अध्यायः 192

कल्माषपादराजोपाख्याने---वसिष्ठपुत्रेण शक्तिना कल्माषपादं प्रति शापदानं ॥ 1 ॥ पुनरन्येन ब्राह्मणेन च कल्माषपादंप्रति शापदानं ॥ 2 ॥ राक्षसाविष्टेन कल्माषपादेन वसिष्ठपुत्राणां भक्षणं ॥ 3 ॥ पुत्रशोकाभिसंतप्तेन वसिष्ठेन प्राणत्यागार्थं अनेकधा प्रयतनम् ॥ 4 ॥

`अर्जुन उवाच ।
ऋष्योस्तु यत्कृते वैरं विश्वामित्रवसिष्ठयोः ।
बभूव गन्धर्वपते शंस तत्सर्वमेव मे ॥
माहात्म्यं च वसिष्ठस्य ब्राह्मण्यं ब्रह्मतेजसः ।
विश्वामित्रस्य च तथा क्षत्रस्य च महात्मनः ॥
न शृण्वानस्त्वहं तृप्तिमुपगच्छामि खेचर ।
आख्याहि गन्धर्वपते शंस तत्सर्वमेव मे ॥
माहात्म्यं च वसिष्ठस्य विश्वामित्रस्य भाषते ॥
गन्धर्व उवाच ।
इदं वासिष्ठमाख्यानं पुराणं पुण्यमुत्तमम् । पार्थ सर्वेषु लोकेषु विश्रुतं तन्निबोध मे ॥'
कल्माषपाद इत्येवं लोके राजा बभूव ह ।
इक्ष्वाकुवंशजः पार्थ तेजसाऽसदृशो भुवि ॥
स कदाचिद्वनं राजा मृगयां निर्ययौ पुरात् ।
मृगान्विध्यन्वराहांश्च चचार रिपुमर्दनः ॥
तस्मिन्वने महाघोरे खङ्गांश्च बहुशोऽहनत् ।
हत्वा च सुचिरं श्रान्तो राजा निववृते ततः ॥
अकामयत्तं याज्यार्थे विश्वामित्रः प्रतापवान् ।
स तु राजा महात्मानं वासिष्ठमृषिसत्तमम् ॥
तृषार्तश्च क्षुधार्तश्च एकायनगतः पथि ।
अपश्यदजितः सङ्ख्ये मुनिं प्रतिमुखागतम् ॥
शक्तिं नाम महाभागं वसिष्ठकुलवर्धनम् ।
ज्येष्ठं पुत्रं पुत्रशताद्वसिष्ठस्य महात्मनः ॥
अपगच्छ पथोऽस्माकमित्येवं पार्थिवोऽब्रवीत् ।
तथा ऋषिरुवाचैनं सान्त्वयञ्श्लक्ष्णया गिरा ॥
मम पन्था महाराज धर्म एष सनातनः ।
`वृद्धभीरुनृपस्नातस्त्रीरोगिवरचक्रिणाम् ॥
पन्था देयो नृपैस्तेषामन्यैस्तैस्तस्य भूपतेः ।' राज्ञा सर्वेषा धर्मेषु देयः पन्था द्विजातये ॥
एवं परस्परं तौ तु पथोऽर्थं वाक्यमूचतुः ।
अपसर्पापसर्पेति वागुत्तरमकुर्वताम् ॥
ऋषिस्तु नापचक्राम तस्मिन्धर्मपथे स्थितः । `अपि राजा मुनेर्मार्गात्क्रोधान्नापजगाम ह ॥'
अमुञ्चन्तं तु पन्थानं तमृषिं नृपसत्तमः ।
जगाम कशया मोहात्तदा राक्षसन्मुनिम् ॥
कशाप्रहाराभिहतस्ततः स मुनिसत्तमः ।
तं शशाप नृपश्रेष्ठं वासिष्ठः क्रोधमूर्च्छितः ॥
हंसि राक्षसवद्यस्माद्राजापशद तापसम् ।
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यसि ॥
मनुष्यपिशिते सक्तश्चरिष्यसि महीमिमाम् ।
गच्छ राजाधमेत्युक्तः शक्तिना वीर्यशक्तिना ॥
ततो याज्यनिमित्तं तु विश्वामित्रवसिष्ठयोः ।
वैरमासीत्तदा तं तु विश्वामित्रोऽन्वपद्यत ॥
तयोर्विवदतोरेवं समीपमुपचक्रमे ।
ऋषिरुग्रतपाः पार्थ विश्वामित्रः प्रतापवान् ॥
ततः स बुबुधे पश्चात्तमृषिं नृपसत्तमः ।
ऋषेः पुत्रं वसिष्ठस्य वसिष्ठमिव तेजसा ॥
अन्तर्धाय ततोऽत्मानं विश्वामित्रोऽपि भारत ।
तावुभावतिचक्राम चिकीर्षन्नात्मनः प्रियम् ॥
स तु शप्तस्तदा तेन शक्तिना वै नृपोत्तमः ।
जगाम शरणं शक्तिं प्रसादयितुमर्हयन् ॥
तस्य भावं विदित्वा स नृपतेः कुरुसत्तम ।
विश्वामित्रस्ततो रक्ष आदिदेश नृपं प्रति ॥
शापात्तस्य तु विप्रर्षेर्विश्वामित्रस्य चाज्ञया ।
राक्षसः किङ्करो नाम विवेश नृपतिं तदा ॥
रक्षसा तं गृहीतं तु विदित्वा मुनिसत्तमः ।
विश्वामित्रोऽप्यपाक्रामत्तस्माद्देशादरिन्दम ॥
ततः स नृपतिर्विद्वान्रक्षन्नात्मानमात्मना ।
बलवत्पीड्यमानोऽपि रक्षसान्तर्गतेन ह ॥
ददर्शाथ द्विजः कश्चिद्राजानं प्रस्थितं वनम् ।
अयाचत क्षुधापन्नः समांसं भोजनं तदा ॥
तमुवाचाथ राजर्षिर्द्विजं मित्रसहस्तदा ।
आस्स्व ब्रह्मंस्त्वमत्रैव मुहूर्तं प्रतिपालयन् ॥
निवृत्तः प्रतिदास्यामि भोजनं ते यथेप्सितम् ।
इत्युक्त्वा प्रययौ राजा तस्थौ च द्विजसत्तमः ॥
ततो राजा परिक्रम्य यथाकामं यथासुखम् ।
निवृत्तोऽन्तःपुरं पार्थ प्रविवेश महामनाः ॥
`अन्तर्गतस्तदा राजा श्रुत्वा ब्राह्मणभाषितम् । सोऽन्तःपुरं प्रविश्याथ न सस्मार नराधिपः ॥'
ततोऽर्धरात्र उत्थाय सूदमानाय्य सत्वरम् ।
उवाच राजा संस्मृत्य ब्राह्मणस्य प्रतिश्रुतम् ॥
गच्छामुष्मिन्वनोद्देशे ब्राह्मणो मां प्रतीक्षते ।
अन्नार्थी तं त्वमन्नेन समांसेनोपपादय ॥
गन्धर्व उवाच ।
एवमुक्तस्ततः सूदः सोऽनासाद्यामिषं क्वचित् ।
निवेदयामास तदा तस्मै राज्ञे व्यथान्वितः ॥
राजा तु रक्षसाविष्टः सूदमाह गतव्यथः ।
अप्येनं नरमांसेन भोजयेति पुनः पुनः ॥
तथेत्युक्त्वा ततः सूदः संस्थानं वध्यघातिनाम् ।
गत्वाऽऽजहार त्वरितो नरमांसमपेतभीः ॥
एतत्संस्कृत्य विधिवदन्नोपहितमाशु वै ।
तस्मै प्रादाद्ब्राह्मणाय क्षुधिताय तपस्विने ॥
स सिद्धचक्षुषा दृष्ट्वा तदन्नं द्विजसत्तमः ।
अभोज्यमिदमित्याह क्रोधपर्याकुलेक्षणः ॥
ब्राह्मण उवाच ।
यस्मादभोज्यमन्नं मे ददाति स नृपाधमः ॥
सक्तो मानुषमांसेषु यथोक्तः शक्तिना पुरा ।
उद्वेजनीयो भूतानां चरिष्यति महीमिमाम् ॥
गन्धर्व उवाच ।
द्विरनुव्याहृते राज्ञः स शापो बलवानभूत् ।
रक्षोबलसमाविष्टो विसंज्ञश्चाभवन्नृपः ॥
ततः स नृपतिश्रेष्ठो रक्षसापहृतेन्द्रियः ।
उवाच शख्तिं तं दृष्ट्वा न चिरादिव भारत ॥
यस्मादसदृशः शापः प्रयुक्तोऽयं मयि त्वया ।
तस्मात्त्वत्तः प्रवर्तिष्ये खादितुं पुरुषानहम् ॥
एवमुक्त्वा ततः सद्यस्तं प्राणैर्विप्रयोज्य च ।
शक्तिं तं भक्षयामास व्याघ्रः पशुमिवेप्सितम् ॥
शक्तिनं तु मृतं दृष्ट्वा विश्वामित्रः पुनःपुनः ।
वसिष्ठस्यैव पुत्रेषु तद्रक्षः संदिदेश ह ॥
स ताञ्शक्त्यवरान्पुत्रान्वसिष्ठस्य महात्मनः ।
भक्षयामास संक्रुद्धः सिंहः क्षुद्रमृगानिव ॥
वसिष्ठो घातिताञ्श्रुत्वा विश्वामित्रेण तान्सुतान् ।
धारयामास तं शोकं महाद्रिरिव मेदिनीम् ॥
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः ।
न त्वेव कौशिकोच्छेदं मेने मतिमतां वरः ॥
स मेरुकूटादात्मानं मुमोच भगवानृषिः ।
गिरेस्तस्य शिलायां तु तूलराशाविवापतत् ॥
न ममार च पातेन स यदा तेन पाण्डव ।
तदाग्निमिद्धं भगवान्संविवेश महावने ॥
तं तदा सुसमिद्धोऽपि न ददाह हुताशनः ।
दीप्यमानोऽप्यमित्रघ्न शीतोऽग्निरभवत्ततः ॥
स समुद्रमभिप्रेक्ष्य शोकाविष्टो महामुनिः ।
बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तदाम्भसि ॥
स समुद्रोर्मिवेगेन स्थले न्यस्तो महामुनिः । न ममार यदा विप्रः कथंचित्संशितव्रतः ।
जगाम स ततः खिन्नः पुनरेवाश्रमं प्रति ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥

1-192-9 याज्यार्थे अयं मम याज्यो भवत्वित्येतदर्थम् ॥ 1-192-10 एकायनगतः अतिसंकुचितमार्गे गतः ॥ 1-192-52 मुमोच पातयामास । आत्मानं देहम् ॥ द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥