अध्यायः 183
पाण्डवानां द्रुपदनगरप्रथानम् ॥ 1 ॥
वैशंपायन उवाच ।
एतच्छ्रुत्वा ततः सर्वे पाण्डवा भरतर्षभ ।
मनसा द्रौपदीं जग्मुरनङ्गशरपीडिताः ॥'
ततस्तां रजनीं राजञ्छल्यविद्धा इवाभवन् ।
सर्वे चास्वस्थमनसो बभूवुस्ते महाबलाः ॥
ततः कुन्ती सुतान्दृष्ट्वा सर्वांस्तद्गतचेतसः ।
युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी ॥
चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने ।
रममाणाः पुरे रम्ये लब्धभैक्षा महात्मनः ॥
यानीह रमणीयानि वनान्युपवनानि च ।
सर्वाणि तानि दृष्टानि पुनःपुनररिन्दम ॥
पुनर्दृष्टानि तानीह प्रीणयन्ति न नस्तथा ।
भैक्षं च न तथा वीर लभ्यते कुरुनन्दन ॥
ते वयं साधु पञ्चालान्गच्छाम यदि मन्यसे ।
अपूर्वदर्शनं वीर रमणीयं भविष्यति ॥
सुभिक्षाश्चैव पञ्चालाः श्रूयन्ते शत्रुकर्शन ।
यज्ञसेनश्च राजाऽसौ ब्रह्मण्य इति सुश्रुम ॥
एकत्र चिरवासश्च क्षमो न च मतो मम ।
ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे ॥
युधिष्ठिर उवाच ।
भवत्या यन्मतं कार्यं तदस्माकं परं हितम् ।
अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः ॥
वैशंपायन उवाच ।
ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा ।
उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा ॥
तत आमन्त्र्य तं विप्रं कुन्ती राजसुतैः सह ।
प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः ॥ 183 ॥