अध्यायः 010

रुरुडुण्डुभसंवादः ॥ 1 ॥

रुरुरुवाच ।
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह ।
तत्र मे समयो घोर आत्मनोरग वै कृतः ॥
भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत ।
ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे ॥
डुण्डुभ उवाच ।
अन्ये ते भुजगा ब्रह्मन्ये दश्तीह मानवान् ।
डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ॥
एकानर्थान्पृथग्धर्मानेकदुःखान्पृथक्सुखान् ।
डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ॥
सौतिरुवाच ।
इति श्रुत्वा वचस्तस्य डुण्डुभस्य रुरुस्तदा ।
नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम् ॥
उवाच चैनं भगवान्रुरुः संशमयन्निव ।
केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः ॥
डुण्डुभ उवाच ।
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् ।
सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ॥
रुरुरुवाच ।
किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम ।
कियन्तं चैव कालं ते वपुरेतद्भविष्यसि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि दशमोऽध्यायः ॥ 10 ॥

1-10-3 अहिगन्धेन सर्पसादृश्यमात्रेण ॥ 1-10-4 एकानर्थान् एकः समानः अनर्थः जनकर्तृकहिंसादिरूपो येषां तान् । पृथक् सर्पजात्युचितप्राणहरणादिविलक्षणो धर्मो लक्षणं येषां ते । एकं तुल्यं बिलेशयत्वादिरूपं दुःखं येषां तान् । पृथक् हविर्भागादिभ्यो भिन्नं भेकभक्षणादि सुखं येषां तान् । धर्मवित् कृतापराधस्यैव दण्डो नत्वन्यस्येति धर्मस्तज्ज्ञः ॥ दशमोऽध्यायः ॥ 10 ॥