अध्यायः 087

वसुमतः शिबेश्च ययातिना संवादः ॥ 1 ॥ पुनरष्टकययातिसंवादः ॥ 2 ॥ तत्रागतया माधव्या स्वपुत्रान्प्रति यया तेर्मातामहत्वकथनम् ॥ 3 ॥ तद्वचनेन ययातेरष्टकादिदत्तपुण्यस्वीकारपूर्वकमष्टकादिभिः सह स्वर्गगमनम् ॥ 4 ॥ ययातिना मार्गे अष्टकादीन्प्रति विस्तरेण स्ववृत्तान्तकथनम् ॥ 5 ॥ ययात्युपाख्यानश्रवणादिफलकथनम् ॥ 6 ॥

वसुमानुवाच ।
पृच्छामि त्वां वसुमानौषदश्वि- र्यद्यस्ति लोको दिवि मे नरेन्द्र ।
यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।
यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च ।
लोकास्तावन्तो दिवि संस्थिता वै तेनान्तवन्तः प्रतिपालयन्ति ॥
वसुमानुवाच ।
तांस्ते ददानि मा प्रपत प्रपातं ये मे लोकास्तव ते वै भवन्तु ।
क्रीणीष्वैतांस्तृणकेनापि राज- न्प्रतिग्रहस्ते यदि धीमन्प्रदुष्टः ॥
ययातिरुवाच ।
न मिथ्याऽहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः ।
कुर्यां न चैवाकृतपूर्वमन्यै- र्विधित्समानः किमु तत्र साधुः ॥
वसुमानुवाच ।
तांस्त्वं लोकान्प्रतिपद्यस्व राज- न्मया दत्तान्यदि नेष्टः क्रयस्ते ।
अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तव ते वै भवन्तु ॥
शिबिरुवाच ।
पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्तीह तात ।
यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥
ययातिरुवाच ।
यत्त्वं वाचा हृदयेनापि साधू- न्परीप्समानान्नावमंस्था नरेन्द्र ।
तेनानन्ता दिवि लोकाः श्रितास्ते विद्युद्रूपाः स्वनवन्तो महान्तः ॥
शिबिरुवाच ।
तांस्त्वं लोकान्प्रतिपद्यस्व राज- न्मया दत्तान्यदि नेष्टः क्रयस्ते ।
न चाहं तान्प्रतिपत्स्ये ह दत्त्वा यत्र गत्वा नानुशोचन्ति धीराः ॥
ययातिरुवाच ।
यथा त्वमिन्द्रप्रतिमप्रभाव- स्ते चाप्यनन्ता नरदेव लोकाः ।
तथाऽद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि दायम् ॥
अष्टक उवाच ।
न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि ।
सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥
ययातिरुवाच ।
यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः ।
अहं तन्नाभिजानामि यत्कृतं न मया पुरा ॥
अष्टक उवाच ।
कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः ।
यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान् ॥
ययातिरुवाच ।
युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः ।
उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥
`वैशंपायन उवाच ।
अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा ।
हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम् ॥
होताऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत ।
अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः ॥
धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि ।
विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः ॥
एतस्मिन्नन्तरे चैव माधवी सा तपोधना ।
मृगचर्मपरीताङ्गी परिधाय मृगत्वचम् ॥
मृगैः परिचरन्ती सा मृगाहारविचेष्टिता ।
यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता ॥
आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा ।
यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान् ॥
पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी ।
असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा ॥
दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा ।
तदा वसुमनापृच्छन्मातरं वै तपस्विनीम् ॥
भवत्या यत्कृतमिदं वन्दनं पादयोरिह ।
कोयं देवोपमो राजा याऽभिवन्दसि मे वद ॥
माधव्युवाच ।
शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम ।
ययातिर्मम पुत्राणां मातामह इति स्मृतः ॥
पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः ।
केन वा कारणेनैवमिह प्राप्तो महायशाः ॥
वैशंपायन उवाच ।
तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत् ।
सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना ॥
माधवी पितरं प्राह दौहित्रपरिवारितम् ।
तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान् ॥
पुत्राणामिव पौत्राणां धर्मादधिगतं धनम् । स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः ।
तस्माद्दानेन तपसा चास्माकं दिवमाव्रज ॥
ययातिरुवाच ।
यदि धर्मफलं ह्येतच्छोभनं भविता तव ।
दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः ॥
तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके ।
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ॥
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ।
भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः ॥
दिवसस्याष्टमे भागे मन्दीभवति भास्करे ।
स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ॥
तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात् ।
रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम् ॥
लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम् ।
स कालः कालतो दत्तं नान्यथा काल इष्यते ॥
वैशंपायन उवाच ।
एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान् । सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात् ॥'
अष्टक उवाच ।
आतिष्ठ स्वरथं राजन्विक्रमस्व विहायसम् ।
वयमप्यनुयास्यामो यदा कालो भविष्यति ॥
ययातिरुवाच ।
सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम् ।
एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥
वैशंपायन उवाच ।
`अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः । ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा ।
सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह ॥'
तेऽधिरुह्य रथान्सर्वे प्रयाता नृपस्तमाः ।
आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥
अष्टक उवाच ।
अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा ।
कस्मादेवं शिबिरौशीनरोऽय- मेकोऽत्यगात्सर्ववेगेन वाहान् ॥
ययातिरुवाच ।
अददद्याचमानाय यावद्वित्तमविन्दत ।
उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठोहि वः शिबिः ॥
दानं तपः संत्यमथाऽपि धर्मो ह्रीः श्रीः क्षमा सौम्यमथो विधित्सा ।
राजन्नेतान्यप्रमेयाणि राज्ञः शिबेः स्थितान्यप्रतिमस्य बुद्ध्या ॥
एवं वृत्तो ह्रीनिषेवश्च यस्मा- त्तस्माच्छिबिरत्यगाद्वै रथेन ।
वैशंपायन उवाच ।
अथाष्टकः पुनरेवान्वपृच्छ- न्मातामहं कौतुकेनेन्द्रकल्पम् ॥
पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि सुतश्च कस्य ।
कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ॥
ययातिरुवाच ।
ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वबौमस्त्विहासम् ।
गुह्यं चार्थं मामकेभ्यो ब्रवीमि मातामहोऽहं भवतां प्रकाशम् ॥
सर्वामिमां पृथिवीं निर्जिगाय दत्त्वा प्रतस्थे विपिनं ब्राह्मणेभ्यः ।
मेध्यानश्वानेकशतान्सुरूपां- स्तदा देवाः पुण्यभाजो भवन्ति ॥
अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनेन ।
गोभिः सुवर्णेन धनैश्च मुख्यै- स्तदाऽददं गाः शथमर्बुदानि ॥
सत्येन मे द्यौश्च वसुन्धरा च तथैवाग्निज्वर्लते मानुषेषु ।
न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ॥
यदष्टक प्रब्रवीमीह सत्यं प्रतर्दनं चौषदश्विं तथैव ।
सर्वे च लोका मुनयश्च देवाः सत्येन पूज्या इति मे मनोगतम् ॥
यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् ।
अनसूयुर्द्विजाग्र्येभ्यः स लभेन्नः सलोकताम् ॥
वैशंपायन उवाच ।
एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोऽमित्रसाह ।
त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्ताशीतितमोऽध्यायः ॥ 87 ॥

1-87-2 यत् यत् तपते प्रकाशयति ॥ 1-87-4 शिशुकात् शैशवमारभ्य ॥ 1-87-7 परीप्समानान् याचकान् । नावमंस्था नावमानं कृतवानसि । स्वनवन्तः संगीतादिध्वनियुक्ताः ॥ 1-87-10 गन्तारो मृत्वा प्राप्स्यामः । नरकं भूलोकम् ॥ 1-87-11 यतध्वं कर्तुम् । नाभिजानामि नाङ्गीकरोमि ॥ 1-87-13 प्रकाशन्ते दृश्यन्ते । ज्वलन्तो दीप्यमानाः ॥ 1-87-14 अकृतहोमसमाप्तीनामवभृथायोगात् होमोपि समापित इत्याह । अश्वमेध इति । पुरा स्वयंभुविहिते कर्तव्यतया विहिते अश्वमेधे अष्टकादिभिः क्रियमाणे ॥ 1-87-41 सौम्यमक्रूरत्वम् । विधित्सा पालनेच्छा ॥ 1-87-42 सत्यमेव श्रेयःसाधनमिति विधातुं पूर्वोक्तप्रश्नोत्तरे अनुवदति । अथाष्टक इत्यादिना ॥ 1-87-44 प्रकाशं प्रागुक्तमपि स्पष्टतरम् ॥ 1-87-45 एवं कृते सति पुण्यभाजः सन्तः देवा भवन्ति ॥ सप्ताशीतितमोऽध्यायः ॥ 87 ॥