अध्यायः 128

उद्दालककथा ॥ 1 ॥ उद्दालकपुत्रेण श्वेतकेतुना कृता स्त्रीपुरुषमर्यादा ॥ 2 ॥ गुणाधिकात् द्विजातेः पुत्रोत्पादनार्थं प्रति पाण्डोराज्ञा ॥ 3 ॥ कुन्त्या दुर्वाससः स्वस्य मन्त्रप्राप्तिकथनम् ॥ 4 ॥

वैशंपायन उवाच ।
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् ।
धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥
पाण्डुरुवाच ।
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह ।
यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे ।
पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥
अनावृताः किल पुरा स्त्रिय आसन्वरानने ।
कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनि ॥
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् ।
नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराऽभवत् ॥
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः ।
अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः । उत्तरेषु च रम्भोरु कुरुष्वद्यापि पूज्यते ।
स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥
`नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥
एवं तृष्णा तु नारीणां पुरुषं पुरुषं प्रति ।
अगम्यागमनं स्त्रीणां नास्ति नित्यं शुचिस्मिते ॥
पुत्रं वा किल पौत्रं वा कासांचिद्धातरं तथा ।
रहसीह नरं दृष्ट्वा योनिरुत्क्लिद्यते तदा ॥
एतत्स्वाभाविकं स्त्रीणां न निमित्तकृतं शुभे ।' अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते ॥
स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ।
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ॥
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ।
मर्यादेयं कृता तेन धर्म्या वै श्वेतकेतुना ॥
कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥
`श्वेतकेतोः पिता देवि तप उग्रं समास्थितः ।
ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वाकाशगोऽभवत् ॥
शिशइरे सलिलस्थायी सह पत्न्या महातपाः ।
उद्दालकं तपस्यन्तं नियमेन समाहितम् ॥
तस्य पुत्रः श्वेतकेतुः परिचर्यां चकार ह ।
अभ्यागच्छद्द्विजः कश्चिद्वलीपलितसंततः ॥
तं दृष्ट्वैव मुनिः प्रीतः पूजयामास शास्त्रतः ।
स्वागतेन च पाद्येन मृदुवाक्यैश्च भारत ॥
शाकमूलफलाद्यैश्च वन्यैरन्यैरपूजयत् ।
क्षुत्पिपासाश्रमेंणार्तः पूजितश्च महर्षिणा ॥
विश्रान्तो मुनिमासाद्य पर्यपृच्छद्द्विजस्तदा ।
उद्दालक महर्षे त्वं सत्यं मे ब्रूहि माऽनृतम् ॥
ऋषिपुत्रः कुमारोऽयं दर्शनीयो विशेषतः ।
तव पुत्रमिमं मन्ये कृतकृत्योऽसि तद्वद ॥
उद्दालक उवाच ।
मम पत्नी महाप्राज्ञ कुशिकस्य सुता मता ।
मामेवानुगता पत्नी मम नित्यमनुव्रता ॥
अरुन्धतीव पत्नीनां तपसा कर्शितस्तनी ।
अस्यां जातः श्वेतकेतुर्मम पुत्रो महातपाः ॥
वेदवेदाङ्गविद्विप्र मच्छासनपरायणः ।
लोकज्ञः सर्वलोकेषु विश्रुतः सत्यवाग्घृणी ॥
ब्राह्मण उवाच ।
अपुत्री भार्यया चार्थी वृद्धोऽहं मन्दचाक्षुषः ।
पित्र्यादृणादनिर्मुक्तः पूर्वमेवाकृतस्त्रियः ॥
प्रजारणिस्तु पत्नी ते कुलशीलसमन्विता ।
सदृशी मम गोत्रेण वहाम्येनां क्षमस्व मे ॥
पाण्डुरुवाच ।
इत्युक्त्वा मृगशावाक्षीं चीरकृष्णाजिनाम्बराम् ।
यष्ट्याधारः स्रस्तगात्रो मन्दचक्षुरबुद्धिमान् ॥
स्वव्यापाराक्षमां श्रेष्ठमचित्तामात्मनि द्विजः ।' श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ॥
जग्राह ब्राह्मणः पापौ गच्छाव इति चाब्रवीत् ।
ऋषिपुत्रस्तदा कोपं चकारामर्षितस्तदा ॥
मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ।
`तपसा दीप्तवीर्यो हि श्वेतकेतुर्न चक्षमे ॥
संगृह्य मातरं हस्ते श्वेतकेतुरभाषत ।
दुर्ब्राह्मण विमुञ्च त्वं मातरं मे पतिव्रताम् ॥
स्वयं पिता मे ब्रह्मर्षिः क्षमावान्ब्रह्मवित्तमः ।
शापानुग्रहयोः शक्तः तूष्णींभूतो महाव्रतः ॥
तस्य पत्नी दमोपेता मम माता विशेषतः ।
पतिव्रतां तपोवृद्धां साध्वाचारैरलङ्कृताम् ॥
अप्रमादेन ते ब्रह्मन्मातृभूतां विमुञ्च वै ॥
एवमुक्त्वा तु याचन्तं विमुञ्चेति मुहुर्मुहुः ।
प्रत्यवोचद्द्विजो राजन्नप्रगल्भमिदं वचः ॥
ब्राह्मण उवाच ।
अपत्यार्थी श्वेतकेतो वृद्धोऽहं मन्दचाक्षुषः ।
पिता ते ऋणनिर्मुक्तस्त्वया पुत्रेण काश्यप ॥
ऋणादहमनिर्मुक्तो वृद्धोऽहं विगतस्पृहः ।
मम को दास्यति सुतां कन्यां संप्राप्तयौवनाम् ॥
प्रजारणिमिमां पत्नीं विमुञ्च त्वं महातपः ।
एकया प्रजया प्रीतो मातरं ते ददाम्यहम् ॥
एवमुक्तः श्वेतकेतुर्लज्जया क्रोधमेयिवान् ।' क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह ॥
मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ।
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि ॥
यथा गावः स्थिताः पुत्र स्वेस्वे वर्णे तथा प्रजाः ।
`तथैव च कुटुम्बेषु न प्रमाद्यन्ति कर्हिचित् ॥
ऋतुकाले तु संप्राप्ते भर्तारं न जहुस्तदा ।' ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे ॥
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ।
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु ॥
तदाप्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ।
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ॥
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ।
`अद्याप्यनुविधीयन्ते कामक्रोधविवर्जिताः ॥
उत्तरेषु महाभागे कुरुष्वेवं यशस्विनि । पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥'
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ।
पतिव्रतामेतदेव भविता पातकं भुवि ॥
नियुक्ता पतिना भार्या यद्यपत्यस्य कारणात् । न कुर्यात्तत्तथा भीरु सैनः सुमहदाप्नुयात् ।
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् ॥
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ।
सौदासेन च रम्भोरु नियुक्ता पुत्रजन्मनि ॥
मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ।
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी ॥
एवं कृतवती सापि भर्तुः प्रियचिकीर्षया ।
अस्माकमपि ते जन्म विदितं कमलेक्षणे ॥
कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ।
अत एतानि सर्वाणि कारणानि समीक्ष्य वै ॥
ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ।
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता पतिव्रते ॥
नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ।
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति ॥
धर्ममेवं जनाः सन्तः पुराणं परिचक्षते ।
भर्ता भार्यां राजपुत्रि धर्म्यं वाऽधर्म्यमेव वा ॥
यद्ब्रूयात्तत्तथा कार्यमिति वेदविदो विदुः ।
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् ॥
यथाऽहमनवद्याङ्गि पुत्रदर्शनलालसः ।
अयं रक्ताङ्गुलिनखः पद्मपत्रनिभः शुभे ॥
प्रसादनार्थं सुश्रोणि शिरस्यभ्युद्यतोऽञ्जलिः ।
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाऽधिकात् ॥
पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ।
त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥
वैशंपायन उवाच ।
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् ।
प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥
`अधर्मः सुमहानेषु स्त्रीणां भरतसत्तम । यत्प्रसादयते भर्ता प्रसाद्यः क्षत्रियर्षभ ।
शृणु चेदं महाबाहो मम प्रीतिकरं चः ॥'
पितृवेश्मन्यहं बाला नियुक्ताऽतिथिपूजने ।
उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः ।
तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् ।
मन्त्रं त्विमं च मे प्रादादब्रवीच्चैव मामिदम् ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।
अकामो वा सकामो वा वशं ते समुपैष्यति ॥
तस्य तस्य प्रसादात्ते राज्ञि पुत्रो भविष्यति ।
इत्युक्ताऽहं तदा तेन पितृवेश्मनि भारत ॥
ब्राह्मणस्य वचस्तथ्यं तस्य कालोऽयमागतः ।
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप ॥
`यां मे विद्यां महाराज अददात्स महायशाः । तयाऽऽहूतः सुरः पुत्रं प्रदास्यति सुरोपमम् ।
अनपत्यकृतं यस्ते शोकं वीर विनेष्यति ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥

1-128-4 अनावृताः सर्वैर्द्रष्टुं योग्याः । कामचारो रतिसुखं तदर्थं विहारिण्यः पर्यटनशीलाः । स्वतन्त्रा भर्त्रादिभिरनिवार्याः ॥ 1-128-5 पतीन्व्युच्चरमाणानां व्यभिचरन्तीनाम् ॥ 1-128-6 अनुविधीयन्ते अनुसार्यन्ते ईश्वरेण ॥ 1-128-11 नचिरादल्पकालतः ॥ 1-128-55 पुराणं युगान्तरीयम् ॥ 1-128-59 त्वत्कृते त्वया ॥ 1-128-64 अभिचारो देवताकर्षणशक्तिः ॥ अष्टविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥