोज्यैष्ठ्यमेव
पुरस्कृत्याह । अहं हीति । तदेवोपपादयत्युत्तरार्धेन ॥ 1-83-3 तदसहमानोऽष्टक आह ।
अवादीरिति । त्वं च विद्यातपःसंप्रवृद्ध इति भावः ॥ 1-83-4 विद्यातपसोः
श्रैष्ठ्ये अष्टकेन स्तुते तत्र स्वानुभूतं विघ्नं दर्शयन्ययातिरुवाच ।
प्रतिकूलमिति । कर्मणां पुण्यानां प्रतिकूलं नाशकं पापं गर्वस्तच्चाप्रवणेऽनम्रे
दर्पवति वर्तते । पापलोक्यं नरकप्रदम् । एतत्पापमसतां संबन्धि सन्तो नानुवर्तन्ते
इदानीमपि । किंच प्राञ्चोपि सन्तो यथैषां कर्मणामनुकूला उपबृंहकाः स्युस्तथा तेन
प्रकारेण दम्भदर्पादिराहित्येन आसन् । अहं त्वत द्विधत्वात्स्वर्गादिन्द्रेण
च्यावित इत्याशयः ॥ 1-83-5 तद्दम्भादिराहित्येन प्रसिद्धं धनं पुण्यं मे मम
विपुलं यदभूत्तद्गतं नष्टं दर्पादित्यर्थः । पुनरिदानीं तच्चेष्टमानोऽपि
तत्पुनर्नाधिगन्तास्मि । एवं प्रधार्य मामिकां गतिं ज्ञात्वा य आत्महिते
निविष्टो यो वर्तते स धीरो जानाति नान्य इत्यर्थः ॥ 1-83-7 एतदेवाह । न जात्विति
धनेन तपसा तर्हि त्वमे कुतोऽहंकारं कृतवानित्यत आह । नानेति । जीवलोकेऽस्मिन्
जीवा नानाभावाः पृथक्स्वभावाः केचिद्धर्मरुचयः केचिद्विपरीताः । यतो दैवाधीनाः ।
अतएव नष्टा वृथाभूता चेष्टा उद्योगोऽधिकारः सामर्थ्यं च येषां ते तथा । दृष्टा
इति शेषः । मूढानां पुण्ये पण्डितानां पापे च प्रवृत्तिकरं दैवमेव बलवदित्यर्थः ।
एवं विद्वांस्तत्तप्राप्य तत्सुखं दुःखं वा प्राप्य न विहन्येत ।
हर्षविषादाभ्यामात्मानं न हिंस्यादित्यर्थः ॥ 1-83-8 एतदेव विवृणोति । सुखं हीति
द्वाभ्याम् ॥ 1-83-10 भयं तु ते व्येतु विषादमोहाविति यदष्टकेनोक्तं
तत्रोत्तरमाह । भये इति । धाता दिष्टं ॥ 1-83-11 अहमिवान्येऽपि दिष्टाधीना
एवेत्याह । संस्वेदजा इति । एतेपि दिष्टक्षये पुण्यपापानुभवानन्तरम् । स्वां
प्रकृतिं स्वकर्मशेषानुगुणां योनिं भजन्ति प्राप्नुवन्ति ॥ 1-83-12 अहं तु
दिष्टक्षयाभावात्प्राप्तेपि दुःखे न तप्ये इत्याह । अनित्यतामिति ॥ 1-83-14
क्षेत्रज्ञवत् ज्ञानिवत् ॥ 1-83-23 तैरिति । देशिकमुपदेष्टारमिव स्थितं । हविषां
गन्धो यत्र तं धूमापाङ्गं धूमप्रान्तं प्रतिगृह्य आघ्राय प्रतीतः जातप्रत्ययः ॥
त्र्यशीतितमोऽध्यायः ॥ 83 ॥