अध्यायः 185

पाञ्चालनगरं गच्छतां पाण्डवानां मार्गे ब्राह्मणैः सह संवादः ॥ 1 ॥

वैशंपायन उवाच ।
गते भगवति व्यासे पाण्डवा हृष्टमानसाः ।
`ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः ॥
ब्राह्मणान्गच्छतो पश्यन्पाञ्चालान्सगणान्पथि ।
अथ ते ब्राह्मणा ऊचुः पाण्डवान्ब्रह्मचारिणः ॥
क्व भवन्तो गमिष्यन्ति कुतो वाऽऽगच्छथेति ह ।
युधिष्ठिर उवाच ।
प्रयातानेकचक्रायाः सोदर्यान्देवदर्शिनः ॥
भवन्तो नोऽभिजानन्तु सहितान्ब्रह्मचारिणः ।
गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरं प्रति ॥
इच्छामो भवतो ज्ञातुं परं कौतूहलं हि नः ॥
ब्राह्मणा ऊचुः ।
एते सार्धं प्रयाताः स्मो वयमप्यत्र गामिनः ।
तत्राप्यद्भुतसङ्काश उत्सवो भविता महान् ॥
ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः ।
यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे ॥
दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी ।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः ॥
जातो यः पावकाच्छूरः सशरः सशरासनः ।
सुसमिद्धान्महाभागः सोमकानां महारथः ॥
यस्मिन्संजायमाने हि वागुवाचाशरीरिणी ।
एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते ॥
स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे ।
स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलद्युतिः ॥
तां यज्ञसेनस्य सुतां द्रौपदीं परमां स्त्रियम् ।
गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम् ॥
राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः ।
स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः ॥
तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः ।
महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः ॥
ते तत्र विविधं दानं विजयार्थं नरेश्वराः ।
प्रदास्यन्ति धनं गाश्च भक्ष्यभोज्यानि सर्वशः ॥
प्रतिलप्स्यामहे सर्वं दृष्ट्वा कृष्णां स्वयंवरे ।
यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति ॥
तदा वैतालिकाश्चैव नर्तकाः सूतमागधाः ।
निबोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः ॥
एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च ।
सहास्माभिर्महात्मानो मात्रा सह निवत्स्यथ ॥
दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान् ।
समीक्ष्य कृष्मा वरयेत्संगत्यान्यतमं पतिम् ॥
अयमेकश्च वो भ्राता दर्शनीयो महाभुजः ।
नियुध्यमानो विजयेत्संगत्य द्रविणं महत् ॥
युधिष्ठिर उवाच ।
परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम् । द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम् ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥