अध्यायः 139

भीममनागतं दृष्ट्वा खिन्नायाः कुन्त्या विदुरेण संवादः ॥ 1 ॥ रसपानेन नागायुतबलवता भीमेन हस्तिनापुरप्रत्यागमनम् ॥ 2 ॥ भीष्मेण धनुर्वेदशिक्षणार्थं कुमाराणां कृपाय निवेदनम् ॥ 3 ॥

वैशंपायन उवाच ।
`दुर्योधनस्तु पापात्मा भीममाशीविषहदे ।
प्रक्षिप्य कृतकृत्यं स्वमात्मानं मन्यते तदा ॥
प्रभातायां रजन्यां च प्रविवेश पुरं ततः । ब्रुवाणो भीमसेनस्तु यातो ह्यग्रत एव नः ॥'
युधिष्ठिरस्तु धर्मात्मा ह्यविदन्पापमात्मनि ।
स्वेनानुमानेन परं साधुं समनुपश्यति ॥
सोऽभ्युपेत्य तदा पार्थो मातरं भ्रातृवत्सलः ।
अभिवाद्याब्रवीत्कुन्तीमम्ब भीम इहागतः ॥
क्व गतो भविता मातर्नेह पश्यामि तं शुभे ।
उद्यानानि वनं चैव विचितानि समन्ततः ॥
तदर्थं न च तं वीरं दृष्टवन्तो वृकोदरम् ।
मन्यमानास्ततः सर्वे यातो नः पूर्वमेव सः ॥
आगताः स्म महाभागे व्याकुलेनान्तरात्मना ।
इहागम्य क्व नु गतस्त्वया वा प्रेषितः क्व नु ॥
कथयस्व महाबाहुं भीमसेनं यशस्विनि ।
नहि मे शुध्यते भावस्तं वीरं प्रति शोभने ॥
यतः प्रसुप्तं मन्येऽहं भीम् नेति हतस्तु सः ।
इत्युक्ता च ततः कुन्ती धर्मराजेन धीमता ॥
हाहेति कृत्वा संभ्रान्ता प्रत्युवाच युधिष्ठिरम् ।
न पुत्र भीमं पश्यामि न मामभ्येत्यसाविति ॥
शीघ्रमन्वेषणे यत्नं कुरु तस्यानुजैः सह ।
द्रुतं गत्वा पुरोद्यानं विचिन्वन्तिस्म पाण्डवाः ॥
भीमभीमेति ते वाचा पाण्डवाः समुदैरयन् ।
विचिन्वन्तोऽथ ते सर्वे न स्म पश्यन्ति भ्रातरम् ॥
आगताः स्वगृहं भूय इदमूचुः पृथां तदा ।
न दृश्यते महाबाहुरम्ब भीमो वने चितः ॥
विचितानि च सर्वाणि ह्युद्यानानि नदीस्तथा ।
वैशंपायन उवाच ।
ततो विदुरमानाय्य कुन्ती सा स्वं निवेशनम् ॥
उवाच बलवान्क्षत्तर्भीमसेनो न दृश्यते ॥
उद्यानान्निर्गताः सर्वे भ्रातरो भ्रातृभिः सह ।
तत्रैकस्तु महाबाहुर्भीमो नाभ्येति मामिह ॥
न च प्रीणयते चक्षुः सदा दुर्योधनस्य सः ।
क्रूरोऽसौ दुर्मतिः क्षुद्रो राज्यलुब्धोऽनपत्रपः ॥
निहन्यादपि तं वीरं जातमन्युः सुयोधनः ।
तेन मे व्याकुलं चित्तं हृदयं दह्यतीव च ॥
विदुर उवाच ।
मैवं वदस्व कल्याणि शेषसंरक्षणं कुरु ।
प्रत्यादिष्टो हि दुष्टात्मा शेषेऽपि प्रहरेत्तव ॥
दीर्घायुषस्तव सुता यथोवाच महामुनिः ।
आगमिष्यति ते पुत्रः प्रीतिं चोत्पादयिष्यति ॥
वैशंपायन उवाच ।
एवमुक्त्वा ययौ विद्वान्विदुरः स्वं निवेशनम् ।
कुन्ती चिन्तापरा भूत्वा सहासीना सुतैर्गृहे ॥
ततोऽष्टमे तु दिवसे प्रत्यबुध्यत पाण्डवः ।
तस्मिंस्तदा रसे जीर्णे सोऽप्रमेयबलो बली ॥
तं दृष्ट्वा प्रतिबुध्यन्तं पाण्डवं ते भुजङ्गमाः ।
सान्त्वयामासुरव्यग्रा वचनं चेदमब्रुवन् ॥
यत्ते पीतो महाबाहो रसोऽयं वीर्यसंभृतः ।
तस्मान्नागायुतबलो रणेऽधृष्यो भविष्यसि ॥
गच्छाद्य त्वं च स्वगृहं स्नातो दिव्यैरिमैर्जलैः ।
भ्रातरस्तेऽनुतप्यन्ति त्वां विना कुरुपुङ्गव ॥
ततः स्नातो महाबाहुः शुचिशुक्लाम्बरस्रजः ।
ततो नागस्य भवने कृतकौतुकमङ्गलः ॥
ओषधीभिर्विषघ्नीभिः सुरभीभिर्विशेषतः ।
भुक्तवान्परमान्नं च नागैर्दत्तं महाबलः ॥
पूजितो भुजगैर्वीर आशीर्भिश्चाभिनन्दितः ।
दिव्याभरणसंछन्नो नागानामन्त्र्य पाण्डवाः ॥
उदतिष्ठत्प्रहृष्टात्मा नागलोकादरिन्दमः ।
उत्क्षिप्य च तदा नागैर्जलाज्जलरुहेक्षणः ॥
तस्मिन्नेव वनोद्देशे स्थापितः कुरुनन्दनः ।
ते चान्तर्दधिरे नागाः पाण्डवस्यैव पश्यतः ॥
तत उत्थाय कौन्तेयो भीमसेनो महाबलः ।
आजगाम महाबाहुर्मातुरन्तिकमञ्जसा ॥
ततोऽभिवाद्य जननीं ज्येष्ठं भ्रातरमेव च ।
कनीयसः समाघ्राय शिरस्स्वरिविमर्दनः ॥
तैश्चापि संपरिष्वक्तः सह मात्रा नरर्षभैः ।
अन्योन्यगतसौहार्दाद्दिष्ट्या दिष्ट्येति चाब्रुवन् ॥
ततस्तत्सर्वमाचष्ट दुर्योधनविचेष्टितम् ।
भ्रातॄणां भीमसेनश्च महाबलपराक्रमः ॥
नागलोके च यद्वृत्तं गुणदोषमशेषतः ।
तच्च सर्वमशेषेण कथयामास पाण्डवः ॥
ततो युधिष्ठिरो राजा भीममाह वचोऽर्थवत् ।
तूष्णीं भव न ते जल्प्यमिदं कार्यं कथंचन ॥
इतःप्रभृति कौन्तेयं रक्षतान्योन्यमादृताः ।
एवमुक्त्वा महाबाहुर्धर्मराजो युधिष्ठिरः ॥
भ्रातृभिः सहितः सर्वैरप्रमत्तोऽभवत्तदा ।
यदा त्ववगतास्ते वै पाण्डवास्तस्य कर्म तत् ॥
नत्वेव बहुलं चक्रुः प्रयता मन्त्ररक्षणे ।
धर्मात्मा विदुरस्तेषां प्रददौ मतिमान्मतिम् ॥
दुर्योधनोऽपि तं दृष्ट्वा पाण्डवं पुनरागतम् ।
निश्वसंश्चिन्तयंश्चैवमहन्यहनि तप्यते ॥
कुमारान्क्रीडमानांस्तान्दृष्ट्वा राजातिदुर्मदान् ।
गुरुं शिक्षार्थमन्विष्य गौतमं तान्न्यवेदयत् ॥
शरस्तम्बे समुद्भूतं वेदशास्त्रार्थपारगम् । `राज्ञा निवेदितास्तस्मै ते च सर्वे च निष्ठिताः ।'
अधिजग्मुश्च कुरवो धनुर्वेदं कृपात्तु ते ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥

1-139-8 भावश्चित्तं न शुध्यते जीवतीति न मनुते ॥ 1-139-19 प्रत्यादिष्टः कुतो भीमं हतवानसीत्युपालब्धः ॥ 1-139-41 तान्कुरुबालकान् न्यवेदयत् ॥ ऊनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥