अध्यायः 005
					
					 भृगुवंशकथनम् ॥ 1 ॥ पौलोमोपाख्यानम् ॥ 2 ॥ पुलोमापहारः ॥ 3 ॥
						पुलोमाग्निसंवादः ॥ 4 ॥ 
					
					
						पुराणमखिलं तात पिता तेऽधीतवान्पुरा ।
							`भारताध्ययनं सर्वं कृष्णद्वैपायनात्तदा ।'
						
						कच्चित्त्वमपि तत्सर्वमधीषे रौमहर्षणे ॥
						
					 
					
						पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् ।
						कथ्यन्ते ये पुराऽस्माभिः श्रुतपूर्वाः पितुस्तव ॥
					 
					
						तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् ।
						कथयस्व कथामेतां कल्याः स्मः श्रवणे तव ॥
						सौतिरुवाच । 
					 
					
						यदधीतं पुरा सम्यग्द्विजश्रेष्ठैर्महात्मभिः ।
						वैशंपायनविप्राग्र्यैस्तैश्चापि कथितं यथा ॥
					 
					
						यदधीतं च पित्रा मे सम्यक्कैव ततो मया ।
						तावच्छृणुष्व यो देवैः सेन्द्रैः सर्षिमरुद्गणैः ॥
					 
					
						पूजितः प्रवरो वंशो भार्गवो भृगुनन्दन ।
						इमं वंशमहं पूर्वं भार्गवं ते महामुने ॥
					 
					
						निगदामि यथायुक्तं पुराणाश्रयसंयुतम् ।
						भृगुर्महर्षिर्भगवान्ब्रह्मणा वै स्वयंभुवा ॥
					 
					
						वरुणस्य क्रतौ जातः पावकादिति नः श्रुतम् ।
						भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः ॥
					 
					
						च्यवनस्य च दायादः प्रमतिर्नाम धार्मिकः ।
						प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ॥
					 
					
						रुरोरपि सुतो जज्ञे शुनको वेदपारगः ।
						प्रमद्वरायां धर्मात्मा तव पूर्वपितामहः ॥
					 
					
						तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः ।
						धार्मिकः सत्यवादी च नियतो नियताशनः ॥
						शौनक उवाच । 
					 
					
						सूतपुत्र यथा तस्य भार्गवस्य महात्मनः ।
						च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ॥
						सौतिरुवाच । 
					 
					
						भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता ।
						तस्यां समभवद्गर्भो भृगुवीर्यसमुद्भवः ॥
					 
					
						तस्मिन्गर्भेऽथ संभूते पुलोमायां भृगूद्वह ।
						समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ॥
					 
					
						अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे ।
						आश्रमं तस्य रक्षोऽथ पुलोमाऽभ्याजगाम ह ॥
					 
					
						तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् ।
						हृच्छयेन समाविष्टो विचेताः समपद्यत ॥
					 
					
						अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना ।
						न्यमन्त्रयत वन्येन फलमूलादिना तदा ॥
					 
					
						तां तु रक्षस्तदा ब्रह्मन्हृच्छयेनाभिपीडितम् ।
						दृष्ट्वा हृष्टमभूद्राजञ्जिहीर्षुस्तामनिन्दिताम् ॥
					 
					
						जातमित्यब्रवीत्कार्यं जिहीर्षुर्मुदितः शुभाम् ।
						सा हि पूर्वं वृता तेन पुलोम्ना तु शुचिस्मिता ॥
					 
					
						तां तु प्रादात्पिता पश्चाद्भृगवे शास्त्रवत्तदा ।
						तस्य तत्किल्बिषं नित्यं हृदि वर्तति भार्गव ॥
					 
					
						इदमन्तरमित्येवं हर्तुं चक्रे मनस्तदा ।
						अथाग्निशरणेऽपश्यज्ज्वलन्तं जातवेदसम् ॥
					 
					
						तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ।
						शंस मे कस्य भार्येयमग्ने पृच्छे ऋतेन वै ॥
					 
					
						मुखं त्वमसि देवानां वद पावक पृच्छते ।
						मया हीयं वृता पूर्वं भार्यार्थे वरवर्णिनी ॥
					 
					
						पश्चादिमां पिता प्रादाद्भृगवेऽनृतकारकः ।
						सेयं यदि वरारोहा भृगोर्भार्या रहोगता ॥
					 
					
						तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ।
						स मन्युस्तत्र हृदयं प्रदहन्निव तिष्ठति ॥
					 
					
						मत्पूर्वभार्यां यदिमां भृगुराप सुमध्यमाम् ।
						`असंमतमिदं मेऽद्य हरिष्याम्याश्रमादिमाम्' ॥
						सौतिरुवाच । 
					 
					
						एवं रक्षस्तमामन्त्र्य ज्वलितं जातवेदसम् ।
						शङ्कमानं भृगोर्भार्यां पुनःपुनरपृच्छत ॥
					 
					
						त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा ।
						साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ॥
					 
					
						मत्पूर्वभार्याऽपहृता भृगुणाऽनृतकारिणा ।
						सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ॥
					 
					
						श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्याश्रमादिमाम् ।
						जातवेदः पश्यतस्ते वद सत्यां गिरं मम ॥
						सौतिरुवाच । 
					 
					
						तस्यैतद्वचनं श्रुत्वा सप्तार्चिर्दुःखितोऽभवत् ।
						`सत्यं वदामि यदि मे शापः स्याद्ब्रह्मवित्तमात् ॥
					 
					
						असत्यं चेदहं ब्रूयां पतिष्ये नरकान्ध्रुवम् ।'
							भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ॥
						
					 
					
						त्वया वृता पुलोमेयं पूर्वं दानवनन्दन ।
						किं त्वियं विधिना पूर्वं मन्त्रवन्न वृता त्वया ॥
					 
					
						पित्रा तु भृगवे दत्ता पुलोमेयं यशस्विनी ।
						ददाति न पिता तुभ्यं वरलोभान्महायशाः ॥
					 
					
						अथेमां वेददृष्टेन कर्मणा विधिपूर्वकम् ।
						भार्यामृषिर्भृगुः प्राप मां पुरस्कृत्य दानव ॥
					 
					
						सेयमित्यवगच्छामि नानृतं वक्तुमुत्सहे ।
						नानृतं हि सदा लोके पूज्यते दानवोत्तम ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥ 
					 1-5-3 कल्याः समर्थाः । तव त्वत्तः श्रोतुमिति संबन्धः ॥ 1-5-7
						यथायुक्तं कथायुक्तं इत्यपि पाठः । पुराणस्य आश्रयः उपोद्धातःतत्संयुतं ॥ 1-5-19
						बाल्ये किल रुदतीं कन्यां रोदनानिवृत्त्यर्थं भीषयितुं पित्रोक्तं रे रक्ष एनां
						गृहाणेति । तावतैव गृहे सन्निहितेन रक्षसा वृता ममेयं भार्येति ॥ 1-5-27
						शङ्कमानं छलवचनेन पूर्वं मह्यं दत्ता पश्चाद्विधिपूर्वकं भृगवे दत्ताऽतो मम वा
						भृगोर्वा भार्येति सन्दिहानम् ॥ 1-5-28 कवे सर्वज्ञ ॥ पञ्चमोऽध्यायः ॥ 5 ॥