अध्यायः 161

पाण्डवानां विदुरप्रेषितदूतदर्शितनौकया गङ्गोत्तरणम् ॥ 1 ॥

वैशंपायन उवाच ।
एतस्मिन्नेव काले तु यथासंप्रत्ययं कविः ।
विदुरः प्रेषयामास तद्वनं पुरुषं शुचिम् ॥
`आत्मनः पाण्डवानां च विश्वास्यं ज्ञातपूर्वकम् । गङ्गासंतरणार्थाय ज्ञाताभिज्ञानवाचिकम् ॥'
स गत्वा तु यथोद्देशं पाण्डवान्ददृशे वने ।
जनन्या सह कौरव्याननयज्जाह्नवीतटम् ॥
विदितं तन्महाबुद्धेर्विदुरस्य महात्मनः ।
ततस्त्रस्यापि चारेण चेष्टितं पापचेतसः ॥
ततः प्रवासितो विद्वान्विदुरेण नरस्तदा ।
पार्थानां दर्शयामास मनोमारुतगामिनीम् ॥
सर्ववातसहां नावं यन्त्रयुक्तां पताकिनीम् ।
शिवे भागीरथीतीरे नरैर्विस्रम्भिभिः कृताम् ॥
ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम् ।
युधिष्ठिर निबोधेयं संज्ञार्थं वचनं कवेः ॥
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः । न हन्तीत्येवमात्मानं यो रक्षति स जीवति ।
`बोद्धव्यमिति यत्प्राह विदुरस्तदिदं तथा ॥'
तेन मां प्रेषितं विदिधि विश्वस्तं संज्ञयाऽनया । भूयश्चैवाह मां क्षत्ता विदुरः सर्वतोऽर्थवित् ।
`अधिक्षिपन्धार्तराष्ट्रं सभ्रातृकमुदारधीः ॥'
कर्णं दुर्योधनं चैव भ्रातृभिः सहितं रणे ।
शकुनिं चैव कौन्तेय विजेताऽसि न संशयः ॥
`वैशंपायन उवाच ।
पाण्डवाश्चापि गत्वाथ गङ्गायास्तीरमुत्तमम् ।
निषादाधिपतिं वीरं दाशं परमधार्मिकम् ॥
दीपिकाभिः कृतालोकं मार्गमाणं च पाण्डवान् ।
ददृशुः पाण्डवेयास्ते नाविकं त्वरयाऽन्वितम् ॥
निषादस्तत्र कौन्तेयानभिज्ञानं न्यवेदयत् ।
विदुरस्य महाबुद्धेर्म्लेच्छभाषादि यत्तदा ॥
नाविक उवाच ।
विदुरेणास्मि सन्दिष्टो दत्त्वा बहु धनं महत् ।
गङ्गातीरे निविष्टस्त्वं पाण्डवांस्तारयेति ह ॥
सोऽहं चतुर्दशीमद्य गङ्गाया अविदूरतः ।
चारेरन्वेषयाम्यस्मिन्वने मृगगणान्विते ॥
प्रभवन्तोऽथ भद्रं वो नावमारुह्य गम्यताम् । युक्तारित्रपताकां च निश्छिद्रां मन्दिरोपमाम् ॥'
इयं वारिपथे युक्ता नौरप्सु सुखगामिनी ।
मोचयिष्यति वः सर्वानस्माद्देशान्न संशयः ॥
वैशंपायन उवाच ।
अथ तान्व्यथितान्दृष्ट्वा सह मात्रा नरोत्तमान् ।
नावमारोप्य गङ्गायां प्रस्थितानब्रवीत्पुनः ॥
विदुरो मूर्ध्न्युपाघ्राय परिष्वज्य वचो मुहुः ।
अरिष्टं गच्छताव्यग्राः पन्थानमिति चाब्रवीत् ॥
इत्युक्त्वा स तु तान्वीरान्पुमान्विदुरचोदितः ।
तारयामास राजेन्द्र गङ्गां नावा नरर्षभान् ॥
तारयित्वा ततो गङ्गां पारं प्राप्तांश्च सर्वशः ।
जयाशिषः प्रयुज्याथ यथागतमगाद्धि सः ॥
पाण्डवाश्च महात्मानः प्रतिसन्दिश्य वै कवेः ।
गङ्गामुत्तीर्य वेगेन जग्मुर्गूढमलक्षिताः ॥
`ततस्ते तत्र तीर्त्वा तु गङ्गामुत्तुङ्गवीचिकाम् ।
जवेन प्रययुर्वीरा दक्षिणां दिशमास्थिताः ॥
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः ।
वनाद्वनान्तरं राजन्गहनं प्रतिपेदिरे ॥
श्रान्तास्ततः पिपासार्ताः क्षुधिता भयकातराः ।
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ॥
इतः कष्टतरं किं नु यद्वयं गहने वने । दिशश्च न प्रजानीमो गन्तुं चैतेन शक्नुमः ।
तं च पापं न जानीमो दग्धो वाथ पुरोचनः ॥
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ।
शीघ्रमस्मानुपादाय तथैव व्रज भारत ॥
त्वं हि नो बलवानेको यथा सततगस्तथा । इत्युक्तो धर्मराजेन भीमसेनो महाबलः ।
आदाय कुन्तीं भ्रातॄंश्च जगामाशु स पावनिः' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि एकषष्ट्यधिकशततमोऽध्यायः ॥ 161 ॥