अध्यायः 092

कण्वाश्रमे दुष्यन्तशकुन्तलासंवादः ॥ 1 ॥ शकुन्तलायाः स्वजन्मवृत्तान्तकथनारम्भः ॥ 2 ॥

वैशंपायन उवाच ।
ततो गच्छन्महाबाहुरेकोऽमात्यान्विसृज्य तान् ।
नापश्यच्चाश्रमे तस्मिंस्तमृषिं संशितव्रतम् ॥
सोऽपश्यमानस्तमृषिं शून्यं दृष्ट्वा तथाऽऽश्रमम् ।
उवाच क इहेत्युच्चैर्वनं सन्नादयन्निव ॥
श्रुत्वाऽथ तस्य तं शब्दं कन्या श्रीरिव रूपिणी ।
निश्चक्रामाश्रमात्तस्मात्तापसीवेषधारिणी ॥
सा तं दृष्ट्वैव राजानं दुष्यन्तमसितेक्षणा ।
`सुप्रीताऽभ्यागतं तं तु पूज्यं प्राप्तमथेश्वरम् ॥
रूपयौवनसंपन्ना शीलाचारवती शुभा ।
सा तमायतपद्माक्षं व्यूढोरस्कं महाभुजम् ॥
सिंहस्कन्धं दीर्घबाहुं सर्वलक्षणपूजितम् । स्पृष्टं मधुरया वाचा साऽब्रवीज्जनमेजया ॥'
स्वागतं त इति क्षिप्रमुवाच प्रतिपूज्य च ।
आसनेनार्चयित्वा च पाद्येनार्घ्येण चैव हि ॥
पप्रच्छानामयं राजन्कुशलं च नराधिपम् ।
यथावदर्चयित्वाऽथ पृष्ट्वा चानामयं तदा ॥
उवाच स्मयमानेव किं कार्यं क्रियतामिति ।
`आश्रमस्याभिगमने किं त्वं कार्यं चिकीर्षसि ॥
कस्त्वमद्येह संप्राप्तो महर्षेराश्रमं शुभम् ।' तामब्रवीत्ततो राजा कन्यां मधुरभाषिणीम् ॥
दृष्ट्वा सर्वानवद्याङ्गीं यथावत्प्रतिपूजितः ।
`राजर्षेस्तस्य पुत्रोऽहमिलिनस्य महात्मनः ॥
दुष्यन्त इति मे नाम सत्यं पुष्करलोचने ।' आगतोऽहं महाभागमृषिं कण्वमुपासितुम् ॥
क्व गतो भगवान्भद्रे गन्ममाचक्ष्व शोभने ।
शकुन्तलोवाच ।
गतः पिता मे भगवान्फलान्याहर्तुमाश्रमात् ।
मुहूर्तं संप्रतीक्षस्व द्रष्टास्येनमुपागतम् ॥
वैशंपायन उवाच ।
अपश्यमानस्तमृषिं तथा चोक्तस्तया च सः ।
तां दृष्ट्वा च वरारोहां श्रीमतीं चारुहासिनीम् ॥
विभ्राजमानां वपुषा तपसा च दमेन च ।
रूपयौवनसंपन्नामित्युवाच महीपतिः ॥
का त्वं कस्यासि सुश्रोणि किमर्थं चागता वनम् ।
एवंरूपगुणोपेता कुतस्त्वमसि शोभने ॥
दर्शनादेव हि शुभे त्वया मेऽपहृतं मनः ।
इच्छामि त्वामहं ज्ञातुं तन्ममाचक्ष्व शोभने ॥
`स्थितोस्म्यमितसौभाग्ये विवक्षुश्चास्मि किंचन ।
शृणु मे नागनासोरु वचनं मत्तकाशिनि ॥
राजर्षेरन्वये जातः पूरोरस्मि विशेषतः ।
वृण्वे त्वामद्य सुश्रोणि दुष्यन्तो वरवर्णिनि ॥
न मेऽन्यत्र क्षत्रियाया मनो जातु प्रवर्तते ।
ऋषिपुत्रीषु चान्यासु नावरासु परासु च ॥
तस्मात्प्रणिहितात्मानं विद्दि मां कलभाषिणि ।
यस्यां मे त्वयि भावोऽस्ति क्षत्रिया ह्यसि का वदा ॥
न हि मे भीरु विप्रायां मनः प्रसहते गतिम् । भजे त्वामायतापाङ्गे भक्तं भजितुमर्हसि ।
भुङ्क्ष राज्यं विशालाक्षि बुद्धिं मात्वन्यथा कृथाः' ॥
एवमुक्ता तु सा कन्या तेन राज्ञा तमाश्रमे ।
उवाच हसती वाक्यमिदं सुमधुराक्षरम् ॥
कण्वस्याहं भगवतो दुष्यन्त दुहिता मता ।
तपस्विनो धृतिमतो धर्मज्ञस्य महात्मनः ॥
`अस्वतन्त्रास्मि राजेन्द्र काश्यपो मे गुरुः पिता । तमेव प्रार्थय स्वार्थं नायुक्तं कर्तुमर्हसि ॥'
दुष्यन्त उवाच ।
ऊर्ध्वरेता महाभागे भगवाँल्लोकपूजितः ।
चलेद्धि वृत्ताद्धर्मोपि न चलेत्संशितव्रतः ॥
कथं त्वं तस्य दुहिता संभूता वरवर्णिनी ।
संशयो मे महानत्र तन्मे छेत्तुमिहार्हसि ॥
शकुन्तलोवाच ।
यथाऽयमागमो मह्यं यथा चेदमभूत्पुरा ।
`अन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ॥
स पापेनावृतो मूर्खस्तेन आत्मापहारकः ।' शृणु राजन्यथातत्त्वं यथाऽस्मि दुहिता मुनेः ॥
ऋषिः कश्चिदिहागम्य मम जन्माभ्यचोदयत् ।
`ऊर्ध्वरेता यथासि त्वं कुतस्त्वेयं शकुन्तला ॥
पुत्री त्वत्तः कथं जाता तत्त्वं मे ब्रूहि काश्यप ।' तस्मै प्रोवाच भगवान्यथा तच्छृणु पार्थिवा ॥
कण्व उवाच ।
तप्यमानः किल पुरा विश्वामित्रो महत्तपः ।
सुभृशं तापयामास शक्रं सुरगणेश्वरम् ॥
तपसा दीप्तवीर्योऽयं स्थानान्मां च्यावयेदिति ।
भीतः पुरन्दरस्तस्मान्मेनकामिदमब्रवीत् ॥
गुणैरप्सरसां दिव्यैर्मेनके त्वं विशिष्यसे ।
श्रेयो मे कुरु कल्याणि यत्त्वां वक्ष्यामि तच्छृणु ॥
असावादित्यशङ्काशो विश्वामित्रो महातपाः ।
तप्यमानस्तपो घोरं मम कम्पयते मनः ॥
मेनके तव भारोऽयं विश्वामित्रः सुमध्यमे ।
शंसितात्मा सुदुर्धर्ष उग्रे तपसि वर्तते ॥
स मां न च्यावयेत्स्थानात्तं वै गत्वा प्रलोभय ।
चर तस्य तपोविघ्नं कुरु मे प्रियमुत्तमम् ॥
रूपयौवनमाधुर्यचेष्टितस्मितभाषणैः ।
लोभयित्वा वरारोहे तपसस्तं निवर्तय ॥
मेनकोवाच ।
महातेजाः स भगवांस्तथैव च महातपाः ।
कोपनश्च तथा ह्येनं जानाति भगवानपि ॥
तेजस्तपसश्चैव कोपस्य च महात्मनः ।
त्वमप्युद्विजसे यस्य नोद्विजेयमहं कथम् ॥
महाभागं वसिष्ठं यः पुत्रैरिष्टैर्व्ययोजयत् ।
क्षत्रजातश्च यः पूर्वमभवद्ब्राह्मणो बलात् ॥
शौचार्थं यो नदीं चक्रे दुर्गमां बहुभिर्जलैः ।
यां तां पुण्यतमां लोके कौशिकीति विदुर्जनाः ॥
बभार यत्रास्य पुरा काले दुर्गे महात्मनः ।
दारान्मतङ्गो धर्मात्मा राजर्षिर्व्याधतां गतः ॥
अतीतकाले दुर्भिक्षे अभ्येत्य पुनराक्षमम् ।
मुनिः पारेति नद्या वै नाम चक्रे तदा प्रभुः ॥
मतङ्गं याजयाञ्चक्रे यत्र प्रीतमनाः स्वयम् ।
त्वं च सोमं भयाद्यस्य गतः पातुं सुरेश्वर ॥
चकारान्यं च लोकं वै क्रुद्धो नक्षत्रसंपदा । प्रतिश्रवणपूर्वाणि नक्षत्राणि चकार यः ।
गुरुशापहतस्यापि त्रिशङ्कोः शरणं ददौ ॥
ब्रह्मर्षिशापं राजर्षिः कथं मोक्ष्यति कौशिकः ।
अवमत्य तदा देवैर्यज्ञाङ्गं तद्विनाशितम् ॥
अन्यानि च महातेजा यज्ञाङ्गान्यसृजत्प्रभुः ।
निनाय च तदा स्वर्गं त्रिशङ्कुं स महातपाः ॥
एतानि यस्य कर्माणि तस्याहं भृशमुद्विजे ।
यथाऽसौ न दहेत्क्रुद्धस्तथाऽऽज्ञापय मां विभो ॥
तेजसा निर्दहेल्लोकान्कम्पयेद्धरणीं पदा ।
संक्षिपेच्च महामेरुं तूर्णमावर्तयेद्दिशः ॥
तादृशं तपसा युक्तं प्रदीप्तमिव पावकम् ।
कथमस्मद्विधा नारी जितेन्द्रियमभिस्पृशेत् ॥
हुताशनमुखं दीप्तं सूर्यचन्द्राक्षितारकम् ।
कालजिह्वं सुरश्रेष्ठ कथमस्मद्विधा स्पृशेत् ॥
यमश्च सोमश्च महर्षयश्च साध्या विश्वे वालस्विल्याश्च सर्वे ।
एतेऽपि यस्योद्विजन्ते प्रभावा- त्तस्मात्कस्मान्मादृशी नोद्विजेत ॥
त्वयैवमुक्ता च कथं समीप- मृषेर्न गच्छेयमहं सुरेन्द्र ।
रक्षां च मे चिन्तय देवराज यथा त्वदर्थं रक्षिताऽहं चरेयम् ॥
कामं तु मे मारुतस्तत्र वासः प्रक्रीडिताया विवृणोतु देव ।
भवेच्च मे मन्मथस्तत्र कार्ये सहायभूतस्तु तव प्रसादात् ॥
वनाच्च वायुः सुरभिः प्रवाया- त्तस्मिन्काले तमृषिं लोभयन्त्याः ।
तथेत्युक्त्वा विहिते चैव तस्मिं- स्ततो ययौ साऽऽश्रमं कौशिकस्य ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥

1-92-23 हसती हसन्ती ॥ 1-92-30 अभ्यचोदयत् पृष्टवान् ॥ 1-92-43 बभार पोषितवान् । मतङ्गस्त्रिशङ्कुः ॥ 1-92-44 आश्रममभ्येत्य तपस्तप्त्वेति शेषः । नद्याः कौशिक्याः ॥ 1-92-49 तस्य तस्मात् ॥ 1-92-50 आवर्तयेदेकीकुर्यात् ॥ 1-92-52 सूर्यचन्द्रावेवाक्ष्णोः संबन्धिनी तारके यस्य तावपि भ्रूभङ्गमात्रेण स्रष्टुं समर्थ इत्यर्थः ॥ 1-92-55 प्रक्रीडितायाः प्रकृष्टं क्रीडितं यस्याः । विवृणोतु अपसारयतु ॥ द्विनवतितमोऽध्यायः ॥ 92 ॥