अध्यायः 124

किन्दमशापात्खिन्नस्य पाण्डोः पत्नीभ्यां वने वासः ॥ 1 ॥ पाण्डोः शतशृङ्गे तपश्चरणम् ॥ 2 ॥

वैशंपायन उवाच ।
तं व्यतीतमुपक्रम्य राजा स्वमिव बान्धवम् ।
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥
पाण्डुरुवाच ।
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥
शश्वद्धर्मात्मना जातो बाल एव पिता मम ।
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः ।
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा ।
त्यक्तस्य देवैरनयान्मृगयां परिधावतः ॥
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् ।
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥
अतीव तपसात्मानं योजयिष्याम्यसंशयम् ।
तस्मादेकाहमेकाहमेकैकस्मिन्वनस्पतौ ॥
चरन्भैक्षं मुनिर्मुण्डश्चरिष्याम्याश्रमानिमान् ।
पांसुना समवच्छन्नः शून्यागारकृतालयः ॥
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ।
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः ॥
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ।
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित् ॥
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ।
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् ॥
स्वासु प्रजास्विव सदा समः प्राणभृतः प्रति ।
एककालं चरन्भैक्षं कुलानि दश पञ्च च ॥
असंभवे वा भैक्षस्य चरन्ननशनान्यपि ।
अल्पमल्पं च भुञ्जानः पूर्वालाभे न जातुचित् ॥
अन्यान्यपि चरँल्लोभादलाभे सप्त पूरयन् ।
अलाभे यदि वा लाभे समदर्शी महातपाः ॥
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः ।
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः ॥
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन् ।
जीवितं मरणं चैव नाभिन्दन्न च द्विषन् ॥
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।
ताः सर्वाः समतिक्रम्य निमेषादिव्यवस्थितः ॥
तासु चाप्यनवस्थासु त्यक्तसर्वेन्द्रियक्रियः ।
संपरित्यक्तधर्मार्थः सुनिर्णिक्तात्मकल्मषः ॥
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः ।
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥
एतया सततं वृत्त्या चरन्नेवंप्रकारया ।
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः ॥
नाहं सुकृपणे मार्गे स्ववीर्यक्षयशोचिते ।
स्वधर्मात्सततापेते चरेयं वीर्यवर्जितः ॥
सत्कृतोऽसत्कृतो वाऽपि योऽन्यां कृपणचक्षुषा ।
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥
वैशंपायन उवाच ।
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः ।
अवेक्षमाणः कुन्तीं च मान्द्रीं च समभाषत ॥
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः ।
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ।
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्राजितो वने ॥
निशम्य वचनं भर्तुस्त्यागधर्मकृतात्मनः ।
तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । `आवाभ्यां सह वस्तुं वै धर्ममाश्रित्य चिन्त्यताम् ।'
आवाभ्यां धर्मपत्नीभ्यां सह तप्तुं तपो महत् ॥
शरीरस्यापि मोक्षाय धर्मं प्राप्य महाफलम् ।
त्वमेव भविता भर्ता स्वर्गस्यापि न संशयः ॥
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे ।
त्यक्त्वा कामसुखे ह्यावां तप्स्यवो विपुलं तपः ॥
यदि चावां महाप्राज्ञ त्यक्ष्यसि त्वं विशांपते ।
अद्यैवावां प्रहास्यावो जीवितं नात्र संशयः ॥
पाण्डुरुवाच ।
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् ।
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥
त्यक्त्वा ग्राम्यसुखाहारं तप्यमानो महत्तपः ।
वल्कली फलमूलाशी चरिष्यामि महावने ॥
अग्नौ जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् ।
कृशः परिमिताहारश्चीरचर्मजटाधरः ॥
शीतवातातपसहः क्षुत्पिपासानवेक्षकः ।
तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् ।
पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥
वानप्रस्थजनस्यापि दर्शनं कुलवासिनः ।
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् ॥
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् ।
काङ्क्षमाणोऽहमास्थास्ये देहस्यास्याऽऽसमापनात् ॥
वैशंपायन उवाच ।
इत्येवमुक्त्वा भार्ये ते राजा कौरवनन्दनः ।
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥
वासांसि च महार्हाणि स्त्रीणामाभरणानि च ।
`वाहनानि च मुख्यानि शस्त्राणि कवचानि च ॥
हेमभाण्डानि दिव्यानि पर्यङ्कास्तरणानि च । मणिमुक्ताप्रवालानि रत्नानि विविधानि च ॥'
प्रदाय सर्वं विप्रेभ्यः पाण्डुर्भृत्यानभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्राजितो वने ।
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् ॥
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुनन्दनः ।
ततस्तस्यानुयातारस्ते चैव परिचारकाः ॥
श्रुत्वा भरतसिंहस्य विधिधाः करुणा गिरः ।
भममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् ।
ययुर्नागपुरं तूर्णं सर्वमादाय तद्धनम् ॥
ते गत्वा नगरं राज्ञो यथावृत्तं महात्मनः ।
कथयांचक्रिरे राज्ञस्तद्धनं विविधं ददुः ॥
श्रुत्वा तेभ्यस्ततः सर्वं यथावृत्तं महावने ।
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥
न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ।
भ्रातृशोकसमाविष्टस्तमेवार्थं विचिन्तयन् ॥
राजपुत्रस्तु कौरव्य पाण्डुर्मूलफलाशनः ।
जगाम सह पत्नीभ्यां ततो नागशतं गिरिम् ॥
स चैत्ररथमासाद्य कालकूटमतीत्य च ।
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः ।
उवास स महाराज समेषु विषमेषु च ॥
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च ।
शतशृङ्गे महाराज तापसः समतप्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥

1-124-1 व्यतीतं मारितम् ॥ 1-124-5 देवैस्त्यक्तस्य अपुत्रतया स्वर्गमनानर्हत्वात् ॥ 1-124-6 मोक्षं मोक्षमार्गं व्यवस्यामि निश्चिनोमि श्रेयस्करत्वेन । तत्र हि पुत्राद्यनपेक्षा दृष्टा । इष्टमेवैतज्जातमित्याह बन्धो हीति । बन्धः पुत्रैषणादिः । सुवृत्तिं ब्रह्मचर्याख्यां वृत्तिम् । पितुर्व्यासस्य ॥ 1-124-10 निराशीर्निर्नमस्कारः । आशिषं नमस्कारं वा नेच्छामीत्यर्थः । निर्द्वन्द्वः सुखदुःखादिहीनः । निष्परिग्रहः कन्थापादुकादिहीनः ॥ 1-124-11 चतुर्विधं जरायुजादिकम् ॥ 1-124-12 कुलानि गृहाणि ॥ 1-124-15 वास्या वास्येन काष्ठतक्षणेन ॥ 1-124-17 अभ्युदयक्रियाः इष्टसाधनक्रियाः । निमेषादिव्यवस्थितः जीवनसाधनकर्मसु व्यवस्थितः ॥ 1-124-18 अनवस्थासु प्रवाहरूपासु तासु जीवनसाधनक्रियासु ॥ 1-124-20 संस्थापयिष्यामि नाशयिष्यामि । निर्भयं मार्गं संसारभयरहितम् ॥ 1-124-25 प्रव्राजितः संन्यासं प्राप्तः ॥ 1-124-26 त्यागधर्मः संन्यासः ॥ 1-124-35 विमृशन् हिंसादिदोषम् ॥ 1-124-38 निष्कं ग्रैवेयकम् ॥ चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥