अध्यायः 191

वसिष्ठोपाख्याने---विश्वामित्रस्य वसिष्ठाश्रमाभिगमनं ॥ 1 ॥ वसिष्ठेन विश्वामित्रस्यातिथ्यकरणं ॥ 2 ॥ विश्वामित्रेण वसिष्ठधेनुयाचनं ॥ 3 ॥ वसिष्ठेनादत्ताया धेनोः विश्वामित्रेण बलात्कारेण हरणं ॥ 4 ॥ कुपितया नन्दिन्या सृष्टैः म्लेच्छाद्यैः विश्वामित्रपराजयः ॥ 5 ॥ विश्वामित्रस्य तपसा ब्राह्मण्यप्राप्तिः ॥ 6 ॥

अर्जुन उवाच ।
किंनिमित्तमभूद्वैरं विश्वामित्रवसिष्ठयोः ।
वसतोराश्रमे दिव्ये शंस नः सर्वमेव तत् ॥
गन्धर्व उवाच ।
इदं वासिष्ठमाख्यानं पुराणं परिचक्षते ।
पार्थ सर्वेषु लोकेषु यथावत्तन्निबोध मे ॥
कान्यकुब्जे महानासीत्पार्थिवो भरतर्षभ ।
गाधीति विश्रुतो लोके कुशिकस्यात्मसंभवः ॥
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः ।
विश्वामित्र इति ख्यतो बभूव रिपुमर्दनः ॥
स चचार सहामात्यो मृगयां गहने वने ।
मृगान्विध्यन्वराहांश्च रम्येषु मरुधन्वसु ॥
व्यायामकर्शितः सोऽथ मृगलिप्सुः पिपासितः ।
आजगाम नरश्रेष्ठ वसिष्ठस्याश्रमं प्रति ॥
तमागतमभिप्रेक्ष्य वसिष्ठः श्रेष्ठभागृषिः ।
विश्वामित्रं नरश्रेष्ठं प्रतिजग्राह पूजया ॥
पाद्यार्घ्याचमनीचैस्तं स्वागतेन च भारत ।
तथैव परिजग्राह वन्येन हविषा तदा ॥
तस्याथ कामधुग्धेनुर्वसिष्ठस्य महात्मनः ।
उक्ता कामान्प्रयच्छेति सा कामान्दुदुहे ततः ॥
`बाष्पाढ्यस्योदनस्यैव राशयः पर्वतोपमाः ।
निष्ठानानि च सूपांश्च दधिकुल्यास्तथैव च ॥
कूपांश्च घृतसंपूर्णान्गौड्यान्नानि सहस्रशः । इक्षून्मधूनि लाजांश्च मैरेयांश्च वरासवान् ॥'
ग्राम्यारण्याश्चौषधीश्च दुदुहे पय एव च ।
षड्रसं चामृतनिभं रसायनमनुत्तमम् ॥
भोजनीयानि पेयानि भक्ष्याणि विविधानि च ।
लेह्यान्यमृतकल्पानि चोष्याणि च तथार्जुना ॥
रत्नानि च महार्हाणि वासांसि विविधानि च ।
तैः कामैः सर्वसंपूर्णैः पूजितश्च महिपतिः ॥
सामात्यः सबलश्चैव तुतोष स भृशं तदा ।
षडुन्नतां सुपार्श्वोरुं पृथुपञ्चसमावृताम् ॥
मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम् ।
सुवालघिं शङ्कुकर्णां चारुशृङ्गां मनोरमाम् ॥
पुष्टायतशिरोग्रीवां विस्मितः सोऽभिवीक्ष्यताम् ।
अभिनन्द्य स तां राजा नन्दिनीं गाधिनन्दनः ॥
अब्रवीच्च भृशं तुष्टः स राजा तमृषिं तदा ।
अर्बुदेन गवां ब्रह्मन्मम राज्येन वा पुनः ॥
नन्दिनीं संप्रयच्छस्व भुङ्क्ष्व राज्यं महामुने ।
वसिष्ठ उवाच ।
देवतातिथिपित्रर्थं याज्यार्थं च पयस्विनी ॥
अदेया नन्दिनीयं वै राज्येनापि तवानघ ।
विश्वामित्र उवाच ।
`रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः ।'
क्षत्रियोऽहं भवान्विप्रस्तपःस्वाध्यायसाधनः ॥
ब्राह्णेषु कुतो वीर्यं प्रशान्तेषु धृतात्मसु ।
अर्बुदेन गवां यस्त्वं न ददासि ममेप्सितम् ॥
स्वधर्मं न प्रहास्यामि नेष्यामि च बलेन गाम् ।
वसिष्ठ उवाच ।
बलस्थश्चासि राजा च बाहुवीर्यश्च क्षत्रियः ॥
यथेच्छसि तथा क्षिप्रं कुरु मा त्वं विचारय ।
गन्धर्व उवाच ।
एवमुक्तस्तथा पार्थ विश्वामित्रो बलादिव ॥
हंसचन्द्रप्रतीकाशां नन्दिनीं तां जहार गाम् । `सा तदा ह्रियमाणा च विश्वामित्रबलैर्बलात् ।'
कशादण्डप्रणुदिता काल्यमाना इतस्ततः ॥
हंभायमाना कल्याणी वसिष्ठस्याथ नन्दिनी ।
आगम्याभिमुखी पार्थ तस्थौ भगवदुन्मुखी ॥
भृशं च ताड्यमाना वै न जगामाश्रमात्ततः ।
वसिष्ठ उवाच ।
शृणोमि ते रवं भद्रे विनदन्त्याः पुनः पुनः ॥
ह्रियसे त्वं बलाद्भद्रे विश्वामित्रेण नन्दिनि । किं कर्तव्यं मया तत्र क्षमावान्ब्राह्मणो ह्यहम् ।
गन्धर्व उवाच ।
सा भयान्नन्दिनी तेषां बलानां भरतर्षभ ।
विश्वामित्रभयोद्विग्ना वसिष्ठं समुपागमत् ॥
गौरुवाच ।
कशाग्रदण्डाभिहतां क्रोशन्तीं मामनाथवत् ।
विश्वामित्रबलैर्घोरैर्भगवन् किमुपेक्षसे ॥
गन्धर्व उवाच ।
एवं तस्यां तदा पार्थ धर्षितायां महामुनिः ।
न चुक्षुभे तदा धैर्यान्न चचाल धृतव्रतः ॥
वसिष्ठ उवाच ।
क्षत्रियाणां बलं तेजो ब्राह्मणानां क्षमा बलम् ।
क्षमा मां भजते यस्माद्गम्यतां यदि रोचते ॥
नन्दिन्युवाच ।
किं नु त्यक्ताऽस्मि भगवन्यदेवं त्वं प्रभाषसे ।
अत्यक्ताऽहं त्वया ब्रह्मन्नेतुं शक्या न वै बलात् ॥
वसिष्ठ उवाच ।
न त्वां त्यजामि कल्याणि स्थीयतां यदि शक्यते ।
दृढेन दाम्ना बद्ध्वैष वत्सस्ते हियते बलात् ॥
गन्धर्व उवाच ।
स्थीयतामिति तच्छ्रुत्वा वसिष्ठस्य पयस्विनी ।
ऊर्ध्वाञ्चितशिरोग्रीवा प्रबभौ रौद्रदर्शना ॥
क्रोधरक्तेक्षणा सा गौर्हंभारवघनस्वना ।
विश्वामित्रस्य तत्सैन्यं व्यद्रावयत सर्वशः ॥
कशाग्रदण्डाभिहता काल्यमाना ततस्ततः ।
क्रोधरक्तेक्षणा क्रोधं भूय एव समाददे ॥
आदित्य इव मध्याह्ने क्रोधदीप्तवपुर्बभौ ।
अङ्गारवर्षं मुञ्चन्ती मुहुर्वालधितो महत् ॥
असृजत्पह्लवान्पुच्छात्प्रस्रवाद्द्राविडाञ्छकान् ।
योनिदेशाच्च यवानाञ्शकृतः शबरान्बहून् ॥
मूत्रतश्चासृजत्कांश्चिच्छबरांश्चैव पार्श्वतः ।
पौण्ड्रान्किरातान्यवनान्सिंहलान्बर्बरान्खसान् ॥
चिबुकांश्च पुलिन्दांश्च चीनान्हूणान्सकेरलान् ।
ससर्ज फेनतः सा गौर्म्लेच्छान्बहुविधानपि ॥
तैर्विसृष्टैर्महासैन्यैर्नानाम्लेच्छगणैस्तदा ।
नानावरणसंछन्नैर्नानायुधधरैस्तथा ॥
अवाकीर्यत संरब्धैर्विश्वामित्रस्य पश्यतः ।
एकैकश्च तदा योधः पञ्चभिः सप्तभिर्वृतः ॥
अस्त्रवर्षेण महता वध्यमानं बलं तदा ।
प्रभग्नं सर्वतस्त्रस्तं विश्वामित्रस्य पश्यतः ॥
`तस्य तच्चतुरङ्गं वै बलं परमदुःसहम् । प्रभग्नं सर्वतो घोरं पयस्विन्या विनिर्जितम् ॥'
न च प्राणैर्वियुज्यन्ते केचित्तत्रास्य सैनिकाः ।
विश्वामित्रस्य संक्रुद्धैर्वासिष्ठैर्भरतर्षभ ॥
सा गौस्तत्सकलं सैन्यं कालयामास दूरतः ।
विश्वामित्रस्य तत्सैन्यं काल्यमानं त्रियोजनम् ॥
क्रोशमानं भयोद्विग्नं त्रातारं नाध्यगच्छत ।
`विश्वामित्रस्ततो दृष्ट्वा क्रोधाविष्टः स रोदसी ॥
ववर्ष शरवर्षाणि वसिष्ठे मुनिसत्तमे ।
घोररूपांश्च नाराचान्क्षुरान्भल्लान्महामुनिः ॥
विश्वामित्रप्रयुक्तांस्तान्वैणवेन व्यमोचयत् ।
वसिष्ठस्य तदा दृष्ट्वा कर्मकौशलमाहवे ॥
विश्वामित्रोऽपि कोपेन भूयः शत्रुनिपातनः ।
दिव्यास्त्रवर्षं तस्मै स प्राहिणोन्मुनये रुषा ॥
आग्नेयं वारुणं चैन्द्रं याम्यं वायव्यमेव च ।
विससर्ज महाभागे वसिष्ठे ब्रह्मणः सुते ॥
अस्त्राणि सर्वतो ज्वालां विसृजन्ति प्रपेदिरे ।
युगान्तसमये घोराः पतङ्गस्येव रश्मयः ॥
वसिष्ठोऽपि महातेजा ब्रह्मशक्तिप्रयुक्तया ।
यष्ट्या निवारयामास सर्वाण्यस्त्राणि स स्मयन् ॥
ततस्ते भस्मसाद्भूताः पतन्ति स्म महीतले ।
अपोह्य दिव्यान्यस्त्राणि वसिष्ठो वाक्यमब्रवीत् ॥
निर्जितोऽसि महाराज दुरात्मन्गाधिनन्दन ।
यदि तेऽस्ति परं शौर्यं तद्दर्शय मयि स्थिते ॥
गन्धर्व उवाच ।
विश्वामित्रस्तथा चोक्तो वसिष्ठेन नराधिपः ।
नोवाच किंचिद्व्रीडाढ्यो विद्रावितमहाबलः' ॥
दृष्ट्वा तन्महदाश्चर्यं ब्रह्मतेजोभवं तदा । विश्वामित्रः क्षत्रभावान्निर्विण्णो वाक्यमब्रवीत् ।
धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम् ॥
बलाबले विनिश्चित्य तप एव परं बलम् ।
गन्धर्व उवाच ।
स राज्यं स्फीतमुत्सृज्य तां च दीप्तां नृपश्रियम् ॥
भोगांश्च पृष्ठतः कृत्वा तपस्येव मनो दधे ।
स गत्वा तपसा सिद्धिं लोकान्विष्टभ्य तेजसा ॥
तताप सर्वान्दीप्तौजा ब्राह्मणत्वमवाप्तवान् ।
अपिबच्च ततः सोममिन्द्रेण सह कौशिकः ॥
`एवंवीर्यस्तु राजर्षिर्विप्रर्षिः संबभूव ह' ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वमि एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥

1-191-5 मरुधन्वसु मरुसंज्ञकेष्वल्पजलप्रदेशेषु ॥ 1-191-38 पह्लवादयो म्लेच्छविशेषाः ॥ एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥