अध्यायः 158

पाण्डवानां वारणावतप्रवेशः ॥ 1 ॥

वैशंपायन उवाच ।
ततः सर्वाः प्रकृतयो नगराद्वारणावतात् ।
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ॥
श्रुत्वाऽगतान्पाण्डुपुत्रान्नानायानैः सहस्रशः ।
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ॥
ते समासाद्य कौन्तेयान्वारणावतका जनाः ।
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ॥
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः ।
विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ॥
सत्कृताश्चैव पौरैस्ते पौरान्सत्कृत्य चानघ ।
अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ॥
ते प्रविश्य पुरीं वीरास्तूर्णं जग्मुरथो गृहान् ।
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ॥
नगराधिकृतानां च गृहाणि रथिनां वराः ।
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहाण्यपि ॥
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ ।
जग्मुरावसथं पश्चात्पुरोचनपुरःसराः ॥
तेभ्यो भक्ष्याणि पानानि शयनानि शुभानि च ।
आसनानि च मुख्यानि प्रददौ स पुरोचनः ॥
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः ।
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ॥
दशरात्रोषितानां तु तत्र तेषां पुरोचनः ।
निवेदयामास गृहं शिवाख्यमशिवं तदा ॥
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः ।
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ॥
तच्चागारमभिप्रेक्ष्य सर्वधर्मभृतां वरः ।
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ॥
जिघ्राणोऽस्य वसागन्धं सर्पिर्जतुविमिश्रितम् ।
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप ॥
शणसर्जरसं व्यक्तमानीय गृहकर्मणि ।
मुञ्जबल्वजवंशादिद्रव्यं सर्वं घृतोक्षितम् ॥
`तृणबल्वजकार्पासवंशदारुकटान्यपि । आग्नेयान्यत्र क्षिप्तानि परितो वेश्मनस्तथा ॥'
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि ।
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ॥
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः ।
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तथा ॥
आपदं तेन मां पार्थ स संबोधितवान्पुरा ।
ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा ॥
पित्रा कनीयसा स्नेहाद्बुद्धिमन्तो शिवं गृहम् ।
अनार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ॥
भीमसेन उवाच ।
यदीदं गृहामाग्नेयं विहितं मन्यते भवान् ।
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ॥
`दर्शयित्वा पृथग्गन्तुं न कार्यं प्रतिभाति मे ।
अशुभं वा शुभं वा स्यात्तैर्वसाम सहैव तु ॥
अद्यप्रभृति चास्मासु गतेषु भयविह्वलः ।
रूढमूलो भवेद्राज्ये धार्तराष्ट्रो जनेश्वरः ॥
तदीयं तु भवेद्राज्यं तदीयाश्च जना इमे ।
तस्मात्सहैव वत्स्यामो गलन्यस्तपदा वयम् ॥
अस्माकं कालमासाद्य राज्यमाच्छिद्य शत्रुतः ।
अर्थं पैतृकमस्माकं सुखं भोक्ष्याम शाश्वतम् ॥
धृतराष्ट्रवचोऽस्माभिः किमर्थमनुपाल्यते ।
तेभ्यो भित्त्वाऽन्यथागन्तुं दौर्बल्यं ते कुतो नृप ॥
आपत्सु रक्षिताऽस्माकं विदुरोऽस्ति महामतिः ।
मध्यस्थ एव गाङ्गेयो राज्यभोगपराङ्मुखः ॥
बाह्लीकप्रमुखा वृद्धा मध्यस्था एव सर्वदा ।
अस्मदीयो भवेद्द्रोणः फल्गुनप्रेमसंयुतः ॥
तस्मात्सहैव वस्तव्यं न गन्तव्यं कथं नृप ।
अथवास्मासु ते कुर्युः किमशक्ताः पराक्रमैः ॥
क्षुद्राः कपटिनो धूर्ता जाग्रत्सु मनुजेश्वर ।
किं न कुर्युः पुरा मह्यं किं न दत्तं महाविषम् ॥
आशीविषैर्महाघोरैः सर्पैस्तैः किं न दंशितः ।
प्रमाणकोट्यां संगृह्य निद्रापरवशे मयि ॥
सर्पैर्दृष्टिविषैर्गोरैर्गङ्गायां शूलसन्ततौ ।
किं तैर्न पातितो भूप तदा किं मृतवानहम् ॥
आपत्सु तासु घोरासु दुष्प्रयुक्तासु पापिभिः ।
अस्मानरक्षद्यो देवो जगद्यस्य वशे स्थितम् ॥
चराचरात्मकं सोऽद्य यातः कुत्र नृपोत्तम ।
यावत्सोढव्यमस्माभिस्तावत्सोढास्मि यत्नतः ॥
यदा न शक्ष्यतेऽस्माभिस्तदा पश्याम नो हितम् ।
किं द्रष्टव्यमिहास्माभिर्विगृह्य तरसा बलात् ॥
सान्त्ववादेन दानेन भेदेनापि यतामहे ।
अर्धराज्यस्य संप्राप्त्यै ततो दण्डः प्रशस्यते ॥
तस्मात्सहैव वस्तव्यं तन्मनोर्पितशल्यवत् । दर्शयित्वा पृथक् क्वापि न गन्तव्यं सुभीतवत् ॥'
युधिष्ठिर उवाच ।
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये ।
अप्रमत्तैर्विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ॥
यदि विन्देत चाकारमस्माकं स पुरोचनः ।
क्षिप्रकारी ततो भूत्वा प्रसह्यापि दहेत्ततः ॥
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः ।
तथा हि वर्तते मन्दः सुयोधनवशे स्थितः ॥
अपि चायं प्रदग्धेषु भीष्मोऽस्मासु पितामहः ।
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयीत सः ॥
अथवापीह दग्धेषु भीष्मोऽस्माकं पितामहः ।
धर्म इत्येव कुप्येरन्ये चान्ये कुरुपुङ्गवाः ॥
`उपपन्नं तु दग्धेषु कुलवंशानुकीर्तिताः । कुप्येरन्यदि धर्मज्ञास्तथान्ये कुरुपुङ्गवाः ॥'
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेमहि ।
स्पशैर्नो घातयेत्सर्वान्राज्यलुब्धः सुयोधनः ॥
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः ।
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ॥
तदस्माभिरिमं पापं तं च पापं सुयोधनम् ।
वञ्चयद्भिर्निवस्तव्यं छन्नं वीर क्वचित्क्वचित् ॥
ते वयं मृगयाशीलाश्चराम वसुधामिमाम् ।
तथा नो विदिता मार्गा भविष्यन्ति पलायतां ॥
भौमं च बिलमद्यैव करवाम सुसंवृतम् ।
गूढोद्गतान्न नस्तत्र हुताशः संप्रधक्ष्यति ॥
द्रवतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः ।
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥

1-158-22 दर्शयित्वा विरोधमिति शेषः ॥ 1-158-29 न गन्तव्यं हास्तिनपुरमिति शेषः ॥ 1-158-40 उपक्रोशाद्गर्हातः ॥ 1-158-41 अयं भीष्म इति संबन्धः ॥ 1-158-42 दग्धेष्वस्मास्वग्निदेषु कोपोऽधर्म इत्येव कारणं कृत्वा भीष्मोऽन्ये च कुप्येरन् ॥ 1-158-44 दाहस्य दाहात् । स्पशैश्चारैः ॥ 1-158-49 अत्र बिले ॥ अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥