अध्यायः 197

वसिष्ठवाक्येन लोकविनाशान्निवृत्तेन पराशरेण राक्षसनाशार्थं यज्ञारम्भः ॥ 1 ॥ पुलस्त्यप्रार्थनया पराशरेण यज्ञसमापनम् ॥ 2 ॥

गन्धर्व उवाच ।
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना ।
न्ययच्छदात्मनः क्रोधं सर्वलोकपराभवात् ॥
ईजे च स महातेजाः सर्ववेदविदां वरः ।
ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः ॥
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः ।
ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन् ॥
न हि तं वारयामास वसिष्ठो रक्षसां वधात् ।
द्वितीयामस्य मां भाङ्क्षं प्रतिज्ञामिति निश्चयात् ॥
त्रयाणां पावकानां च सत्रे तस्मिन्महामुनिः ।
आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः ॥
तेन यज्ञेन शुभ्रेण हूयमानेन शक्तितः ।
तद्विदीपितमाकाशं सूर्येणेव घनात्यये ॥
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे ।
तेजसा दीप्यमानं वै द्वितीयमिव भास्करम् ॥
ततः परमदुष्प्रापमन्यैर्ऋषिरुधारधीः ।
समापिपयिषुः सत्रं तमत्रिः समुपागमत् ॥
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुः ।
तत्राजग्मुरमित्रघ्न रक्षसां जीवितेप्सया ॥
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ ।
उवाचेदं वचः पार्थ पराशरमरिन्दमम् ॥
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक ।
अजानतामदोषाणां सर्वेषां रक्षसां वधात् ॥
प्रजोच्छेदमिमं मह्यं न हि कर्तु त्वमर्हसि ।
नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम् ॥
शम एव परो धर्मस्तमाचर पराशर ।
अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर ॥
शक्तिं चापि हि धर्मज्ञं नातिक्रान्तुमिहार्हसि ।
प्रजायाश्च ममोच्छेदं न चैवं कर्तुमर्हसि ॥
शापाद्धि शक्तेर्वासिष्ठ तदा तदुपपादितम् ।
आत्मजेन स दोषेण शक्तिर्नीत इतो दिवम् ॥
न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने । `वासिष्ठो भक्षितश्चासीत्कौशिकोत्सृष्टरक्षसा ।
शापं न कुर्वन्ति तदा न च त्राणपरायणाः ॥
क्षमावन्तोऽदहन्देहं देहमन्यद्भवत्विति ।' आत्मनैवात्मनस्तेन दृष्टो मृत्युस्तदाऽभवत् ॥
निमित्तभूतस्तत्रासीद्विश्वामित्रः पराशर ।
राजा कल्माषपादश्च दिवमारुह्य मोदते ॥
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुने ।
ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः ॥
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने ।
रक्षसां च समुच्छेद एष तात तपस्विनाम् ॥
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन ।
तत्सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते ॥
गन्धर्व उवाच ।
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता ।
तदा समापयामास सत्रं शाक्तो महामुनिः ॥
सर्वराक्षससत्राय संभृतं पावकं तदा ।
उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥
स तत्राद्यापि रक्षांसि वृक्षानश्मन एव च ।
भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥

1-197-4 माभाङ्क्षे न नाशयेयम् ॥ 1-197-12 मद्यं मम ॥ सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥