अध्यायः 118

कंचित्कालं भीष्मेण राज्यपरिपालनानन्तरं पाण्डो राज्येऽभिषेकः ॥ 1 ॥

वैशंपायन उवाच ।
`धृतराष्ट्रे च पाण्डौ च विदुरे च महात्मनि ।' एषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् ।
कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥
ऊर्ध्वसस्याऽभवद्भूमिः सस्यानि फलवन्ति च ।
यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः ।
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥
वणिग्भिश्चान्वकीर्यन्त नगराण्यथ शिल्पिभिः ।
शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः ।
प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥
धर्मक्रिया यज्ञशीलाः सत्यव्रतपरायणाः ।
अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥
मानक्रोधविहीनाश्च नरा लोभविवर्जिताः ।
अन्योन्यमभ्यनन्दन्त धर्मोत्तरमवर्तत ॥
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत ।
द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥
प्रसादशतसंबाधं महेन्द्रपुरसन्निभम् । नदीषु वनखण्डेषु वापीपल्वलसानुषु ।
काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तथा ।
विस्पर्धमाना व्यचरंस्तथा देवर्षिचारणैः ॥
नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ।
तस्मिञ्जनपदे रम्ये कुरुभिर्बहुलीकृते ॥
कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ।
बभूवुः सर्वर्द्धियुतास्तस्मिन्राष्ट्रे सदोत्सवाः ॥
भीष्मेण धर्मतो राजन्सर्वतः परिरक्षिते ।
बभूव रमणीयश्च चैत्ययूपशताङ्कितः ॥
स देशः परराष्ट्राणि विमृज्याभिप्रवर्धितः ।
भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् ।
पौरजानपदाः सर्वे बभूवुः परमोत्सुकाः ॥
गृहेषु कुरुमुख्यानां पौराणां च नराधिप ।
दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः ।
जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः ।
श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥
धनुर्वेदे च वेदे च गदायुद्धेऽसिचर्मणि ।
तथैव गजशिक्षायां नीतिशास्त्रेषु पारगाः ॥
इतिहासपुराणेषु नानाशिक्षासु बोधिताः ।
वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्चयाः ॥
`वैदिकाध्ययने युक्तो नीतिशास्त्रेषु पारगः ।
भीष्मेण राजा कौरव्यो धृतराष्ट्रोऽभिषेचितः ॥
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि ।
तथैव गजशिक्षायामस्त्रेषु विविधेषु च ॥
अर्थधर्मप्रधानासु विद्यासु विविधासु च । गतः पारं यदा पाण्डुस्तदा सेनापतिः कृतः ॥'
पाण्डुर्धनुषि विक्रान्तो नरेष्वभ्यदिकोऽभवत् ।
अन्येभ्यो बलवानासीद्धृतराष्ट्रो महीपतिः ॥
अमात्यो मनुजेन्द्रस्य बाल एव यशस्विनः ।
भीष्मेण सर्वधर्माणां प्रणेता विदुरः कृतः ॥
`सर्वशास्त्रार्थतत्त्वज्ञो बुद्धिमेधापटुर्युवा । भावेनागमयुक्तेन सर्वं वेदयते जगत् ॥'
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः ।
धर्मनित्यस्तथा राजन्धर्मं च परमं गतः ॥
प्रनष्टं शान्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् ।
ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् ।
सर्वध्रमविदां भीष्मः पुराणां गजसाह्वयम् ॥
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्रज्यं न प्रत्यपद्यत ।
पारसवत्वाद्विदुरो राजा पाण्डुर्बभूव ह ॥
`अथ शुश्राव विप्रेभ्यः कुन्तिभोजमहीपतेः ।
रूपयौवनसंपन्नां सुतां सागरगासुतः ॥
सुबलस्य च कल्याणीं गान्धाराधिपतेः सुताम् । सुतां च मद्रराजस्य रूपेणाप्रतिमां भुवि ॥'
कदाचिदथ गाङ्गेयः सर्वनीतिमतां वरः ।
विदुरं धर्मतत्त्वज्ञं वाक्यमाह यथोचितम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥

1-118-2 ऊर्ध्वसस्या प्रचुरसस्या ॥ 1-118-18 श्रमः शास्त्राभ्यासः । व्यायामो बाहुयुद्धाद्यभ्यासः ॥ 1-118-28 निर्वचनं प्रशंसा ॥ 1-118-30 पारसवत्वाच्छूद्रायां ब्राह्मणाज्जातत्वात् ॥ अष्टादशाधिकशततमोऽध्यायः ॥ 118 ॥