अध्यायः 166
					
					 कुन्तीहिडिम्बासंवादः ॥ 1 ॥ हिडिम्बावार्तया भीमं हिडिम्बेन
						युद्ध्यमानं ज्ञातवतां कुन्त्यादीनां तत्र गमनम् ॥ 2 ॥ हिडिम्बवधः ॥ 3 ॥ 
					
					
						प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् ।
						विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥
					 
					
						ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा ।
						उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शैनः ॥
					 
					
						कस्य त्वं सुरगर्भाभे कावाऽसि वरवर्णिनि ।
						केन कार्येण संप्राप्ता कुतश्चागमनं तव ॥
					 
					
						यदि वाऽस्य वनस्य त्वं देवता यदि वाऽप्सराः ।
						आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥
						हिडिम्बोवाच । 
					 
					
						यदेतत्पश्यसि वनं नीलमेघनिं महत् ।
						निवासो राक्षसस्यैष हिडिम्बस्य ममैव च ॥
					 
					
						तस्य मां राक्षसेन्द्रस्य भगिनीं विद्दि भामिनि ।
						भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥
					 
					
						क्रूरबुद्धेरहं तस्य वचनादागता त्विह ।
						अद्राक्षं नवहेमाभं तव पुत्रं महाबलम् ॥
					 
					
						ततोऽहं सर्वभूतानां भावे विचरता शुभे ।
						चोदिता तव पुत्रार्थं मन्मथेन वशानुगा ॥
					 
					
						ततो वृतो मया भर्ता तव पुत्रो महाबलः ।
						अपनेतुं च यतितो न चैव शकितो मया ॥
					 
					
						चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः ।
						स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥
					 
					
						स तेन मम कान्तेन तव पुत्रेण धीमता ।
						बलादितो विनिष्पिष्य व्यपनीतो महात्मना ॥
					 
					
						विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् ।
						पश्यैवं युधि विक्रान्तावेतौ च नरराक्षसौ ॥
						वैशंपायन उवाच । 
					 
					
						तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः ।
						अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥
					 
					
						तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् ।
						काङ्क्षमाणौ जयं चैव सिंहाविव बलोत्कटौ ॥
					 
					
						अथान्योन्यं समाश्लिष्य विकर्षन्तौ पुनःपुनः ।
						दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥
					 
					
						वसुधारेणुसंवीतौ वसुधाधरसन्निभौ ।
						बभ्राजतुर्यथा शैलौ नीहारेणाभिसंवृतौ ॥
					 
					
						राक्षसेन तदा भीमं क्लिश्यमानं निरीक्ष्य च ।
						उवाचेदं वचः पार्थः प्रहसञ्छनकैरिव ॥
					 
					
						भीम माभैर्महाबाहो न त्वां बुध्यामहे वयम् ।
						समेतं भीमरूपेण रक्षसा श्रमकर्शिताः ॥
					 
					
						साहाय्येऽस्मि स्थितः पार्थ पातयिष्यामि राक्षसम् ।
						नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥
						भीम उवाच । 
					 
					
						उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया ।
						न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥
					 
					
						`भुजयोरन्तरं प्राप्तो भीमसेनस्य राक्षसः ।
						अमृत्वा पार्थवीर्येण मृतो मा भूदिति ध्वनिः ॥
					 
					
						अयमस्मांस्तु नो हन्याज्जातु पार्थ राक्षसः ।
							जीवन्तं न प्रमोक्ष्यामि मा भैषीर्भरतर्षभ ॥'
						
						अर्जुन उवाच । 
					 
					
						`पूर्वरात्रे प्रयुक्तोऽसि भीम क्रूरेण रक्षसा ।
							क्षपा व्युष्टा न चेदानीं समाप्तोसीन्महारणः ॥'
						
					 
					
						किमेनन चिरं भीम जीवता पापरक्षसा ।
						गन्तव्ये न चिरं स्थातुमिह शक्यमरिन्दम ॥
					 
					
						पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते ।
						रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्त्युत ॥
					 
					
						त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् ।
						पुरा विकुरुते मायां भुजयोः सारमर्पय ॥
					 
					
						`माहात्म्यमात्मनो वेत्थ नराणां हितकाम्यया ।
						रक्षो जहि यथा शक्रः पुरा वृत्रं महाबलम् ॥
					 
					
						अथवा मन्यसे भारं त्वमिमं राक्षसं युधि ।
						आतिष्ठे तव साहाय्यं शीघ्रमेव तु हन्यताम् ॥
					 
					
						अथवा त्वहमेवैनं हनिष्यामि वृकोदर ।
							कृतकर्मा परिश्रान्तः साधु तावदुपारम ॥'
						
						वैशंपायन उवाच । 
					 
					
						अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव ।
						बलमाहारयामास यद्वायोर्जगतः क्षये ॥
					 
					
						ततस्तस्याम्बुदाभस्य भीमो रोषात्तु रक्षसः ।
						अत्क्षिप्याभ्रामयद्देहं तूर्णं शतगुणं तदा ॥
					 
					
						`इति चोवाच संक्रुद्धो भ्रामयन्राक्षसीं तनुम् ।
							भीमसेनो महाबाहुरभिगर्जन्मुहुर्मुहुः ॥'
						
						भीम उवाच । 
					 
					
						नरमांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः ।
						वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥
					 
					
						क्षेममद्य करिष्यामि यथा वनमकण्टकम् ।
						न पुनर्मानुषान्हत्वा भक्षयिष्यसि राक्षस ॥
						वैशंपायन उवाच । 
					 
					
						इत्युक्त्वा भीमसेनस्तं निष्पिष्य धरणीतले ।
						बाहुभ्यामवपीड्याशु पशुमारममारयत् ॥
					 
					
						स मार्यमाणो भीमेन ननाद विपुलं स्वनम् ।
						पूरयंस्तद्वनं सर्वं जलार्द्रे इव दुन्दुभिः ॥
					 
					
						बाहुभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः ।
						`समुद्धाम्य शिरश्चास्य सग्रीवं तदपाहरत् ॥
					 
					
						ततो भित्त्वा शिरश्चास्य सग्रीवं तदुदाक्षिपत् ।
						तस्य निष्कर्णनयनं निर्जिह्वं रुधिरोक्षितम् ॥
					 
					
						प्राविद्धं भीमसेनेन शिरो विदशनं बभौ ।
						प्रसारितभुजोद्धृष्टो भिन्नमांसत्वगन्तरः ॥
					 
					
						कबन्धभूतस्तत्रासीद्दनुर्वज्रहतो तथा ।
						हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः ॥
					 
					
						हिडिम्बा सा च संप्रेक्ष्य निहतं राक्षसं रणे ।
						अदृश्याश्चैव ये स्वस्स्थाः समेताः सर्षिचारणाः ॥
					 
					
						पूजयन्ति स्म तं हृष्टाः साधुसाध्विति पाण्डवम् ।
						भ्रातरश्चापि संहृष्टा युधिष्ठिरपुरोगमाः ॥
					 
					
						अपूजयन्नरव्याघ्रं भीमसेनमरिन्दमम् ।'
							अभिपूज्य महात्मानं भीमं भीमपराक्रमम् ।
						
						पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ॥
						
					 
					
						अदूरे नगरं मन्ये वनादस्मादहं विभो ।
						शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥
					 
					
						ततः सर्वे तथेत्युक्त्वा मात्रा सह महारथाः ।
						प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ॥ ॥
					 
					 इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वमि षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥ 
					 1-166-8 भावे चित्ते ॥ 1-166-11 व्यपनीतो दूरे नीतः ॥ 1-166-21 इतिध्वनिर्माभूदिति संबन्धः ॥ 1-166-24 गन्तव्ये सति चिरं स्थातुं न
						शक्यम् ॥ 1-166-28 अथवेति द्वयं प्रोत्साहनार्थं ॥ 1-166-33 वृथामरणं
						स्वर्गाद्यप्रयोजकं मरणम् ॥ षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥