अध्यायः 120

पृथाया बाल्यचरित्रकथनम् ॥ 1 ॥ तस्या दुर्वाससो मन्त्रप्राप्तिः ॥ 2 ॥ मन्त्रप्रभावजिज्ञासयाऽऽहूतात्सूर्यात्कुन्त्यां कर्णस्योत्पत्तिः ॥ 3 ॥ लोकभयात्कुन्त्या यमुनायां विसृष्टस्य राधाभर्त्रा स्वीकारो वसुषेणेति नामकरमं च ॥ 4 ॥ संग्रहेण कर्णचरित्रकथनम् ॥ 5 ॥

वैशंपायन उवाच ।
शूरो नाम यदुश्रेष्ठो वसुदेवपिताऽभवत् ।
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि ॥
पितृष्वस्रीयाय स तामनपत्याय भारत ।
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यं स सत्यवाक् ॥
अग्रजामथ तां कन्यां शूरोऽनुग्रहकाङ्क्षिणे ।
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ॥
नियुक्ता सा पितुर्गेहे ब्राह्मणातिथिपूजने ।
उग्रं पर्यचरत्तत्र ब्राह्मणं संशितब्रतम् ॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ॥
`दध्याज्यकादिभिर्नित्यं व्यञ्जनैः प्रत्यहं शुभा ।
सहस्रसङ्ख्यैर्योगीन्द्रमुपचारदनुत्तमा ॥
दुर्वासा वत्सरस्यान्ते ददौ मन्त्रमनुत्तमम्' । यशस्विन्यै पृथायै तदापद्धर्मान्ववेक्षया ।
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
तस्य तस्य प्रभावेण तव पुत्रो भविष्यति ॥
तथोक्ता सा तु विप्रेण कुन्ती कौतूहलान्विता ।
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥
ततो घनान्तरं कृत्वा स्वमार्गं तपनस्तदा ।
उपतस्थे स तां कन्यां पृथां पृथुललोचनाम् ॥
सा ददर्श तमायान्तं भास्करं लोकभावनम् ।
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ॥
`साब्रवीद्भगवन्कस्त्वमाविर्भूतो ममाग्रतः ।
आदित्य उवाच ।
आहूतोपस्थितं भद्रे ऋषिमन्त्रेण चोदितम् ।
विद्धि मां पुत्रलाभाय देवमर्कं शुचिस्मिते ॥
पुत्रस्ते निर्मितः सुभ्रु शृणु महादृक्छुभानने ।
आदित्ये कुण्डले बिभ्रत्कवचं चैव मामकम् ॥
शस्त्रास्त्राणामभेद्यश्च भविष्यति शुचिस्मिते ।
नास्य किंचिददेयं च ब्राह्मणेभ्यो भविष्यति ॥
चोद्यमानो मया चापि न क्षमं चिन्तयिष्यति ।
दास्यत्येव हि विप्रेभ्यो मानी चैव भविष्यति ॥
वैशंपायन उवाच ।
एवमुक्ता ततः कुन्ती गोपतिं प्रत्युवाच ह । कन्या पितृसा चाहं पुरुषार्थो न चैव मे ॥'
कश्चिन्मे ब्राह्मणः प्रादाद्वरं विद्यां च शत्रुहन् ।
तद्विजिज्ञासयाऽऽह्वानं कृतवत्यस्मि ते विभो ॥
एतस्मिन्नपराधे त्वां शिरसाऽहं प्रसादये ।
योषितो हि सदा रक्ष्यास्त्वपराधेऽपि नित्यशः ॥
सूर्य उवाच ।
वेदाहं सर्वमेवैतद्यद्दुर्वासा वरं ददौ ।
संत्यज्य भयमेवेह क्रियतां सङ्गमो मम ॥
अमोघं दर्शनं मह्यमाहूतश्चास्मि ते शुभे ।
वृथाऽऽह्वानेऽपि ते भीरु दोषः स्यान्नात्र संशयः ॥
`यद्येवं मन्यसे भीरु किमाह्वयसि भास्करम् ।
यदि मामवजानासि ऋषिः स न भविष्यति ॥
मन्त्रदानेन यस्मात्त्वमवलेपेन दर्पिता ।
कुलं च तेऽद्य धक्ष्यामि क्रोधदीप्तेन चक्षुषा' ॥
वैशंपायन उवाच ।
एवमुक्ता बहुविधं सान्त्वपूर्वं विवस्वता ।
सा तु नैच्छद्वरारोहा कन्याहमिति भारत ॥
बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी ।
तामर्कः पुनरेवेदब्रवीद्भरतर्षभ ॥
मत्प्रसादान्न ते राज्ञि भविता दोष इत्युत ॥
`कुन्त्युवाच ।
प्रसीद भगवन्मह्यमवलेपो हि नास्ति मे ।
त्वयैव परिहार्यं स्यात्कन्याभावस्य दूषणम् ॥
आदित्य उवाच ।
व्यपयातु भयं तेऽद्य कुमारं प्रसमीक्षसे ।
मया त्वं चाप्यनुज्ञाता पुनः कन्या भविष्यसि ॥
वैशंपायन उवाच ।
एवमुक्ता ततः कुन्ती संप्रहृष्टतनूरुहा ।
सङ्गताऽभूत्तदा सुभ्रूरादित्येन महात्मना ॥
प्रकाशकर्मा तपनः कन्यागर्भं ददौ पुनः ।' तत्र वीरः समभवत्सर्वशस्त्रभृतां वरः ॥
आमुक्तकवचः श्रीमान्देवगर्भः श्रियान्वितः ।
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ।
प्रादाच्च तस्यै कन्यात्वं पुनः स परमद्युतिः ॥
दत्त्वा च तपतां श्रेष्ठो दिवमाचक्रमे ततः ।
दृष्ट्वा कुमारं जातं सा वार्ष्णेयी दीनमानसा ॥
एकाग्रं चिन्तयामास किं कृत्वा सुकृतं भवेत् ।
गूहमानापचारं सा बन्धुपक्षभयात्तदा ॥
मञ्जूषां रत्नसंपूर्णां कृत्वा बालसमाश्रिताम् ।
उत्ससर्ज कुमारं तं जले कुन्ती महाबलम् ॥
तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः ।
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ॥
नामधेयं च चक्राते तस्य बालस्य तावुभौ ।
वसुना सह जातोऽयं वसुषेणो भवत्विति ॥
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् ।
आपृष्ठतापादादित्यमुपातिष्ठत वीर्यवान् ॥
तस्मिन्काले तु जपतस्तस्य वीरस्य धीमतः ।
नादेयं ब्राह्मणेष्वासीत्किंचिद्वसु महीतले ॥
`ततः काले तु कस्मिंश्चित्स्वप्नान्ते कर्णमब्रवीत् ।
आदित्यो ब्राह्मणो भूत्वा शृणु वीर वचो मम ॥
प्रभातायां रजन्यां त्वामागमिष्यति वासवः ।
न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति ॥
निश्चयोऽस्यापहर्तुं ते कवचं कुण्डले तथा ।
अतस्त्वां बोधयाम्येष स्मर्तासि वचनं मम ॥
कर्ण उवाच ।
शक्रो मां विप्ररूपेण यदि वै याचते द्विज ।
कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः ॥
विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम् ।
तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे ॥
सूर्य उवाच ।
यद्येवं शृणु मे वीर वरं ते सोऽपि दास्यति ।
शक्तिं त्वमपि याचेथाः सर्वशत्रुविबाधिनीम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा द्विजः स्वप्ने तत्रैवान्तरधीयत ।
कर्णः प्रबुद्धस्तं स्वप्नं चिन्तयानोऽभवत्तदा ॥
तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः ।
कुण्डले प्रार्थयामास कवचं च महाद्युतिः ॥
उत्कृत्याविमनाः स्वाङ्गात्कवचं रुधिरस्रवम् ।
कर्णौ पार्श्वे च द्वे छित्त्वा प्रायच्छत्स कृताञ्जलिः ॥
प्रतिगृह्य तु देवेशस्तुष्टस्तेनास्य कर्मणा ।
अहो साहसमित्याह मनसा वासवो हसन् ॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
न तं पश्यामि यो ह्येतत्कर्म कर्ता भविष्यति ॥
प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि ।
कर्ण उवाच ।
इच्छामि भगवद्दत्तां शक्तिं शत्रुनिबर्हणीम् ॥
वैशंपायन उवाच ।
शक्तिं तस्मै ददौ शक्रो विस्मयाद्वाक्यमब्रवीत् ।
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति । हत्वैकं समरे शत्रुं ततो मामागमिष्यति ।
इत्युक्त्वान्तर्दधे शक्रो वरं दत्त्वा तु तस्य वै ॥
प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ ।
कर्णो वैकर्तनश्चैव कर्मणा तेन सोऽभवत् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥

1-120-2 अग्र्यं प्रथमम् । अग्रे जन्मतः पूर्वं प्रतिज्ञाय मया प्रथममपत्यं तुभ्यं देयमिति प्रतिश्रुत्य ॥ 1-120-7 अभिचारो वश्याकर्षणादिदृष्टफलं तद्युक्तम् ॥ 1-120-36 वसुना कवचकुण्डलादिद्रव्येण बद्ध इति वसुषेणः ॥ 1-120-37 आपृष्ठतापात् मध्याह्नात्परत इत्यर्थः ॥ 1-120-53 सहजकवचकर्तनात् कर्णः विशेषतः कर्तनेन वैकर्तनः । स्वार्थे तद्धितः ॥ विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥