अध्यायः 155

दुर्योधनेन दानादिना प्रकृतिवशीकरणम् ॥ 1 ॥ पाण्डवानां वारणावतयात्रार्थं धृतराष्ट्रानुज्ञा ॥ 2 ॥

वैशंपायन उवाच ।
ततो दुर्योधनो राजा सर्वास्तु प्रकृतीः शनैः । अर्थमानप्रदानाभ्यां संजहार सहानुजः ।
`युयुत्सुमपनीयैकं धार्तराष्ट्रं सहोदरम् ॥'
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः ।
कथयाञ्चक्रिरे रम्यं नगरं वारणावतम् ॥
अयं समाजः सुमहान्रमणीयतमो भुवि ।
उपस्थितः पशुपतेर्नगरे वारणावते ॥
सर्वरत्नसमाकीर्णे पुण्यदेशे मनोरमे ।
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ॥
कथ्यमाने तथा रम्ये नगरे वारणावते ।
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ॥
यदा त्वमन्यत नृपो जातकौतूहला इति ।
उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः ॥
`अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः ।
अस्त्राणि च तथा द्रोणाद्गौतमाच्च शरद्वतः ॥
कृतकृत्या भवन्तस्तु सर्वविद्याविशारदाः । सोऽहमेवं गते ताताश्चिन्तयामि समन्ततः ।
रक्षणे व्यवहारे च राज्यस्य सततं हिते ॥'
ममैते पुरुषा नित्यं कथयन्ति पुनःपुनः ।
रमणीयतमं लोके नगरं वारणावतम् ॥
ते ताता यदि मन्यध्वमुत्सवं वारणावते ।
सगणाः सान्वयाश्चैव विहरध्वं यथाऽमराः ॥
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः ।
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ॥
कंचित्कालं विहृत्यैवमनुभूय परां मुदम् ।
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ॥
`निवसध्वं च तत्रैव संरक्षणपरायणाः । वैलक्षण्यं न वै तत्र भविष्यति परंतपाः ॥'
वैशंपायन उवाच ।
धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः ।
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ॥
ततो भीष्मं शान्तनवं विदुरं च महामतिम् ।
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ॥
कृपमाचार्यपुत्रं च भूरिश्रवसमेव च ।
मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान् ॥
पुरोहितांश्च पौत्रांश्च गान्धारीं च यशस्विनीम् । `सर्वा मातॄरुपस्पृष्ट्वा विदुरस्य च योषितः ।'
युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा ॥
रमणीये जनाकीर्णे नगरे वारणावते ।
सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात् ॥
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत ।
आशीर्भिर्बृहितानस्मान्न पापं प्रसहिष्यते ॥
वैशंपायन उवाच ।
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः ।
प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान् ॥
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः ।
मा च वोस्त्वशुभं किंचित्सर्वशः पाण्डुनन्दनाः ॥
ततः कृतस्वस्त्ययना राज्यलाभाय पार्थिवाः ।
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥