अध्यायः 097
सपुत्रायाः शकुन्तलाया दुप्यन्तसमीपगमनं ॥ 1 ॥ तयोः संवादश्च ॥ 2 ॥
वैशंपायन उवाच ।
गतान्मुनिगणान्दृष्ट्वा पुत्रं संगृह्य पाणिना ।
मातापितृभ्यां रहिता यथा शोचन्ति दारकाः ॥
तथा शोकपरीताङ्गी धृतिमालम्ब्य दुःखिता ।
गतेषु तेषु विप्रेषु राजमार्गेण भामिनी ॥
पुत्रेणैव सहायेन सा जगाम शनैः शनैः ।
अदृष्टपूर्वान्पश्यन्वै राजमार्गेण पौरवः ॥
हर्म्यप्रसादचैत्यांश्च सभा दिव्या विचित्रिताः ।
कौतूहलसमाविष्टो दृष्ट्वा विस्मयमागतः ॥
सर्वे ब्रुवन्ति तां दृष्ट्वा पद्महीनामिव श्रियम् ।
गत्या च संहीसदृशीं कोकिलेन स्वरे समाम् ॥
मुखेन चन्द्रसदृशीं श्रिया पद्मालयासमाम् ।
स्मितेन कुन्दसदृशीं पद्मगर्भसमत्वचम् ॥
पद्मपत्रविशालाक्षीं तप्तजाम्बूनदप्रभाम् ।
करान्तमितमध्यैषा सुकेशी संहतस्तनी ॥
जघनं सुविशालं वै ऊरू करिकरोपमौ ।
रक्ततुङ्गतलौ पादौ धरण्यां सुप्रतिष्ठितौ ॥
एवं रूपसमायुक्ता स्वर्गलोकादिवागता ।
इति स्म सर्वेऽमन्यन्त दुष्यन्तनगरे जनाः ॥
पुनः पुनरवोचंस्ते शाकुन्तलगुणानपि ।
सिंहेक्षणः सिंहदंष्ट्रः सिंहस्कन्धो महाभुजः ॥
सिंहोरस्कः सिंहबलः सिंहविक्रान्तगाम्ययम् ।
पृथ्वंसः पृथुवक्षाश्च छत्राकारशिरा महान् ॥
पाणिपादतले रक्तो रक्तास्यो दुन्दुभिस्वनः ।
राजलक्षणयुक्तश्च राजश्रीश्चास्य लक्ष्यते ॥
आकारेण च रूपेण शरीरेणापि तेजसा ।
दुष्यन्तेन समो ह्येष कस्य पुत्रो भविष्यति ॥
एवं ब्रुवन्तस्ते सर्वे प्रशशंसुः सहस्रशः ।
युक्तिवादानवोचन्त सर्वाः प्राणभृतः स्त्रियः ॥
बान्धवा इव सस्नेहा अनुजग्मुः शकुन्तलाम् ।
पौराणां तद्वचः श्रुत्वा तूष्णींभूता शकुन्तला ॥
वेश्मद्वारं समासाद्य विह्वला सा नृपात्मजा ।
चिन्तयामास सहसा कार्यगौरवकारणात् ॥
लज्जया च परीताङ्गी राजन्राजसमक्षतः ।
अघृणा किं नु वक्ष्यामि दुष्यन्तं मम कारणात् ॥
एवमुक्त्वा तु कृपणा चिन्तयन्ती शकुन्तला ।'
अभिसृत्य च राजानं वेदिता सा प्रवेशिता ॥
सह तेन कुमारेण तरुणादित्यवर्चसा ।
`सिंहासनस्थं राजानं महेन्द्रसदृशद्युतिम् ॥
शकुन्तला नतशिराः परं हर्षमवाप्य च ।'
पूजयित्वा यथान्यायमब्रवीत्तं शकुन्तला ॥
`अभिवादय राजानं पितरं ते दृढव्रतम् ।
एवमुक्त्वा सुतं तत्र लज्जानतमुखी स्थिता ॥
स्तम्भमालिङ्ग्य राजानं प्रसीदस्वेत्युवाच सा ।
शाकुन्तलोपि राजानमभिवाद्य कृताञ्जलिः ॥
हर्षेणोत्फुल्लनयनो राजानं चान्ववैक्षत ।
दुष्यन्तो धर्मबुद्ध्या तु चिन्तयन्नेव सोब्रवीत् ॥
किमागमनकार्यं ते ब्रूहि त्वं वरवर्णिनि ।
करिष्यामि न संदेहः सपुत्राया विशेषतः ॥
शकुन्तलोवाच ।
प्रसीदस्व महाराज वक्ष्यामि पुरुषोत्तम ।
एष पुत्रो हि ते राजन्मय्युत्पन्नः परंतप ॥
तस्मात्पुत्रस्त्वया राजन्यौवराज्येऽभिषिच्यताम् ।
यथोक्तमाश्रमे तस्मिन्वर्तस्व पुरुषोत्तम ॥
मया समागमे पूर्वं कृतः स समयस्त्वया ।
तत्त्वं स्मर महाबाहो कण्वाश्रमपदं प्रति ॥
वैशंपायन उवाच ।
तस्योपभोगसक्तस्य स्त्रीषु चान्यासु भारत ।
शकुन्तला सपुत्रा च मनस्यन्तरधीयत ॥
स धारयन्मनस्येनां सपुत्रां सस्मितां तदा ।
तदोपगृह्य मनसा चिरं सुखमवाप सः ॥
सोऽथ श्रुत्वापि तद्वाक्यं तस्या राजा स्मरन्नपि ।
अब्रवीन्न स्मरामीति त्वया भद्रे समागमम् ॥
मैथुनं च वृथा नाहं गच्छेयमिति मे मतिः ।
नाभिजानामि कल्याणि त्वया सह समागमम्' ॥
धर्मार्थकामसंबन्धं न स्मरामि त्वया सह ।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत्कुरु ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥