अध्यायः 100

आकाशवाणीश्रवणानन्तरं सपुत्रायाः शकुन्तलाया राज्ञाङ्गीकारः ॥ 1 ॥ भरतेतिनामकरणपूर्वकं पुत्रस्य राज्येऽभिषेकः ॥ 2 ॥

वैशंपायन उवाच ।
अथान्तरिक्षे दुष्यन्तं वागुवाचाशरीरिणी ।
ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चाभिसंवृतम् ॥
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः ।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥
`सर्वेभ्यो ह्यङ्गमङ्गेभ्यः साक्षादुत्पद्यते सुतः ।
आत्मा चैव सुतो नाम तेनैव तव पौरव ॥
आहितं ह्यात्मनाऽऽत्मानं परिरक्ष इमं सुतम् ।
अनन्यां त्वं प्रतीक्षस्व मावमंस्थाः शकुन्तलाम् ॥
स्त्रियः पवित्रमतुलमेतद्दुष्यन्त धर्मतः ।
मासि मासि रजो ह्यासां दुरितान्यपकर्षति ॥
ततः सर्वाणि भूतानि व्याजह्रस्तं समन्ततः ।
देवा ऊचुः ।
आहितस्त्वत्तनोरेष मावमंस्थाः शकुन्तलाम्' ॥
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥
`पतिर्जायां प्रविशति स तस्यां जायते पुनः । अन्योन्यप्रकृतिर्ह्येषा मावमंस्थाः शकुन्तलाम् ॥'
जाया जनयते पुत्रमात्मनोऽङ्गाद्द्विधा कृतम् ।
तस्माद्भरस्व दुष्यन्त पुत्रं शाकुन्तलं नृप ॥
सुभूतिरेषा न त्याज्या जीवितं जीवयात्मजम् ।
शाकुन्तलं महात्मानं दुष्यन्त भर पौरवम् ॥
भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि ।
तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ॥
`भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् ।
अपरे ये च पूर्वे च भारता इति तेऽभवन् ॥
वैशंपायन उवाच ।
एवमुक्त्वा ततो देवा ऋषयश्च तपोधनाः । पतिव्रतेति संहृष्टाः पुष्पवृष्टिं ववर्षिरे ॥'
तच्छ्रुत्वा पौरवो वाक्यं व्याहृतं वे दिवौकसाम् । `सिंहासनात्समुत्थाय प्रणम्य च दिवौकसः ॥'
पुरोहितममात्यांश्च संप्रहृष्टोऽब्रवीदिदम् ।
शृण्वन्त्वेतद्भवन्तोऽपि देवदूतस्य भाषितम् ॥
`शृण्वन्तु देवतानां च महर्षीणां च भाषितम्' ।
अहमप्येवमेवैनं जानामि सुतमात्मजम् ॥
यद्यहं वचनादस्या गृह्णीयामिममात्मजम् ।
भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ॥
वैशंपायन उवाच ।
तां विशोध्य तदा राजा देवैः सह महर्षिभिः ।
हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ॥
ततस्तस्य तदा राजा पितृकर्माणि सर्वशः । कारयामास मुदितः प्रीतिमानात्मजस्य ह ।
मूर्ध्नि चैनं समाघ्राय सस्नेहं परिषस्वजे ॥
सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ।
मुदं स परमां लेभे पुत्रस्पर्शनजां नृपः ॥
स्वां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः ।
अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ॥
लोकस्यायं परोक्षस्तु संबन्धो नौ पुराऽभवत् ।
कृतो लोकसमक्षोऽद्य संबन्धो वै पुनः कृतः ॥
तस्मादेतन्मया तस्य तन्निमित्तं प्रभाषितम् ॥
शङ्केत वाऽयं लोकोऽथ स्त्रीभावान्मयि संगतम् ।
तस्मादेतन्मया चापि तच्छुद्ध्यर्थं विचारितम् ॥
`ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव पृथग्विधाः ।
त्वां देवि वूजयिष्यन्ति निर्विशङ्कां पतिव्रताम्' ॥
पुत्रश्चायं वृतो राज्ये त्वमग्रमहिषी भव ॥
यच्च कोपनयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये ।
प्रणयिन्या विशालाक्षितत्क्षान्तं ते मया शुभे ॥
`अनृतं वाप्यनिष्टं वा दुरुक्तं वातिदुष्कृतम् । त्वयाप्येवं विशालाक्षि क्षन्तव्यं मम दुर्वचः ।
क्षान्त्या पतिकृते नार्यः पातिव्रत्यं व्रजन्ति ताः ॥
एवमुक्त्वा तु राजर्षिस्तामनिन्दितगामिनीम् ।
अन्तःपुरं प्रवेश्याथ दुष्यन्तो महिषीं प्रियाम् ॥
वासोभिरन्नपानैश्च पूजयित्वा तु भारत ।
`स मातरमुपस्थाय रथन्तर्यामभाषत ॥
मम पुत्रो वने जातस्तव शोकप्रणशनः ।
ऋणादद्य विमुक्तोऽहं तव पौत्रेण शोभने ॥
विश्वामित्रसुता चेयं कण्वेन च विवर्धिता ।
स्नुषा तव महाभागे प्रसीदस्व शकुन्तलाम् ॥
पुत्रस्य वचनं श्रुत्वा पौत्रं सा परिषस्वजे ।
पादयोः पतितां तत्र रथन्तर्या शकुन्तलाम् ॥
परिष्वज्य च बाहुभ्यां हर्षादश्रुण्यवर्तयत् ।
उवाच वचनं सत्यं लक्षये लक्षणानि च ॥
तव पुत्रो विशालाक्षि चक्रवर्ती भविष्यति ।
तव भर्ता विशालाक्षि त्रैलोक्यविजयी भवेत् ॥
दिव्यान्भोगाननुप्राप्ता भव त्वं वरवर्णिनि ।
एवमुक्ता रथ्तर्या परं हर्षमवाप सा ॥
शकुन्तलां तदा राजा शास्त्रोक्तेनैव कर्मणा ।
ततोऽग्रमहिषीं कृत्वा सर्वाभरणभूषिताम् ॥
ब्राह्मणेभ्यो धनं दत्त्वा सैनिकानां च भूपतिः ।
दौष्यन्तिं च ततो राजा पुत्रं शाकुन्तलं तदा' ॥
भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ।
`भरते भारमावेश्य कृतकृत्योऽभवन्नृपः ॥
ततो वर्षशतं पूर्णं राज्यं कृत्वा नराधिपः । गत्वा वनानि दुष्यन्तः स्वर्गलोकमुपेयिवान् ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि शततमोऽध्यायः ॥ 100 ॥