अध्यायः 093
विश्वामित्रान्मेनकायां शकुन्तलाया जन्मकथनम् ॥ 1 ॥
कण्व उवाच ।
एवमुक्तस्तया शक्रः संदिदेश सदागतिम् ।
प्रातिष्ठत तदा काले मेनका वायुना सह ॥
अथापश्यद्वरारोहा तपसा दग्धकिल्बिषम् ।
मिश्वामित्रं तप्यमानं मेनका भीरुराश्रमे ॥
अभिवाद्य ततः सा तं प्राक्रीडदृषिसन्निधौ ।
अपोवाह च वासोऽस्या मारुतः शशिसंनिभम् ॥
सागच्छत्त्वरिता भूमिं वासस्तदभिलिप्सती ।
कुत्सयन्तीव सव्रीडं मारुतं वरवर्णिनी ॥
पश्यतस्तस्य राजर्षेरप्यग्निसमतेजसः ।
विश्वामित्रस्ततस्तां तु विषमस्थामनिन्दिताम् ॥
गृद्धां वाससि संभ्रान्तां मेनकां मुनिसत्तमः ।
अनिर्देश्यवयोरूपामपश्यद्विवृतां तदा ॥
तस्या रूपगुणान्दृष्ट्वा स तु विप्रर्षभस्तदा ।
चकार भावं संसर्गे तया कामवशं गतः ॥
न्यमन्त्रयत चाप्येनां सा चाप्यैच्छदनिन्दिता ।
तौ तत्र सुचिरं कालमुभौ व्यवहरतां तदा ॥
रममाणौ यथाकामं यतैकदिवसं तथा ।
`एवं वर्षसहस्राणामतीतं नान्वचिन्तयत् ॥
कामक्रोधावजितवान्मुनिर्नित्यं समाहितः ।
चिरार्जितस्य तपसः क्षयं स कृतवान्मुनिः ॥
तपसः संक्षयादेव मुनिर्मोहं समाविशत् ।
मोहाभिभूतः क्रोधात्मा ग्रसन्मूलफलान्मुनिः ॥
पादैर्जलरवं कृत्वा अन्तर्द्वीपे कुटीं गतः ।
मेनका गन्तुकामा तु शुश्राव जलनिस्वनम् ॥
तपसा दीप्तवीर्योऽसावाकाशादेति याति च ।
अद्य संज्ञां विजानामि ययाऽद्य तपसः क्षयः ॥
गन्तुं न युक्तमित्युक्त्वा ऋतुस्नाताथ मेनका ।
कामरागाभिभूतस्य मुनेः पार्स्वं जगाम ह ॥'
जनयामास स मुनिर्मेनकायां शकुन्तलाम् ।
प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ॥
`देवगर्भोपमां बालां सर्वाभरणभूषिताम् ।
शयानां शयने रम्ये मेनका वाक्यमब्रवीत् ॥
महर्षेरुग्रतपसस्तेजस्त्वमसि भामिनि ।
तस्मात्स्वर्गं गमिष्यामि देवकार्यार्थमागता ॥'
जातमुत्सृज्य तं गर्भं मेनका मालिनीमनु ।
कृतकार्या ततस्तूर्णमगच्छच्छक्रसंसदम् ॥
तं वने विजने गर्भं सिंहव्याघ्रसमाकुले ।
दृष्ट्वा शयानं शकुनाः समन्तात्पर्यवारयन् ।
नेमां हिंस्युर्वने बालां क्रव्यादा मांसगृद्धिनः ॥
पर्यरक्षन्त तां तत्र शकुन्ता मेनकात्मजाम् ।
उपस्प्रष्टुं गतश्चाहमपश्यं शयितामिमाम् ॥
निर्जने विपिने रम्ये शकुन्तैः परिवारिताम् ।
`मां दृष्ट्वैवाभ्यपद्यन्त पादयोः पतिता द्विजाः ।
अब्रुञ्शकुनाः सर्वे कलं मधुरभाषिणः ॥
विश्वामित्रसुतां ब्रह्मन्न्यासभूतां भरस्व वै ।
कामक्रोधावजितवान्सखा ते कौशिकीं गतः ॥
तस्मात्पोषय तत्पुत्रीं दयावानिति तेऽब्रुवन् ।
सर्वभूतरुतज्ञोऽहं दयावान्सर्वजन्तुषु ॥'
आनयित्वा ततश्चैनां दुहितृत्वे न्यवेशयम् ॥
शरीरकृत्प्राणदाता यस्य चान्नानि भुञ्जते ।
क्रमेणैते त्रयोऽप्युक्ताः पितरो धर्मशासने ॥
निर्जने तु वने यस्माच्छकुन्तैः परिवारिता ।
शकुन्तलेति नामास्याः कृतं चापि ततो मया ॥
एवं दुहितरं विद्धि मम विप्र शकुन्तलाम् ।
शकुन्तला च पितरं मन्यते मामनिन्दिता ॥
शकुन्तलोवाच ।
एतदाचष्ट पृष्टः सन्मम जन्म महर्षये ।
सुतां कण्वस्य मामेवं विद्धि त्वं मनुजाधिप ॥
कण्वं हि पितरं मन्ये पितरं स्वमजानती ।
इति ते कथितं राजन्यथावृत्तं श्रुतं मया ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥
1-93-1 सदागतिम् वायुम् ॥ 1-93-6 गृद्धां सक्ताम् । विवृतामनाच्छादिताम् ॥ 1-93-8 न्यमन्त्रयत एहीत्याकारितवान् । व्यहरतां विहारं चक्रतुः ॥ 1-93-20 उपस्प्रष्टुं आचमनादिकं कर्तुम् ॥ 1-93-25 शरीरकृन्निषेक्ता । प्राणदाताऽभयप्रदः ॥ त्रिनवतितमोऽध्यायः ॥ 93 ॥