अध्यायः 154
(अथ जतुगृहपर्व ॥ 8 ॥)
संग्रहेण जतुगृहदाहकथनम् ॥ 1 ॥ पुनर्विस्तरेण
जतुगृहदाहकथनारम्भः ॥ 2 ॥ दुर्योधनधृतराष्ट्रसंवादः ॥ 3 ॥
कणिकस्य मतं श्रुत्वा कार्त्स्न्येन भरतर्षभ ।
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
दुशासनचतुर्थास्ते मन्त्रयामासुरेकदा ॥
ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम् ।
दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन् ॥
तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान् ।
आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम् ॥
ततो विदितवेद्यात्मा पाण्डवानां हिते रतः ।
पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः ॥
ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् ।
ऊर्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच ह ॥
एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः ।
धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम् ॥
इयं वारिपथे युक्ता तरङ्गपवनक्षमा ।
नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे ॥
तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी ।
नावमारुह्य गङ्गायां प्रययौ भरतर्षभ ॥
ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः ।
धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम् ॥
निषादी पञ्चपुत्रा तु जातेषु तत्र वेश्मनि ।
कारणाभ्यागता दग्धा सह पुत्रैरनागसा ॥
स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः ।
वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः ॥
अविज्ञाता महात्मनो जनानामक्षतास्तथा ।
जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः ॥
ततस्तस्मिन्पुरे लोका नगरे वारणावते ।
दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः ॥
प्रेषयामासू राजानं यथावृत्तं निवेदितुम् ।
संवृतस्ते महान्कामः पाण्डवान्दग्धवानसि ॥
सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः ।
तच्छ्रुत्वा धृतराष्ट्रस्तु सहपुत्रेण शोचयन् ॥
प्रेतकार्याणि च तथा चकार सह बान्धवैः ।
पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः ॥
जनमेजय उवाच ।
पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम ।
दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम् ॥
सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम् ।
कीर्तयस्व यथावृत्तं परं कौतूहलं मम ॥
वैशंपायन उवाच ।
शृणु विस्तरशो राजन्वदतो मे परन्तप ।
दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम् ॥
वैशंपायन उवाच ।
ततो दुर्योधनो राजा धृतराष्ट्रमभाषत ।
पाण्डवेभ्यो भयं नः स्यात्तान्विवासयतां भवान् ।
निपुणेनाभ्युपायेन नगरं वारणावतम् ॥
धृतराष्ट्रस्तु पुत्रेण श्रुत्वा वचनमीरितम् ।
मुहूर्तमिव संचिन्त्य दुर्योधनमथाब्रवीत् ॥
धर्मनित्यः सदा पाण्डुस्तथा धर्मपरायणः ।
सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥
नासौ किंचिद्विजानाति भोजनादिचिकीर्षितम् ।
निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः ।
गुणवान्लोकविख्यातः पौरवाणां सुसंमतः ॥
स कथं शक्यतेऽस्माभिरपाकर्तुं बलादितः ।
पितृपैतामाहाद्राज्यात्ससहायो विशेषतः ॥
भृता हि पाण्डुनाऽमात्या बलं च सततं भृतम् ।
भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥
ते पुरा सत्कृतास्तात पाण्डुना नागरा जनाः ।
कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥
दुर्योधन उवाच ।
एवमेतन्मया तात भावितं दोषमात्मनि ।
दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन पूजिताः ॥
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः ।
अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥
स भवान्पाण्डवानाशु विवासयितुमर्हति ।
मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति ।
तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥
धृतराष्ट्र उवाच ।
दुर्योधन ममाप्येतद्धृदि संपरिवर्तते ।
अभिप्रायस्य पापत्वान्नैवं तु विवृणोम्यहम् ॥
न च भीष्मो न च द्रोणो न च क्षत्ता न गौतमः ।
विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥
समा हि कौरवेयाणां वयं ते चैव पुत्रक ।
नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥
ते वयं कौरवेयाणामेतेषां च महात्मनाम् ।
कथं न वध्यतां तात गच्छाम जगतस्तथा ॥
दुर्योधन उवाच ।
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः ।
यतः पुत्रस्ततो द्रोणो भविता नात्र संशयः ॥
कृपः शारद्वतश्चैव यत एतौ ततो भवेत् ।
द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥
क्षत्ताऽर्थबद्धस्त्वस्माकं प्रच्छन्नं संयतः परैः ।
न चैकः स समर्थोऽस्मान्पाम्डवार्थेऽधिबाधितुम् ॥
सुविस्रब्धः पाण्डुपुत्रान्सह मात्रा प्रवासय ।
वारणावतमद्यैव यथा यान्ति यथा कुरु ॥
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् ।
शोकपावकमुद्भूतं कर्मणैतेन नाशय ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥
1-154-2 अनुज्ञाप्य पृष्ट्वा ॥ 1-154-3 इङ्गितं चेष्टितं तेन
भावं चित्ताभिप्रायं जानातीति इङ्गितभावज्ञः ॥ 1-154-4 विदितवेद्यो ज्ञाततत्त्व
आत्मा चित्तं यस्य ॥ 1-154-5 यन्त्रयुक्तां यन्त्रं महत्यपि वाते जलाशये
नौकास्तम्भकं लोहलङ्गलमयम् ॥ 1-154-9 अरिष्टं निर्विघ्नम् ॥ 1-154-18 क्रूरेण
कणिकेनोपसंहितमुपदिष्टम् ॥ चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥