अध्यायः 094

समयबन्धपूर्वकं गान्धर्वेण विवाहेन शकुन्तलापाणिग्रहणम् ॥ 1 ॥ कण्वस्य स्वाश्रमं प्रति प्रत्यागमनम् ॥ 2 ॥ कण्वशकुन्तलासंवादः ॥ 3 ॥ कण्वाच्छकुन्तलाया वरलाभः ॥ 4 ॥

दुष्यन्त उवाच ।
सुव्यक्तं राजपुत्री त्वं यथा कल्याणि भाषसे ।
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते ॥
सुवर्णमालां वासांसि कुण्डले परिहाटके ।
नानापत्तनजे शुभ्रे मणिरत्ने च शोभने ॥
आहरामि तवाद्याहं निष्कादीन्यजिनानि च ।
सर्वं राज्यं तवाद्यास्तु भार्या मे भव शोभने ॥
गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि ।
विवाहानां हि रम्भोरु गान्धर्वः श्रेष्ठ उच्यते ॥
शकुन्तलोवाच ।
फलाहारो गतो राजन्पिता मे इत आश्रमात् ।
मुहूर्तं संप्रतीक्षस्व स मां तुभ्यं प्रदास्यति ॥
`पिता हि मे प्रभुर्नित्यं दैवतं परमं मम ।
यस्मै मां दास्यति पिता स मे भर्ता भविष्यति ॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥
समन्यमाना राजेन्द्र पितरं मे तपस्विनम् ।
अधर्मेण हि धर्मिष्ठ कथं वरमुपास्महे ॥
दुष्यन्त उवाच ।
मामैवं वद कल्याणि तपोराशिं दमात्मकम् ।
शकुन्तलोवाच ।
मन्युप्रहरणा विप्रा न विप्राः शस्त्रपाणयः ॥
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् ।
अग्निर्दहति तेजोभिः सूर्यो दहति रश्मिभिः ॥
राजा दहति दण्डेन ब्राह्मणो मन्युना दहेत् ।
क्रोधिता मन्युना घ्नन्ति वज्रपाणिरिवासुरान् ॥
दुष्यन्त उवाच ।
जाने भद्रे महर्षिं तं तस्य मन्युर्न विद्यते ।' इच्छामि त्वां वरारोहे भजमानामनिन्दिते ।
त्वदर्थं मां स्थितं विद्धि त्वद्गतं हि मनो मम ॥
आत्मनो बन्धुरात्मैव गतिरात्मैव चात्मनः ।
आत्मनैवात्मनो दानं कर्तुमर्हसि धर्मतः ॥
अष्टावेव समासेन विवाहा धर्मतः स्मृताः ।
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः ॥
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ।
तेषां धर्म्यान्यथापूर्वं मनुः स्वायंभुवोऽब्रवीत् ॥
प्रशस्तांश्चतुरः पूर्वान्ब्राह्मणस्योपधारय ।
षडानुपूर्व्या क्षत्रस्य विद्धि धर्म्याननिन्दिते ॥
राज्ञां तु राक्षसोऽप्युक्तो विट्शूद्रेष्वासुरः स्मृतः ।
पञ्चानां तु त्रयो धर्म्या अधर्म्यौ द्वौ स्मृताविह ॥
पैशाच आसुरश्चैव न कर्तव्यौ कदाचन ।
अनेन विधिना कार्यो धर्मस्यैषा गतिः स्मृता ॥
गान्धर्वराक्षसौ क्षत्रे धर्म्यौ तौ मा विशङ्किथाः ।
पृथग्वा यदि वा मिश्रौ कर्तव्यौ नात्र संशयः ॥
सा त्वं मम सकामस्य सकामा वरवर्णिनी ।
गान्धर्वेण विवाहेन भार्या भवितुमर्हसि ॥
शकुन्तलोवाच ।
यदि धर्मपथस्त्वेव यदि चात्मा प्रभुर्मम ।
प्रदाने पौरवश्रेष्ठ शृणु मे समयं प्रभो ॥
सत्यं मे प्रतिजानीहि यथा वक्ष्याम्यहं रहः ।
मयि जायेत यः पुत्रः स भवेत्त्वदनन्तरः ॥
युवराजो महाराज सत्यमेतद्ब्रवीमि ते ।
यद्येतदेवं दुष्यन्त अस्तु मे सङ्गमस्त्वया ॥
वैशंपायन उवाच ।
`तस्यास्तु सर्वं संश्रुत्य यथोक्तं स विशांपतिः ।
दुष्यन्तः पुनरेवाह यद्यदिच्छसि तद्वद ॥
शकुन्तलोवाच ।
ख्यातो लोकप्रवादोयं विवाह इति शास्त्रतः ।
वैवाहिकीं क्रियां सन्तः प्रशंसन्ति प्रजाहिताम् ॥
लोकप्रवादशान्त्यर्थं विवाहं विधिना कुरु ।
सन्त्यत्र यज्ञपात्राणि दर्भाः सुमनसोऽक्षताः ॥
यथा युक्तो विवाहः स्यात्तथा युक्ता प्रजा भवेत् ।
तस्मादाज्यं हविर्लाजाः सिकता ब्राह्मणास्तव ॥
वैवाहिकानि चान्यानि समस्तानीह पार्थिव ।
दुरुक्तमपि राजेन्द्र क्षन्तव्यं धर्मकारणात् ॥
वैशंपायन उवाच ।'
एवमस्त्विति तां राजा प्रत्युवाचाविचारयन् ।
अपि च त्वां हि नेष्यामि नगरं स्वं शुचिस्मिते ॥
यथा त्वमर्हा सुश्रोणि मन्यसे तद्ब्रवीमि ते ।
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ॥
`पुरोहितं समाहूय वचनं युक्तमब्रवीत् ।
राजपुत्र्या यदुक्तं वै न वृथा कर्तुमुत्सहे ॥
क्रियाहीनो हि न भवेन्मम पुत्रो महाद्युतिः ।
तथा कुरुष्व शास्त्रोक्तं विवाहं मा चिरंकुरु ॥
एवमुक्तो नृपतिना द्विजः परमयन्त्रितः ।
शोभनं राजराजेति विधिना कृतवान्द्विजः ॥
शासनाद्विप्रमुख्यस्य कृतकौतुकमङ्गलः ।' जग्राह विधिवत्पाणावुवास च तया सह ॥
विश्वास्य चैनां स प्रायादब्रवीच्च पुनः पुनः ।
प्रेषयिष्ये तवार्थाय वाहिनीं चतुरङ्गिणीम् ॥
`त्रैविद्यवृद्धैः सहितां नानाराजजनैः सह ।
शिबिकासहस्रैः सहिता वयमायान्ति बान्धवाः ॥
मूकाश्चैव किराताश्च कुब्जा वामनकैः सह ।
सहिताः कञ्चुकिवरैर्वाहिनी सूतमागधैः ॥
शङ्खदुन्दुभिनिर्घोषैर्वनं च समुपैष्यति ।
तथा त्वामानयिष्यामि नगरं स्वं शुचिस्मिते ॥
अन्यथा त्वां न नेष्यामि स्वनिवेशमसत्कृताम् ।
सर्वमङ्गलसत्कारैः सुभ्रु सत्यं करोमि ते ॥
वैशंपायन उवाच ।
एवमुक्त्वा स राजर्षिस्तामनिन्दितगामिनीम् ।
परिष्वज्य च बाहुभ्यां स्मितपूर्वमुदैक्षत ॥
प्रदक्षिणीकृतां देवीं पुनस्तां परिषस्वजे ।
शकुन्तला सा सुमुखी पपात नृपपादयोः ॥
तां देवीं पुनरुत्थाप्य मा शुचेति पुनः पुनः । शपेयं सुकृतेनैव प्रापयिष्ये नृपात्मजे ॥'
इति तस्याः प्रतिश्रुत्य स नृपो जनमेजय ।
मनसा चिन्तयन्प्रायात्काश्यपं प्रति पार्थिव ॥
भगवांस्तपसा युक्तः श्रुत्वा किं नु करिष्यति । तं न प्रसाद्यागतोऽहं प्रसीदेति द्विजोत्तमम् ।
एवं संचिन्तयन्नेव प्रविवेश स्वकं पुरम् ॥
ततो मुहूर्ते याते तु कण्वोऽप्याश्रममागमत् ।
शकुन्तला च पितरं ह्रिया नोपजगाम तम् ॥
`शङ्कितेव च विप्रर्षिमुपचक्राम सा शनैः ।
ततोऽस्य भारं जग्राह आसनं चाप्यकल्पयत् ॥
प्राक्षालयच्च सा पादौ काश्यपस्य महात्मनः ।
न चैनं लज्जयाऽशक्नोदक्षिभ्यामभिवीक्षितुम् ॥
शकुन्तला च सव्रीडा तमृषिं नाभ्यभाषत ।
तस्मात्स्वधर्मात्स्खलिता भीता सा भरतर्षभ ॥
अभवद्दोषदर्शित्वाद्ब्रह्मचारिण्ययन्त्रिता ।
स तदा व्रीडितां दृष्ट्वा ऋषिस्तां प्रत्यभाषत ॥
कण्व उवाच ।
सव्रीडैव च दीर्घायुः पुरेव भविता न च ।
वृत्तं कथय रम्भोरु मा त्रासं च प्रकल्पय ॥
वैशंपायन उवाच ।
ततः प्रक्षाल्य पादौ सा विश्रान्तं पुनरब्रवीत् ।
निधाय कामं तस्यर्षेः कन्दानि च फलानि च ॥
ततः संवाह्य पादौ सा विश्रान्तं वेदिमध्यमा ।
शकुन्तला पौरवाणां दुष्यन्तं जग्मुषी पतिम् ॥
ततः कृच्छ्रादतिशुभा सव्रीडा श्रमती तदा ।
सगद्गदमुवाचेदं काश्यपं सा शुचिस्मिता ॥
शकुन्तलोवाच ।
राजा ताताजगामेह दुष्यन्त इलिलात्मजः ।
मया पतिर्वृतो योऽसौ दैवयोगादिहागतः ॥
तस्य तात प्रसीद त्वं भर्ता मे सुमहायशाः ।
अतः सर्वं तु यद्वृत्तं दिव्यज्ञानेन पश्यसि ॥
अभयं क्षत्रियकुले प्रसादं कर्तुमर्हसि ।
वैशंपायन उवाच ।
चक्षुषा स तु दिव्येन सर्वं विज्ञाय काश्यपः ॥
ततो धर्मिष्ठतां मत्वा धर्मे चास्खलितं मनः ।
उवाच भगवान्प्रीतस्तद्वृत्तं सुमहातपाः ॥
कण्व उवाच ।
एवमेतन्मया ज्ञातं दृष्टं दिव्येन चक्षुषा ।
त्वयाऽद्य राजान्वयया मामनादृत्य यत्कृतम्' ॥
पुंसा सह समायोगो न स धर्मोपघातकः ।
न भयं विद्यते भद्रे मा शुचः सुकृतं कृतम् ॥
क्षत्रियस्य तु गान्धर्वो विवाहः श्रेष्ठ उच्यते ।
सकामायाः सकामेन निमन्त्रः श्रेष्ठ उच्यते ॥
`किं पुनर्विधिवत्कृत्वा सुप्रजस्त्वमवाप्स्यसि ।' धर्मात्मा च महात्मा च दुष्यन्तः पुरुषोत्तमः ॥
अभ्यागच्छत्पतिर्यस्त्वां भजमानां शकुन्तले ।
महात्मा जनिता लोके पुत्रस्तव महायशाः ॥
स च सर्वां समुद्रान्तां कृत्स्नां भोक्ष्यति मेदिनीम् ।
परं चाभिप्रयातस्य चक्रं तस्य महात्मनः ॥
भविष्यत्यप्रतिहतं सततं चक्रवर्तिनः ।
प्रसन्न एव तस्याहं त्वकृते वरवर्णिनि ॥
ऋतवो बहवस्ते वै गता व्यर्थाः शुचिस्मिते । सार्थकं सांप्रतं ह्येतन्न च पाप्मास्ति तेऽनघे ।
गृहाण च वरं मत्तस्तत्कृते यदभीप्सितम् ॥
शकुन्तलोवाच ।
मया पतिर्वृतो योऽसौ दुष्यन्तः पुरुषोत्तमः । मम चैव पतिर्दृष्टो देवतानां समक्षतः ।
तस्मै ससचिवाय त्वं प्रसादं कर्तुमर्हसि ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा मनसा प्रणिधाय मनस्विनी ।
ततो धर्मिष्ठतां वव्रे राज्ये चास्खलनं तथा ॥
शकुन्तलां पौरवाणां दुष्यन्तहितकाम्यया ।
`एवमस्त्विति तां प्राह कण्वो धर्मभृतां वरः ॥
पस्पर्श चापि पाणिभ्यां सुतां श्रीमिवरूपिणीम् ॥
कण्व उवाच ।
अद्यप्रभृति देवी त्वं दुष्यन्तस्य महात्मनः ।
पतिव्रतानां या वृत्तिस्तां वृत्तिमनुपालय ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा धर्मात्मा तां विशुद्ध्यर्थमस्पृशत् । स्पृष्टमात्रे शरीरे तु परं हर्षमवाप सा ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥

1-94-4 गान्धर्वो वरवध्वोरैकमत्येन कृतः ॥ 1-94-5 फलाहारः फळन्याहर्तुं गतः ॥ 1-94-17 पञ्चानां ब्राह्मादीनां त्रयो ब्राह्मदैवप्राजापत्या धर्म्याः । द्वावर्षासुरो कन्याशुल्कग्रहणादधर्म्यौ ॥ 1-94-18 तयोरप्यासुरः पैशाचवदत्यन्तं हेय इत्याह । पैशाच इति ॥ 1-94-19 परिशेषाद्गन्धर्वराक्षसौ क्षत्रियस्य धर्म्यावित्याह गान्धर्वेति ॥ 1-94-42 शपेयं शपथं कुर्याम् ॥ चतुर्नवतितमोऽध्यायः ॥ 94 ॥