अध्यायः 153

धृतराष्ट्रादीनां कणिकेन दुर्नीत्युपदेशः ॥ 1 ॥ जम्बुकोपाख्यानम् ॥ 2 ॥

वैशंपायन उवाच ।
श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः ।
धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः ॥
तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम् ।
कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रऽब्रवीद्वचः ॥
उत्सक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम । तत्र मे निश्चिततमं सन्धिविग्रहकारणम् ।
कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव ॥
वैशंपायन उवाच ।
`दुर्योधनोऽथ शकुनिः कर्णदुःशासनावपि ।
कणिकं ह्युपसंगृह्य मन्त्रिणं सौबलस्य च ॥
पप्रच्छुर्भरतश्रेष्ठ पाण्डवान्प्रति नैकधा ।
प्रबुद्धाः पाण्डवा नित्यं सर्वे तेभ्यस्त्रसामहे ॥
अनूनं सर्वपक्षाणां यद्भवेत्क्षेमकारकम् ।
भारद्वाज तदाचक्ष्व करिष्यामः कथं वयम् ॥
वैशंपायन उवाच ।'
स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः ।
उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनम् ॥
कणिक उवाच ।
शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ ।
न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम ॥
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः ॥
नित्यमुद्यतदण्डाद्धि भऋशमुद्विजते जनः ।
तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत् ॥
नास्य च्छिद्रं परः पश्येच्छिद्रेण परमन्वियात् ।
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥
`नित्यं च ब्राह्मणाः पूज्या नृपेण हितमिच्छता ।
सृष्टो नृपो हि विप्रामां पालने दुष्टनिग्रहे ॥
उभाब्यां वर्धते धर्मो धर्मवृद्ध्या जितावुभौ ।
लोकश्चायं परश्चैव ततो धर्मं समाचरेत् ॥
कृतापराधं पुरुषं दृष्ट्वा यः क्षमते नृपः ।
तेनावमानमाप्नोति पापं चेह परत्र च ॥
यो विभूतिमवाप्योच्चै राज्ञो विकुरुतेऽधमः ।
तमानयित्वा हत्वा च दद्याद्धीनाय तद्धनम् ॥
नो चेद्धुरि नियुक्ता ये स्थास्यन्ति वशमात्मनः ।
राजा नियुञ्ज्यात्पुरुषानाप्तान्धर्मार्थकोविदान् ॥
ये नियुक्तास्तथा केचिद्राष्ट्रं वा यदि वा पुरम् ।
ग्रामं जनपदं वापि बाधेयुर्यदि वा न वा ॥
परीक्षणार्थं विसृजेदानतांश्छन्नरूपिणः । परीक्ष्य पापकं जह्याद्धनमादाय सर्वशः ॥'
नासम्यक्कृत्यकारी स्यादुपक्रम्य कदाचन ।
कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम् ॥
वधमेव प्रशंसन्ति शत्रूणामपकारिणाम् ।
सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम् ॥
आपद्यापदि काले कुर्वीत न विचारयेत् ।
नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथं चन ॥
अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात् ।
अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् ॥
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् ।
सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितं ॥
दया न तस्मिन्कर्तव्या शरणागत इत्युत ।
निरुद्विग्नो हि भवति न हताज्जायते भयम् ॥
हन्यादमित्रं दानेन तथा पूर्वापकारिणम् ।
हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः ॥
मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः ।
ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम् ॥
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः ।
कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ ॥
एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥
अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः ।
लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥
अङ्कुशं शोचमित्याहुरर्थानामुपधारणे ।
आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत् ॥
फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम् ।
वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः ॥
ततः प्रत्यागते काले भिन्द्याद्धृटमिवाश्मनि ।
अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन् ॥
कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम् ।
हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः ॥
तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत् ।
धृतराष्ट्र उवाच ।
कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः ॥
अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम् ।
कणिक उवाच ।
शृणु राजन्यथा वृत्तं वने निवसतः पुरा ॥
जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः ।
अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः ॥
सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः ।
तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम् ॥
अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन् ।
जम्बुक उवाच ।
असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया ॥
युवा वै जवसंपन्नो बुद्धिशाली न शक्यते ।
मूषिकोऽस्य शयानस्य चरणौ भक्षयत्वयम् ॥
अथैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः ।
ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः ॥
जम्बुकस्य तु तद्वाक्यं तथा चक्रः समाहिताः ।
मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा ॥
दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम् ।
स्नात्वाऽऽगच्छत भद्रं वोरक्षामीत्याह जम्बुकः ॥
शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः ।
स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः ॥
अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः ।
ददर्श जम्बुकं चैव चिन्ताकुलितमानसम् ॥
व्याघ्र उवाच ।
किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः ।
अशित्वा पिशितान्यद्य विहरिष्यामहे वयम् ॥
जम्बुक उवाच ।
शृणु मे त्वं महाबाहो यद्वाक्यं मूषिकोऽब्रवीत् ।
धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः ॥
मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति ।
तस्यैवं गर्जितं श्रुत्वा ततो भक्ष्यं न रोचये ॥
व्याघ्र उवाच ।
ब्रवीति यदि स ह्येवं काले ह्यस्मि प्रबोधितः ।
स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान् ॥
खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितोवनम् ।
एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह ॥
तमागतमभिप्रेक्ष्य शृगालोऽप्यब्रवीद्वचः ।
शृणु मीषिक भद्रं ते नकुलो यदिहाब्रवीत् ॥
मृगमांसं न खादेयं गरमेतन्न रोचते ।
मूषिकं भक्षयिष्यामि तद्भवाननुमन्यताम् ॥
तच्छ्रुत्वा मूषिको वाक्यं संत्रस्तः प्रगतो बिलम् ।
ततः स्नात्वा स वै तत्र आजगाम वृको नपृ ॥
तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा ।
मृगराजो हि संक्रुद्धो न ते साधु भविष्यति ॥
सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम् ।
एवं संचोदितस्तेन जम्बुकेन तदा वृकः ॥
ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः ।
एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह ॥
तमुवाच महाराज नकुलं जम्बुको वने ।
स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः ॥
मम दत्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम् ।
नकुल उवाच ।
मृगराजो वृकश्चैव बुद्धिमानपि मूषिकः ॥
निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान् ।
न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत् ॥
कणिक उवाच ।
एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः । खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात् ।
एवं समाचरन्नित्यं सुखमेधेत भूपतिः ॥
भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा ।
लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा ॥
एवं ते कथितं राजन् शृणु चाप्यपरं तथा ॥
पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः ।
रिपुस्यानेषु वर्तन्तो हन्तव्या भूतिमिच्छता ॥
शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः । विषेण मायया वापि नोपेक्षेते कथंचन ।
उभौ चेत्संशयोपेतौ श्रद्धवांस्तत्र वर्धते ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य न्याय्यं भवति शासनम् ॥
क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषिता । `न चैनं क्रोधसंदीप्तं विद्यात्कश्चित्कथंचन ।'
न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः ॥
प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत ।
प्रहृत्य च प्रियं ब्रूयाच्छोचन्निव रुदन्निव ॥
आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः ।
अथ तं प्रहरेत्काले तथा विचलितं पथि ॥
अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः ।
स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः ॥
यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत् ।
अधनान्नास्तिकांश्चोरान्विषकर्मसु योजयेत् ॥
प्रत्युत्थानासनाद्येन संप्रदानेन केनचित् ।
अतिविश्रब्धघाती स्यात्तीक्ष्णंदष्ट्रो निमग्नकः ॥
अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः ।
अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति ॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥
चारः सुविहितः कार्य आत्मनश्च परस्य वा ।
पाषण्डांस्तापसादींश्च परराष्ट्रेषु योजयेत् ॥
उद्यानेषु विहारेषु देवतायतनेषु च ।
पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ ॥
चत्वरेषु च कूपेषु पर्वतेषु वनेषु च ।
समवायेषु सर्वेषु सरित्सु च विचारयेत् ॥
वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः ।
स्मितपूर्वाभिभाषी स्यात्सृष्टो रौद्रस्य कर्मणः ॥
अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम् ।
आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता ॥
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः ।
आमः स्यात्पक्वसङ्काशो नच जीर्येत कर्हिचित् ॥
त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धास्तथैव च ।
अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत् ॥
धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति ।
अर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिनः ॥
अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता ।
अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सहा ॥
कर्मणा येन केनैव मृदुना दारुणेन च ।
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥
न संशयमनारुह्य नरो भद्राणि पश्यति ।
संशयं पुनरारुह्य यदि जीवति पश्यति ॥
यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत् ।
अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम् ॥
योऽरिणा सह सन्धाय शयीत कृतकृत्यवत् ।
स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते ॥
मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता ।
आकारमभिरक्षेत चारेणाप्यनुपालितः ॥
`न रात्रौ मन्त्रयेद्विद्वान्न च कैश्चिदुपासितः ।
प्रासादाग्रे शिलाग्रे वा विशाले विजनेपि वा ॥
समन्तात्तत्र पश्यद्भिः सहाप्तैरेव मन्त्रयेत् ।
नैव संवेशयेत्तत्र मन्त्रवेश्मनि शारिकाम् ॥
शुकान्वा शारिका वापि बालमूर्खजडानपि ।
प्रविष्टानपि निर्वास्य मन्त्रयेद्धार्मिकैर्द्विजैः ॥
नीतिज्ञैर्न्यायशास्त्रज्ञैरितिहासे सुनिष्ठितैः ।
रक्षां मन्त्रस्य निश्छिद्रां मन्त्रान्ते निश्चयेत्स्वयम् ॥
वीरोपवर्णितात्तस्माद्धर्मार्थाभ्यामथात्मना ।
एकेन वाथ विप्रेण ज्ञातबुद्धिर्विनिश्चयेत् ॥
तृतीयेन न चान्येन व्रजेन्निश्चयमात्मवान् ।
षट्कर्णश्छिद्यते मन्त्र इति नीतिषु पठ्यते ॥
निःसृतो नाशयेन्मन्त्रो हस्तप्राप्तामपि श्रियम् । स्वमतं च परेषां च विचार्य च पुनःपुनः ।
गुणवद्वाक्यमादद्यान्नैव तृप्येद्विचक्षणः ॥'
नाच्छित्वा परमर्माणि नाकृत्वा कर्म दारुणम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥
कर्शितं व्याधितं क्लिन्नमपानीयमघासकम् ।
परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम् ॥
नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम् ।
तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत् ॥
संग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता ।
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता ॥
नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा ।
आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि ॥
भीतवत्संविधातव्यं यावद्भयमनागतम् ।
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत् ॥
दैवेनोपहतं शत्रुमनुगृह्णाति यो नरः ।
स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥
अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम् ।
न तु बुद्धिक्षयात्किंचिदतिक्रामेत्प्रयोजनम् ॥
उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता । विभज्य देशकालौ च दैवं धर्मादयस्त्रयः ।
नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः ॥
तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः ।
गहनेऽग्निरिवोत्सृष्टः क्षिप्रं संजायते महान् ॥
अग्निस्तोकमिवात्मानं सन्धुक्षयति यो नरः ।
स वर्धमानो ग्रसते महान्तमपि संचयम् ॥
`आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम् ॥'
आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् ।
विघ्नं निमित्ततो ब्रूयान्निमित्तं वाऽपि हेतुतः ॥
क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः ।
प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः ॥
पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह ।
वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर ॥
सर्वकल्याणसंपन्नो विशिष्ट इति निश्चयः ।
तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप ॥
भ्रातृव्या बलवन्तस्ते पाण्डुपुत्रा नराधिप ।
पश्चात्तापो यथा न स्यात्तथा नीतिर्विधीयताम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा संप्रतस्थे कणिकः स्वगृहं ततः ।
धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥ ॥ समाप्तं च संभवपर्व ॥

1-153-13 उभाभ्यां ब्राह्मणरक्षणदुष्टनिग्रहाभ्याम् । जितौ संपादितौ भवेतामिति शेषः ॥ 1-153-15 हीनाय दरिद्राय ॥ 1-153-20 उपसंहरति वधमिति । कथं वधः कर्तव्यं इत्याह सुविदीर्णमिति । सुविक्रान्तमपि शत्रुं । काले आपद्यापन्नमालभ्य सुविदीर्णं विनष्टं कुर्वीत । तथा सुयुद्धमपि शत्रुमापदि काले सुपलायितं कुर्वीति ॥ 1-153-22 आश्रयसंश्रयात् आश्रयबलात् ॥ 1-153-23 तृणमयं तृणवन्निष्प्रयोजनम् । क्षात्रं धर्मं त्यक्त्वा शत्रुगृहे भिक्षाभुगपि स्यादित्यर्थः । मृगशायिकां मृगहन्तुः शय्याम् । यथा व्याधो मृगान्विश्वासयितुं मृषा निद्राति विश्वस्तेषु च तेषु प्रहरत्येवं स हन्तुमेवाकारं गोपयतीत्यर्थः । उपायैः वशे स्थितं शत्रुमिति संबन्धः ॥ 1-153-25 त्रीन् ऐश्वर्यमन्त्रोत्साहान् । तथा पञ्च अमात्यराष्ट्रदुर्गाणि कोशो दण्डश्च पञ्चम इत्युक्तान् । दण्डोत्र सैन्यं । सप्त स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्बलानि येत्युक्तानि ॥ 1-153-30 शौचमग्न्याधानादि । अत्र दृष्टान्तः आनाम्येति आनामयित्वा ॥ 1-153-37 बभ्रुर्नकुलः । मृगयूथपं महान्तं हरिणम् ॥ 1-153-41 मूषिकेण आईषद्भक्षितैः ॥ 1-153-46 मृगराजस्य व्याघ्रस्य ॥ 1-153-51 गरं मूषिकदष्टत्वाद्विषभूतम् ॥ 1-153-55 अवलुम्पनं गात्रसंकोचनम् ॥ 1-153-63 संशयोपेतौ संशयविषयौ । श्रद्धावान् मदुक्तादरवान् । श्रद्दधानस्तु बध्यत इति ङ पाठः ॥ 1-153-65 अपध्वंसेत् कुत्सयेत् ॥ 1-153-69 अनुप्राप्तबधः शीघ्रं हन्तुमिष्टः अधना दरिद्राः नास्तिकाः परलोकश्रद्धारहिताः ॥ 1-153-70 निमग्नकः नम्रशिराः तीक्ष्णदंष्ट्रः व्याघ्र इव । तीक्ष्णदंष्ट्र इवोरत इति क.ङ.पाठः ॥ 1-153-73 सुविहितः सम्यक् परीक्षितः ॥ 1-153-76 सृष्टो रौद्राय कर्मण इति क.घ.पाठः ॥ 1-153-79 अनुबन्धः फलम् ॥ 1-153-80 धर्ममत्यन्तं विचरतः पुंसो द्वाभ्यामर्थकामाभ्यां धनव्ययब्रह्मचर्योपक्षिप्ताभ्यां पीडा चित्तवैकल्यं भवति । सापि पुंसः पीडा धर्मं नियच्छति निगृह्णाति । एवमर्थं चाप्यर्थलुब्धस्य कामं चातिप्रवर्तिन इति व्याख्येयं ॥ 1-153-83 उद्देश्यसन्देहेपि नीतिरवश्यमनुसरणीयेत्याह । न संशयमिति । असंशयमथारुह्येति क.घ.ट.पाठः ॥ 1-153-84 परिभवेत् शोकेन । तमतीतेन नलरामाद्याख्यानेन । दुर्बुद्धिं । लोभाद्युपहतबुद्धिम् । अनागतेन कालान्तरे तव श्रेयो भविष्यतीत्याशाप्रदर्शनेन । पण्डितं प्रत्युत्पन्नेन वर्तमानेन धनादिना सान्त्वयेत् ॥ 1-153-86 मन्त्रसंवरणं मन्त्रगूहनम् ॥ 1-153-95 अघासकं अनाहारम् ॥ 1-153-96 संगतं सख्यम् ॥ 1-153-98 आरब्धान्यपि सुपर्यवसितानि संपन्नान्येव पश्येरन् ॥ 1-153-99 संविधातव्यं प्रतिकर्तव्यम् ॥ 1-153-102 देशाद्यनुगुण उत्साहोऽपि कर्तव्यो नत्वलसो भवेत् । दैवं प्राक्तनं कर्म । ये धर्मादयस्त्रयस्तांश्च विभज्य तेषां मध्ये नैःश्रेयसौ श्रेयोहेतू इति स्थितिर्निश्चयः ॥ 1-153-103 बालः अल्पोपि । बलवत्कुरुते रूपं बाल्यादिति क.ङ.ट.पाठः ॥ 1-153-104 आत्मानं सधुक्षयति सहायादिना वर्धयति । संचयमिन्धनानां पक्षे शत्रूणाम् ॥ 1-153-106 हेतुतः हेत्वन्तरेण ॥ 1-153-111 तदा सपुत्रो राजा च शोकार्त इति ङ पुस्तकपाठः ॥ त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥