अध्यायः 172
ब्राह्मण प्रति तत्पत्नीवाक्यम् ॥ 1 ॥
ब्राह्मण्युवाच ।
न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् ।
न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ॥
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः ।
अवश्यभाविन्यर्थे वै संतापो नेह विद्यते ॥
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते ।
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र च ॥
एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
प्राणानपि परित्यज्य यद्भर्तुर्हितमाचरेत् ॥
तच्च तत्र कृतं कर्म तवापीदं सुखावहम् ।
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥
एष चैव गुरुर्धर्मो यं प्रवक्ष्याम्यहं तव ।
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते ॥
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि ।
कन्या चैका कुमारश्च कृताहमनृणा त्वया ॥
समर्थः पोषणे चासि सुतयो रक्षणे तथा ।
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥
मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर ।
कथं स्यातां सुतौ बालौ भरेयं च कथं त्वहम् ॥
कथं हि विधवाऽनाथा बालपुत्रा विना त्वया ।
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि ॥
अहं कृतावलेपैश्च प्रार्थ्यमानामिमां सुताम् ।
अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम् ॥
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः ।
प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम् ॥
साऽहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः ।
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम ॥
`स्त्रीजन्म गर्हितं नाथ लोके दुष्टजनाकुले ।
मातापित्रोर्वशे कन्या प्रौढा भर्तृवशे तथा ॥
अभावे चानयोः पुत्रे खतन्त्रा स्त्री विगर्हिता ॥
अनाथत्वं स्त्रियो द्वारं दुष्टानां विवृतं हि तत् ।
वस्त्रखण्डं घृताक्तं हि यथा संकृष्यते श्वभिः ॥'
कथं तव कुलस्यैकमिमं बालमनागसम् ।
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे ॥
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्सितान् ।
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान् ॥
इमामपि च ते बालामनाथां परिभूय माम् ।
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा ॥
तां चेदहं न दित्सेयं सद्गुणैरुपबृंहिताम् ।
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् ॥
संप्रेक्षमाणा पुत्रीं ते नानुरूपमिवात्मनः ।
अनर्हवशमापन्नामिमां चापि सुतां तव ॥
अवज्ञाता च लोकेषु तथान्मानमजानती ।
अवलिप्तैरैर्ब्रह्मन्मरिष्यामि न संशयः ॥
तौ च हीनौ मया बालौ त्वया चैव तथात्मजौ ।
विनश्येतां न सन्देहो मत्स्याविव जलक्षये ॥
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम् ।
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि ॥
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः ।
ननु ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः ॥
`अनिष्टमिह पुत्राणां विषये परिवर्तितुम् ।
हरिद्राञ्जनपुष्पादिसौमङ्गल्ययुता सती ॥
मरणं याति या भर्तुस्तद्दत्तजलपायिनी ।
भर्तृपादार्पितमनाः सा याति गिरिजापदम् ॥
गिराजायाः सखी भूत्वा मोदते नगकन्यया ।
मितं ददाति हि पिता मितं माता मितं सुतः ॥
अमितस्य हि दातारं का पतिं नाभिनन्दति ।
आश्रमाश्चाग्निसंस्कारा जपहोमव्रतानि च ॥
स्त्रीणां नैते विधातव्या विना पतिमनिन्दितम् ।
क्षमा शौचमनाहारमेतावद्विहितं स्त्रियाः ॥'
परित्यक्तः सुतश्चायं दुहितेयं तथा मया ।
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा ।
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः ॥
तदिदं यच्चिकीर्षामि धर्मं परमसंमतम् ।
इष्टं चैव हितं चैव तव चैव कुलस्य च ॥
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।
आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम् ॥
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
दृष्टादृष्टफलार्थं हि भार्या पुत्रो धनं गृहम् ।
सर्वमेतद्विधातव्यं बुधानामेष निश्चयः ॥
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः ।
`उभयोः कोधिको विद्वन्नात्मा चैवाधिकः कुलात् ॥
आत्मनो विद्यमानत्वाद्भुवनानि चतुर्दश ।
विद्यन्ते द्विजशार्दूल आतमा रक्ष्यस्ततस्त्वया ॥
आत्मन्यविद्यमाने चेदस्य नास्तीह किंचन ।
एतज्जगदिदं सर्वमात्मना न समं किल ॥'
स कुरुष्व मया कार्यं तारयात्मानमात्मना ।
अनुजानीही मामार्य सुतौ मे परिपालय ॥
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये ।
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥
निःसंशयं वधः पुंसां स्त्रीणां संशयितो वधः ।
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि ॥
भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया ।
`त्वच्छुश्रूषणसंभूता कीर्तिश्चाप्यतुला मम ।'
त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितं ॥
जातपुत्रा च वृद्धा च प्रियकामा च ते सदा ।
समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥
उत्सृज्यापि हि मामार्य प्राप्स्यस्यन्यामपि स्त्रियम् ।
ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव ॥
न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् ।
स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥
एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् ।
आत्मानं तारयाद्याशु कुलं चेमौ च दारकौ ॥
वैशंपायन उवाच ।
एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत ।
मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥
`मैवं वद त्वं कल्याणि तिष्ठ चेह सुमध्यमे ।
न तु भार्यां त्यजेत्प्राज्ञः पुत्रान्वापि कदाचन ॥
विशेषतः स्त्रियं रक्षेत्पुरुषो बुद्धिमानिह ।
त्यक्त्वा तु पुरुषो जीवेन्न हातव्यानिमान्सदा ।
न वेत्ति कामं धर्मं च अर्थं मोक्षं च तत्त्वतः ॥' ॥
इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥
1-172-1 वैद्यस्य विद्यावनः ॥ 1-172-25 परा व्युष्टिर्महद्भाग्यम् ॥ 1-172-43 त्वत् त्वत्तः प्रसूतिः संततिः । अजीवितम् मरणं ॥ द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥