अध्यायः 084
					
					 मृतस्य स्वर्गादिभोगानन्तरं पुनर्जननप्रकारकथनम् ॥ 1 ॥ 
					
					
						यदाऽवसो नन्दने कामरूपी
							संवत्सराणामयुतं शतानाम् ।
						
						किं कारणं कार्तयुगप्रधान
							हित्वा च त्वं वसुधामन्वपद्यः ॥
						
						ययातिरुवाच । 
					 
					
						ज्ञातिः सुहृत्स्वजनो वा यथेह
							क्षीणे वित्ते त्यज्यते मानवैर्हि ।
						
						तथा तत्र क्षीणपुण्यं मनुष्यं
							त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ॥
						
						अष्टक उवाच । 
					 
					
						तस्मिन्कथं क्षीणपुण्या भवन्ति
							संमुह्यते मेऽत्र मनोऽतिमात्रम् ।
						
						किं वा विशिष्टाः कस्य धामोपयान्ति
							तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥
						
						ययातिरुवाच । 
					 
					
						इमं भौमं नरकं ते पतन्ति
							ललाप्यमाना नरदेव सर्वे ।
						
						ते कङ्कगोमायुबलाशनार्थे
							क्षीणे पुण्ये बहुधा प्रव्रजन्ति ॥
						
					 
					
						तस्मादेतद्वर्जनीयं नरेन्द्र
							दुष्टं लोके गर्हणीयं च कर्म ।
						
						आख्यातं ते पार्थिव सर्वमेव
							भूयश्चेदानीं वद किं ते वदामि ॥
						
						अष्टक उवाच । 
					 
					
						यदा तु तान्वितुदन्ते वयांसि
							तथा गृध्राः शितिकण्ठाः पतङ्गाः ।
						
						कथं भवन्ति कथमाभवन्ति
							न भौममन्यं नरकं शृणोमि ॥
						
						ययातिरुवाच । 
					 
					
						ऊर्ध्वं देहात्कर्मणो जृम्भमाणा-
							द्व्यक्तं पृथिव्यामनुसंचरन्ति ।
						
						इमं भौमं नरकं ते पतन्ति
							नावेक्षन्ते वर्षपूगाननेकान् ॥
						
					 
					
						षष्टिं सहस्राणि पतन्ति व्योम्नि
							तथा अशीतिं परिवत्सराणि ।
						
						तान्वै तुदन्ति पततः प्रपातं
							भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥
						
						अष्टक उवाच । 
					 
					
						यदेनसस्ते पततस्तुदन्ति
							भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ।
						
						कथं भवन्ति कथमाभवन्ति
							कथंभूता गर्भभूता भवन्ति ॥
						
						ययातिरुवाच । 
					 
					
						अस्रं रेतः पुष्पफलानुपृक्त-
							मन्वेति तद्वै पुरुषेण सृष्टम् ।
						
						स वै तस्या रज आपद्यते वै
							स गर्भभूतः समुपैति तत्र ॥
						
					 
					
						वनस्पतीनोषधीश्चाविशन्ति
							आपो वायुं पृथिवीं चान्तरिक्षम् ।
						
						चतुष्पदं द्विपदं चाति सर्व-
							मेवंभूता गर्भभूता भवन्ति ॥
						
						अष्टक उवाच । 
					 
					
						अन्यद्वपुर्विदधातीह गर्भ-
							मुताहोस्वित्स्वेन कायेन याति ।
						
						आपद्यमानो नरयोनिमेता-
							माचक्ष्व मे संशयात्प्रब्रवीमि ॥
						
					 
					
						शरीरदेहातिसमुच्छ्रयं च
							चक्षुःश्रोत्रे लभते केन संज्ञाम् ।
						
						एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः
							क्षेत्रज्ञं त्वां तात मन्याम सर्वे ॥
						
						ययातिरुवाच । 
					 
					
						वायुः समुत्कर्षति गर्भयोनि-
							मृतौ रेतः पुष्पफलानुपृक्तम् ।
						
						स तत्र तन्मात्रकृताधिकारः
							क्रमेण संवर्धयतीह गर्भम् ॥
						
					 
					
						स जायमानो विगृहीतमात्रः
							संज्ञामधिष्ठाय ततो मनुष्यः ।
						
						स श्रोत्राभ्यां वेदयतीह शब्दं
							स वै रूपं पश्यति चक्षुषा च ॥
						
					 
					
						घ्राणेन गन्धं जिह्वयाऽथो रसं च
							त्वचा स्पर्शं मनसा वेदभावम् ।
						
						इत्यष्टकेहोपहितं हि विद्धि
							महात्मनः प्राणभृतः शरीरे ॥
						
						अष्टक उवाच । 
					 
					
						यः संस्थितः पुरुषो दह्यते वा
							निखन्यते वापि निकृष्यते वा ।
						
						अभावभूतः स विनाशमेत्य
							केनात्मानं चेतयते परस्तात् ॥
						
						ययातिरुवाच । 
					 
					
						हित्वा सोऽसून्सुप्तवन्निष्टनित्वा
							पुरोधाय सुकृतं दुष्कृतं वा ।
						
						अन्यां योनिं पवनाग्रानुसारी
							हित्वा देहं भजते राजसिंह ॥
						
					 
					
						पुण्यां योनिं पुण्यकृतो व्रजन्ति
							पापां योनिं पापकृतो व्रजन्ति ।
						
						कीटाः पतङ्गाश्च भवन्ति पापा
							न मे विवक्षास्ति महानुभाव ॥
						
					 
					
						चतुष्पदा द्विपदाः षट्पदाश्च
							तथाभूता गर्भभूता भवन्ति ।
						
						आख्यातमेतन्निखिलेन सर्वं
							भूयस्तु किं पृच्छसि राजसिंह ॥
						
						अष्टक उवाच । 
					 
					
						किंस्वित्कृत्वा लभते तात लोका-
							न्मर्त्यः श्रेष्ठांस्तपसा विद्यया च ।
						
						तन्मे पृष्टः शंस सर्वं यथाव-
							च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ॥
						
						ययातिरुवाच । 
					 
					
						तपश्च दानं च शमो दमश्च
							ह्रीरार्जवं सर्वभूतानुकम्पा ।
						
						स्वर्गस्य लोकस्य वदन्ति सन्तो
							द्वाराणि सप्तैव महान्ति पुंसाम् ।
							नश्यन्ति मानेन तमोऽभिभूताः
							पुंसः सदैवेति वदन्ति सन्तः ॥
						
					 
					
						अधीयानः पण्डितंमन्यमानो
							यो विद्यया हन्ति यशः परेषाम् ।
						
						तस्यान्तवन्तश्च भवन्ति लोका
							न चास्य तद्ब्रह्म फलं ददाति ॥
						
					 
					
						चत्वारि कर्माण्यभयङ्कराणि
							भयं प्रयच्छन्त्ययथाकृतानि ।
						
						मानाग्निहोत्रमुत मानमौनं
							मानेनाधीतमुत मानयज्ञः ॥
						
					 
					
						न मानमान्यो मुदमाददीत
							न सन्तापं प्राप्नुयाच्चावमानात् ।
						
						सन्तः सतः पूजयन्तीह लोके
							नासाधवः साधुबुद्धिं लभन्ते ॥
						
					 
					
						इति दद्यामिति यज इत्यदीय इति व्रतम् ।
						इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः ॥
					 
					
						ये चाश्रयं वेदयन्ते पुराणं
							मनीषिणो मानसमार्गरुद्धम् ।
						
						तन्निःश्रेयस्तेन संयोगमेत्य
							परां शान्तिं प्रत्युः प्रेत्य चेह ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥ 
					 1-84-1 कार्तयुगप्रधाना कृतयुगे भवाः कार्तयुगा
						अत्यन्तनिष्पापास्तेषां मुख्यतमेत्यर्थः ॥ 1-84-3 तत्र क्षीणपुण्याः कथं
						किंप्रकारा भवन्ति । ततश्च किंविशिष्टाः कीदृसाः सन्तः कस्य धाम स्थानं यान्ति
						कं लोकं यान्तीत्यर्थः ॥ 1-84-4 तत्र कस्य धामेत्यस्योत्तरं इमं भौममिति ।
						पुण्ये क्षीणे सति नरकं नरकोपमं बौमं भूसम्बन्धिनं इमं लोकं प्रति पतन्ति । कथं
						भवन्तीत्यस्योत्तरं ते कङ्केति । कङ्काश्च गोमायवश्च तेषां बलं सङ्घः तस्या
						शनार्थे अशनविषयीभूतैतद्देहरक्षणार्थे बहुधा प्रव्रजन्ति पर्यटन्ति ॥ 1-84-5
						तस्मादेतत्काम्यकर्म दुष्टं विषिद्धं गर्हणीयम् ॥ 1-84-6 ननु कङ्कादिभक्षितस्य
						कथं स्वरूपसत्ता कथं वा शरीरान्तरेणाविर्भाव इति देहात्मवादमाश्रित्य शङ्कते ।
						भौमो नरकश्च क इति पृच्छति च । यदा तु तानिति ॥ 1-84-7 ऊर्ध्वं देहात्
						देहक्षयानन्तरम् । जृम्भमाणात्प्रबुद्धात्कर्मणो हेतोः व्यक्तं स्थूलं शरीरं अनु
						अनुप्रविश्य जीवाः संचरन्ति कर्मफलानि भुञ्जते इति यत् तदेव भौमो नरकः ।
						कुतोऽस्य नरकत्वमत आह । नावेक्षन्ते वर्षपूगाननेकान् यस्मादत्र पतिता गतं वयो न
						बुध्यन्ते कर्मभूमिं प्राप्यापि स्वहिताय न यतन्तेऽत इत्यर्थः । एतेन
						कङ्कादिभक्षितस्यापि सत्वं देहयोगश्चास्तीत्युक्तम् ॥ 1-84-8 षष्टिं
						सहस्राण्यशीतिं च सहस्राणि परिवत्सराणि व्योम्नि स्वर्गे स्थित्वा पतन्ति ।
						दारादयो भौमा राक्षसाः । पातं भूमिस्थितिं प्रपततः अनुभवतः ॥ 1-84-9 यत् यान्
						एनसः पापाद्धेतोः पततः स्वर्गाह्यवमानान् ते राक्षसास्तुदन्ति ते पुरुषाः कथं
						भवन्ति प्रपातभ्रष्टा इव कथं न शीर्यन्ते । कथं वा आभवन्ति इन्द्रियादिमन्तो
						भवन्ति । कथं वा गर्भत्वं प्राप्नुवन्तीति प्रश्नत्रयम् ॥ 1-84-10 रेतः कर्तृ ।
						अस्रं स्त्रीरजः कर्मभूतं अन्वेति । तद्द्वयं पुष्पफलादिभावेनानुपृक्तं
						कललादिरूपं भवति । तत् आहारादिवत्कथं न जीर्यत इत्यत आह । पुरुषेणेति ।
						ईश्वरेणेत्यर्थः । रजः तदुपलक्षितान् धातून् । समुपैति दुःखादीनीति शेषः ॥ 1-84-11 मात्रुदरपर्यन्तं प्रवेशक्रममाह । वनस्पतीति ॥ 1-84-12 नरयोनिमापद्यमानो
						जीवः स्वेन कायेन जैवेनैव रूपेण गर्भं मातुरुदरं याति उत तत्र
						प्रवेष्टुमन्यद्वपुर्विदधाति ॥ 1-84-13 शरीरदेहातिसमुच्छ्रयं मातुः शरीरे
						गर्भदेहस्यातिसमुच्छ्रयं वृद्धिम् । चक्षुःश्रोत्रे इतीन्द्रियमात्रोपलक्षणम् ॥ 1-84-14 देहसमुच्छ्रयक्रममाह । वायुरिति । ऋतौ तत्काले वायुः गर्भयोनिं अस्रं
						प्रति रेतः समुत्कर्षति प्रापयति । ततश्च पुष्पफलानुपृक्तं कललादिरूपगर्भं सएव
						तत्र गर्भाशये क्रमेण संवर्धयति । कथंभूतः तन्मात्रे वृद्धिमात्रएव कृताधिकारः
						समर्थः ॥ 1-84-15 स जीवः विगृहीता मात्रा सूक्ष्मशरीरं येन सः ॥ 1-84-16
						श्रोत्रादिकं इत्युपहितं संबद्धं विद्धि ॥ 1-84-17 देहात्मवादेन पुनः शङ्कते ।
						यः संस्थित इति । परस्तात् आत्मानं केन कारणेन चेतयते जानाति ।
						देहातिरिक्तजीवाभावादिति बावः ॥ 1-84-18 जीवो देहाद्भिन्नः पूर्वदेहं त्यक्त्वा
						सूक्ष्मदेहेन देहान्तरं प्राप्नोतीत्याह । हित्वेति । पवनाग्रानुसारी
						आतिवाहिकपवनानुसारी ॥ 1-84-19 कर्मानुसारेण योनिप्राप्तिमाह । पुण्यामिति ॥ 1-84-21 किंस्वित्कृत्वेति सामान्यप्रश्नः । तपसा विद्ययेति विशेषप्रश्नः । चो
						वार्थे ॥ 1-84-22 पुंसः पुमांसः ॥ 1-84-23 दर्पवता कृतमध्ययनादि न मोक्षोपयोगि
						नापि स्वर्गदं प्रत्युत भयावहमित्याह द्वाभ्याम् । अधीयान इति ॥ 1-84-25 अतो
						मानापमानादिद्वन्द्वसहिष्णुर्भवेदित्याह । न मानमान्य इति ॥ 1-84-26 इति
						दद्यामिति दाम्भिकस्य स्वधर्मप्रकाशनाभिनयः ॥ 1-84-27 मानसमार्गरुद्धं
						ध्यानविषयीभूतं । वेदयन्ते जानन्ति । तद्वेदनं निःश्रेयः सुखसाधनम् ॥
						चतुरशीतितमोऽध्यायः ॥ 84 ॥