अध्यायः 135
पाण्डवैः सह ऋषीणां हस्तिनापुरगमनम् ॥ 1 ॥
पाण्डुवृत्तान्तकथनपूर्वकं पाण्डवान्भीष्माय समर्प्य ऋषीणां प्रतिनिवर्तनम् ॥ 2 ॥
पाण्डोरुपरमं दृष्ट्वा देवकल्पा महर्षयः ।
ततो मन्त्रविदः सर्वे मन्त्रयांचक्रिरे मिथः ॥
तापसा ऊचुः ।
हित्वा राज्यं च राष्ट्रं च स महात्मा महायशाः ।
अस्मिंस्थाने तपस्तप्त्वा तापसाञ्शरणं गतः ॥
स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह ।
प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ॥
तस्येमानात्मजान्देहं भार्यां च सुमहात्मनः ।
स्वराष्ट्रं गृह्य गच्छामो धर्म एष हि नः स्मृतः ॥
वैशंपायन उवाच ।
ते परस्परमामन्त्र्य देवकल्पा महर्षयः ।
पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ॥
उदारमनसः सिद्धा गमने चक्रिरे मनः ।
भीष्माय पण्डवान्दातुं धृतराष्ट्राय चैव हि ॥
तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे ।
पाण्डोर्दारांश्च पुत्रांश्च शरीरे ते च तापसाः ॥
सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला ।
प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत ॥
सा त्वदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम् ।
वर्धमानपुरद्वारमाससाद यशस्विनी ॥
द्वारिणं तापसा ऊचू राजानं च प्रकाशय ।
ते तु गत्वा क्षणेनैव सभायां विनिवेदिताः ॥
तं चारणसहस्राणां मुनीनामागमं तदा ।
श्रुत्वा नागपुरे नॄणां विस्मयः समपद्यत ॥
मुहूर्तोदित आदित्ये सर्वे बालपुरस्कृताः ।
सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ॥
स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घसमास्थिताः ।
ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ॥
तथा विट्शूद्रसङ्घानां महान्यतिकरोऽभवत् ।
न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ॥
तथा भीष्मः शान्तनवः सोमदत्तो ।ञथ बाह्लिकः ।
प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ॥
सा च सत्यवती देवी कौसल्या च यशस्विनी ।
राजदारैः परिवृता गान्धारी चापि निर्ययौ ॥
धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः ।
भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ॥
तान्महर्षिगणान्दृष्ट्वा शिरोभिरभिवाद्य च ।
उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ॥
तथैव शिरसा भूमावभिवाद्य प्रणम्य च ।
उपोपविविशुः सर्वे पौरजानपदा अपि ॥
तमकूजमभिज्ञाय जनौघं सर्वशस्तदा ।
पूजयित्वा यथान्यायं पाद्येनार्घ्येण च प्रभो ॥
भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ।
तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी ।
ऋषीणां मतमाज्ञाय महर्षिरिदमब्रवीत् ॥
यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः ।
कामभोगान्परित्यज्य शतशृङ्गमितो गतः ॥
`राजा भोगान्परित्यज्य तपस्वी संबभूव ह ।
स यथोक्तं तपस्तेपे पत्रमूलफलाशनः ॥
पत्नीभ्यां सह धर्मात्मा संचित्कालमतन्द्रितः ।
तेन वृत्तसमाचारैस्तपसा च तपस्विनः ॥
तोषितास्तापसास्तत्र शतशृङ्गनिवासिनः ।
स्वर्गलोकं गन्तुकामं तापसाः संनिवार्य तम् ॥
उद्यन्तं सह पत्नीभ्यां विप्रा वचनमब्रुवन् ।
अनपत्यस्य राजेन्द्र पुण्या लोका न सन्ति ते ॥
तस्माद्धर्मं च वायुं च महेन्द्रं च तथाऽश्विनौ ।
आराधयस्व राजेन्द्र पत्नीभ्यां सह देवताः ॥
प्रीताः पुत्रान्प्रदास्यन्ति ऋणमुक्तो भविष्यसि ।
तपसा दिव्यचक्षुष्ट्वात्पश्यामस्ते तथा सुतान् ॥
अस्माकं वचनं श्रुत्वा देवानाराधयत्तदा ।'
ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना ॥
साक्षाद्धर्मादयं पुत्रस्तत्र जातो युधिष्ठिरः ।
तथैनं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः ॥
मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ।
पुरन्दरादयं जज्ञे कुन्त्यां सत्यपराक्रमः ॥
`अस्मिञ्जाते महेष्वासे पृथामिन्द्रस्तदाऽब्रवीत् ।
मत्प्रसादादयं जातः कुन्ति सत्यपराक्रमः ॥
अजेयानपि जेताऽरीन्देवतादीन्न संशयः ।'
यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति ॥
`युधिष्ठिरो राजसूयं भ्रातृवीर्यादवाप्स्यति ।
एष जेता मनुष्यांश्च सर्वान्गन्धर्वराक्षसान् ॥
एष दुर्योधनादीनां कौरवाणां च जेष्यति ।
वीरस्यैतस्य विक्रान्तैर्धर्मपुत्रो युधिष्ठिरः ॥
यक्ष्यते राजसूयाद्यैर्धर्म एव परः सदा ।'
यौ तु माद्री महेष्वासावसूत पुरुषोत्तमौ ॥
अश्विभ्यां पुरुषव्याघ्राविमौ तावपि तिष्ठतः ।
`नकुलः सहदेवश्च तावप्यमिततेजसौ ॥'
चरता धर्मनित्येन वनवासं यशस्विना ।
एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ॥
पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च ।
पश्यन्तः सततं पाण्डोः परां प्रीतिमवाप्स्यथ ॥
वर्तमानः सतां वृत्ते पुत्रलाभमवाप च ।
पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ॥
तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् ।
प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ॥
सा गता सह तेनैव पतिलोकमनुव्रता ।
तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ॥'
पृथां च शरणं प्राप्तां पाण्डवांश्च यशस्विनः ।
यथावदनुमन्यन्तां धर्मो ह्येष सनातनः ॥
इमे तयोः शरीरे द्वे पुत्राश्चेमे तयोर्वराः ।
क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः ॥
प्रेतकार्ये निवृत्ते तु पितृमेधं महायशाः ।
लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ॥
वैशंपायन उवाच ।
एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् ।
क्षणेनान्तर्हिताः सर्वे तापसा गुह्यकैः सह ॥
गन्धर्वनगराकारं तथैवान्तर्हितं पुनः ।
ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥
1-135-4 देहं देहयोरस्थीनि ॥ 1-135-8 तद्गमनं संक्षिप्तममन्यत
मुनीनां योगप्रभावात् स्वदेशगमनौत्कण्ठ्याद्वा ॥ 1-135-9 वर्धमानपुरद्वारं
मुख्यद्वारम् ॥ 1-135-11 आरण्यानां सहस्रसंख्यानां मुनीनां चेति योज्यम् ॥ 1-135-14 व्यतिकरः संघर्षः ॥ 1-135-20 अकूजं निःशब्दम् ॥ 1-135-45 प्रेतकार्ये
सपण्डीकरणान्ते । पितृमेधं यज्ञविशेषम् । वृषोत्सर्गादिकं वा ॥ 1-135-47
गन्धर्वनगरं खपुरम् ॥ पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥