अध्यायः 086

स्वर्गाच्च्युतस्य ययातेरष्टकादियज्ञभूमिं प्रत्यागमननिमित्तकथनम् ॥ 1 ॥ अष्टकप्रतर्दनयोर्ययातिना संवादः ॥ 2 ॥

अष्टक उवाच ।
कतरस्त्वनयोः पूर्वं देवानामेति साम्यताम् ।
उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ॥
ययातिरुवाच ।
अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः ।
ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ॥
अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् ।
तप्यते यदि तत्कृत्वा चरेत्सोऽन्यत्तपस्ततः ॥
पापानां कर्मणां नित्यं बिभीयाद्यस्तु मानवः ।
सुखमप्याचरन्नित्यं सोऽत्यन्तं सुखमेधते ॥
यद्वै नृशंसं तदसत्यमाहु- र्यः सेवते धर्ममनर्थबुद्धिः ।
अस्वोऽप्यनीशश्च तथैव राजं- स्तदार्जवं स समाधिस्तदार्यम् ॥
अष्टक उवाच ।
केनासि हूतः प्रहितोऽसि राज- न्युवा स्रग्वी दर्शनीयः सुवर्चाः ।
कुतऋ आयातः कतरस्यां दिशि त्व- मुताहोस्वित्पार्थिवं स्थानमस्ति ॥
ययातिरुवाच ।
इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमुर्वीं गगनाद्विप्रहीणः ।
`विद्वांश्चैवं मतिमानार्यबुद्धि- र्ममाभवत्कर्मलोक्यं च सर्वम्' । उक्त्वाऽहं वः प्रपतिष्याम्यनन्तरं त्वरन्ति मां लोकपा ब्राह्मणा ये ॥
सतां सकाशे तु वृतः प्रपात- स्ते सङ्गता गुणवन्तश्च सर्वे ।
शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र ॥
अष्टक उवाच ।
पृच्छामि त्वां मा प्रपत प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र ।
यद्यन्तरिक्षे यदि वा दिवि स्थिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।
यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पार्वतैश्च ।
तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह ॥
अष्टक उवाच ।
तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति ।
यद्यन्तरिक्षे यदि वा दिवि श्रिता- स्तानाक्रम क्षिप्रमपेतमोहः ॥
ययातिरुवाच ।
नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य ।
यथा प्रदेयं सततं द्विजेभ्य- स्तथाऽददं पूर्वमहं नरेन्द्र ॥
नाब्राह्मणः कृपणो जातु जीवे- द्या चाप्यस्याऽब्राह्मणी वीरपत्नी ।
सोऽहं नैवाकृतपूर्वं चरेयं विधित्समानः किमु तत्र साधुः ॥
प्रतर्दन उवाच ।
पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।
सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकः सप्तसप्ताप्यहानि ।
मधुच्युतो घृतपृक्ता विशोका- स्ते नान्तवन्तः प्रतिपालयन्ति ॥
प्रतर्दन उवाच ।
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु ।
यद्यन्तरिक्षे यदि वा दिवि श्रिता- स्तानाक्रम क्षिप्रमपेतमोहः ॥
ययातिरुवाच ।
न तुल्यतेजाः सुकृतं कामयेत योगक्षेमं पार्थिव पार्थिवः सन् ।
दैवादेशादापदं प्राप्य विद्वां- श्चरेन्नृशंसं न हि जातु राजा ॥
धर्म्यं मार्गं यतमानो यशस्यं कुर्यान्नृपो धर्ममवेक्षमाणः ।
न मद्विधो धर्मबुद्धिः प्रजान- न्कुर्यादेवं कृपणं मां यथाऽत्थ ॥
कुर्यादपूर्वं न कृतं यदन्यै- र्विधित्समानः किमु तत्र साधु ।
`धर्माधर्मौ सुविनिश्चित्य सम्य- क्कार्याकार्येष्वप्रमत्तश्चरेद्यः ॥
स वै धीमान्सत्यसन्धः कृतात्मा राजा भवेल्लोकपालो महिम्ना ।
यदा भवेत्संशयो धर्मकार्ये कामार्थौ वा यत्र विन्दन्ति सम्यक् ॥
कार्यं तत्र प्रथमं धर्मकार्यं यन्नो विरुध्यादर्थकामौ स धर्मः
वैशंपायन उवाच ।'
ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत्तम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षडशीतितमोऽध्यायः ॥ 86 ॥

1-86-1 अनयोः कुटीचकबहूदकयोः ॥ 1-86-2 गृहस्थेषु शरीरस्थेष्विन्द्रियेषु ॥ 1-86-3 दीर्घमायुः प्राप्तः सिद्धिमप्राप्य यो विकृतिं पापं चरेत् । तत्कृत्वा तप्येत यदि सोन्यत्तपः प्रायश्चित्तं चरेत् ॥ 1-86-4 कर्मणां सकाशात् बिभीयात् । सुखं यथेच्छम् ॥ 1-86-5 नृशंसं हिंस्रं यत्कर्म तदसत्यं असत्संबन्धि । अनर्थबुद्धिः फलेच्छारहितः । अनीशः ईशत्वबुद्धिरहितः ॥ 1-86-6 केन कतरस्यां दिशि प्रहिहितोसीत्यन्वयः ॥ 1-86-7 विप्रहीणश्च्युतः । उक्त्वा आपृच्छ्य । वो युष्मान् । ब्राह्मणाः ब्रह्मनियुक्ताः ॥ 1-86-12 अब्राह्मणः ब्राह्मणेतरः ब्राह्मणस्यैव भिक्षावृत्तित्वात् । ब्रह्मविद्वेदार्थवेत् । न वर्तते न प्रवर्तते । प्रत्युत पूर्वमददमेव ॥ 1-86-13 कृपणो याचकः । या चाप्यस्य क्षत्रियस्य अब्राह्मणी क्षत्रिया सापि कृपणा नजीवेत् । तद्विधित्समानः कर्तुमिच्छुः तत्र तदा किमु साधुः स्यां अपितु नैवेत्यर्थः ॥ 1-86-15 प्रत्येकं सप्तसप्ताप्यहानि सेविताः सन्तो नान्तवन्तः । मधुच्युतः सुखस्रवः । घृतपृक्तास्तेजोयुक्ताः । ते त्वां प्रतिपालयन्ति प्रतीक्षन्ते ॥ 1-86-17 नृशंसं निन्द्यं ॥ 1-86-19 अन्यै राजभिर्यत्प्रतिग्रहाख्यं न कृतं तदपूर्वम् ॥ षडशीतितमोऽध्यायः ॥ 86 ॥