अध्यायः 165
पाण्डवान्प्रति प्रेषितया हिडिम्बया विलम्बिते हिडिम्बस्य तत्रागमनम् ॥ 1 ॥ भीमहिडिम्बयोर्युद्धम् ॥ 2 ॥ कुन्त्यादीनां प्रबोधः ॥ 3 ॥
वैशंपायन उवाच ।
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः ।
अवतीर्य द्रुमात्तस्मादाजगामाशु पाण्डवान् ॥
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाननः ।
मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रो भयानकः ॥
तलं तलेन संहत्य बाहू विक्षिप्य चासकृत् ।
उद्वृत्तनेत्रः संक्रुद्धो दन्तान्दन्तेषु निष्कुषन् ॥
कोऽद्य मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेति हिडिम्बी च प्रेषिता किमनागता ॥
वैशंपायन उवाच ।
तमापतन्तं दृष्ट्वै तथा विकृतदर्शनम् ।
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥
आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः ।
साऽहं त्वां भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥
अहं कामगमा वीर रक्षोबलसमन्विता ।
आरुहेमां मम श्रोणिं नेष्यामि त्वां विहायसा ॥
प्रबोधयैतान्संसुप्तान्मातरं च परन्तप ।
सर्वानेव गमिष्याभि गृहीत्वा वो विहायसा ॥
भीम उवाच ।
मा भैस्त्वं पृथुसुश्रोणि नैष कश्चिन्मयि स्थिते ।
अहमेनं हनिष्यामि पश्यन्त्यास्ते सुमध्यमे ॥
नायं प्रतिबलो भीरु राक्षसापसदो मम ।
सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ॥
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ।
ऊरू परिघसङ्काशौ संहतं चाप्युरो महत् ॥
विक्रमं मे यथेन्द्रस्य साऽद्य द्रक्ष्यसि शोभने ।
माऽवमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥
हिडिम्बोवाच ।
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् ।
दृष्टप्रभावस्तु मया मानुषेष्वेव राक्षसः ॥
वैशंपायन उवाच ।
तथा संजल्पतस्तस्य भीमसेनस्य भारत ।
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः ।
स्रग्दामपूरितशिखां समग्रेन्दुनिभाननाम् ॥
सुभ्रूनासाक्षिकेशान्तां सुकुमारनखत्वचम् ।
सर्वाभरणसंयुक्तां सुसूक्ष्माम्बरधारिणीम् ॥
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् ।
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ॥
संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम ।
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः ।
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ॥
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि ।
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥
यानिमानाश्रिताऽकार्षीर्विप्रियं समुहन्मम ।
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥
वैशंपायन उवाच ।
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः ।
वधायाभिपपातैनान्दन्तैर्दन्तानुपस्पृशन् ॥
गर्जन्तमेवं विजने भीमसेनोऽभिवीक्ष्य तम् ।
रक्षन्प्रबोधं भ्रातॄणां मातुश्च परवीरहा ॥
तमापतान्तं संप्रेक्ष्य भीमः प्रहरतां वरः ।
भर्त्सयामास तेजस्वी तिष्ठतिष्ठेति चाब्रवीत् ॥
वैशंपायन उवाच ।
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव ।
भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ॥
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः ।
मामासादय दुर्बुद्धे तरसा त्वं नराशन ॥
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि ।
विशेषतोऽनपकृते परेणापकृते सति ॥
न हीयं स्ववशा बाला कामयत्यद्य मामिह ।
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ॥
भगिनी तव दुर्वृत्त रक्षसां वै यशोहर ।
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च ॥
कामयत्यद्य मां भीरुस्तव नैषापराध्यति ।
अनङ्गेन कृते दोषे नेमां गर्हितुमर्हसि ॥
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ।
संगच्छस्व मया सार्धमेकेनैको नराशन ॥
अहमेको गमिष्यामि त्वामद्य यमसादनम् ।
अद्य मद्बलनिष्पिष्टं शिरो राक्षस दीर्यताम् ।
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसाः ॥
अद्य गात्राणि ते कङ्काः श्येना गोमायवस्तथा ।
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ॥
क्षणेनाद्य करिष्येऽहमिदं वनमराक्षसम् ।
पुरा यद्दूषितं नित्यं त्वया भक्षयता नरान् ॥
अद्य त्वां भगिनी रक्षः कृष्यमाणं मयाऽसकृत् ।
द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ॥
निराबाधास्त्वयि हते मया राक्षसपांसन ।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥
हिडिम्ब उवाच ।
गर्जितेन वृथा किं ते कत्थितेन च मानुष ।
कृत्वैतत्कर्मणा सर्वं कत्थेया मा चिरं कृथाः ॥
बलिनं मन्यसे यच्चाप्यात्मानं सपराक्रमम् ।
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ॥
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् ।
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ॥
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि ।
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ॥
वैशंपायन उवाच ।
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः ।
अभ्यद्रवत संक्रुद्धो भीमसेनमरिन्दमम् ॥
तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः ।
वेगेन प्रहितं बाहुं निजग्राह हसन्निव ॥
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह ।
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ॥
ततः स राक्षसः क्रुद्धः पाण्डवेन बलार्दितः ।
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ॥
पुनर्भीमो बलादेनं विचकर्ष महाबलः ।
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति ॥
`हस्ते गृहीत्वा तद्रक्षो दूरमन्यत्र नीतवान् ।
पृच्छे गृहीत्वा तुण्डेन गरुडः पन्नगं यथा ॥'
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा ।
हिडिम्बो भीमसेनश्च विक्रमं चक्रतुः परम् ॥
बभञ्जतुस्तदा वृक्षाँल्लताश्चाकर्षतुस्तदा ।
मत्ताविव चं संरब्धौ वारणौ षष्टिहायनौ ॥
`पादपानुद्धरन्तौ तावूरुवेगेन वेगितौ ।
स्फोटयन्तौ लताजालान्यूरुभ्यां गृह्य सर्वशः ॥
वित्रासयन्तौ तौ शब्दैः सर्वतो मृगपक्षिणः ।
बलेन बलिनौ मत्तावन्योन्यवधकाङ्क्षिणौ ॥
भीमराक्षसयोर्युद्धं तदाऽवर्तत दारुणम् ।
पुरा देवासुरे युद्धे वृत्रवासवयोरिव ॥
भङूक्त्वा वृक्षान्महाशाखांस्ताडयामासतुः क्रुधा ।
सालतालतमालाम्रवटार्जुनविभीतकान् ॥
न्यग्रोधप्लक्षखर्जूरपनसानश्मकण्टकान् ।
एतानन्यान्महावृक्षानुत्खाय तरसाऽखिलान् ॥
उत्क्षिप्यान्योन्यरोषेण ताडयामासतू रणे ।
यदाऽभवद्वनं सर्वं निर्वृक्षं वृक्षसङ्कुलम् ॥
तदा शिलाश्च कुञ्जांश्च वृक्षान्कण्टकिनस्तथा ।
ततस्तौ गिरिशृङ्गाणि पर्वतांश्चाभ्रलेलिहान् ॥
शैलांश्च गण्डपाषाणानुत्खायादाय वैरिणौ ।
चिक्षेपतुरुपर्याजावन्योन्यं विजयेषिणौ ॥
तद्वनं परितः पञ्चयोजनं निर्महीरुहम् ।
निर्लतागुल्मपाषाणं निर्मृगं चक्रतुर्भृशम् ॥
तयोर्युद्धेन राजेन्द्र तद्वनं भीमरक्षसोः ।
मुहूर्तेनाभवत्कूमर्पृष्ठवच्छ्लक्ष्णमव्ययम् ॥
ऊरुबाहुपरिक्लेशात्कर्षन्तावितरेतरम् ।
उत्कर्षन्तौ विकर्षन्तौ प्रकर्षन्तौ परस्परम् ॥
तौ स्वनेन विना राजन्गर्जन्तौ च परस्परम् ।
पाषाणसंघट्टनिभैः प्रहारैरभिजघ्नतुः ॥
अन्योन्यं च समालिङ्ग्य विकर्षन्तौ परस्परम् ।
बाहुयुद्धमभूद्धोरं बलिवासवयोरिव ।
युद्धसंरम्भनिर्गच्छत्फूत्काररवनिस्वनम् ॥'
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः ।
सह मात्रा च ददृशुर्हिडिम्बामग्रतःस्थिताम् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥
1-165-2 मेघसंघातवर्ष्मा अतिकृष्णशरीरः ॥ 1-165-32 गमिष्यामि गमयिष्यामि ॥ 1-165-54 निर्वृक्षं अकण्टकवृक्षरहितम् ॥ पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥