अध्यायः 089

शकुन्तलोपाख्यानारम्भः ॥ 1 ॥

जनमेजय उवाच ।
भगवन्विस्तरेणेह भरतस्य महात्मनः ।
जन्म कर्म च सुश्रूषोस्तन्मे शंसितुमर्हसि ॥
वैशंपायन उवाच ।
पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान् ।
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम ॥
चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः ।
समुद्रावरणांश्चापि देशान्स समितिंजयः ॥
आम्लेच्छावधिकान्सर्वान्स भुङ्क्ते रिपुमर्दनः ।
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान् ॥
न वर्णसङ्करकरो न कृष्याकरकृज्जनः ।
न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति ॥
धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे ।
तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे ॥
नासीच्चोरभयं तात न क्षुधाभयमण्वपि ।
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे ॥
स्वधर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः ।
तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः ॥
कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च ।
सर्वरत्नसमृद्धा च मही पशुमती तथा ॥
स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते ।
स चाद्भुतमहावीर्यो वज्रसंहननो युवा ॥
उद्यम्य मन्दरं दोर्भ्यां वहेत्सवनकाननम् ।
चतुष्पथगदायुद्धे सर्वप्रहरणेषु च ॥
नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठतः ।
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः ॥
अक्षोभ्यत्वेऽर्णवसमः सहिष्णुत्वे धरासमः ।
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् ॥
भूयो धर्मपरैर्भावैर्मुदितं जनमादिशत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोननवतितमोऽध्यायः ॥ 89 ॥

1-89-5 न कृष्याकरकृत् कृषिकृन्न भुवोऽकृष्टपच्यत्वात् । आकरः सुवर्णादिधातूत्पत्तिस्थानं तत्रापि यत्नं न करोति पृथिव्या रत्नैर्धातुभिश्च पूर्णत्वात् ॥ 1-89-8 दैवे कर्मणि वृष्ट्याद्यर्थे कारीर्यादिकाम्यकर्मणि ॥ 1-89-9 तदेवाह कालेति ॥ 1-89-10 वज्रसंहननो दृढदेहः ॥ 1-89-11 सवनकाननं वनं जलमुपवनं वा ॥ 1-89-14 आदिशत् शशास ॥ एकोननवतितमोऽध्यायः ॥ 89 ॥