अध्यायः 206

भीमार्जुनाश्यां द्रौपद्याः भिक्षेत्यावेदने कुन्त्या पञ्चानां सह भोजनानुज्ञा ॥ 1 ॥ पश्चात् द्रौपदीदर्शनेन चिन्तान्वितायां कुन्त्यां युधिष्ठिरार्जुनयोः संवादः ॥ 2 ॥ द्वैपायनवचःस्मरणेन सर्वेषां द्रौपदी भार्येति युधिष्ठिरनिश्चयः ॥ 3 ॥ जनमेजयेन कृष्णस्य कार्मुकानारोपणे कारणप्रश्ने पाण्डवार्थमिति वैशंपायनस्योत्तरम् ॥ 4 ॥ कुलालशालांप्रति श्रीकृष्णस्यागमनम् ॥ 5 ॥

वैशंपायन उवाच ।
गत्वा तु तां भार्गवकर्मशालां पार्थौ पृथां प्राप्य महानुभावौ ।
तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ ॥
कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे ।
पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां कष्टं मया भाषितमित्युवाच ॥
साऽधर्मभीता परिचिन्तयन्ती तां याज्ञसेनीं परमप्रतीताम् ।
पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम् ॥
कुन्त्युवाच ।
इयं तु कन्या द्रुपदस्य राज्ञ- स्तवानुजाभ्यां मयि संनिसृष्टा ।
यथोचितं पुत्र मयाऽपि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात् ॥
मया कथं नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि ।
पञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च ॥
वैशंपायन उवाच ।
स एवमुक्तो मतिमान्नृवीरो मात्रा मुहूर्तं तु विचिन्त्य राजा ।
कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे ॥
त्वया जिता फाल्गुन याज्ञसेनी त्वयैव शोभिष्यति राजपुत्री ।
प्रज्वाल्यतामग्निरमित्रसाह गृहाण पाणिं विधिवत्त्वमस्याः ॥
अर्जुन उवाच ।
मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मोऽयमशिष्टदृष्टः ।
भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा ॥
अहं ततो नकुलोऽनन्तरं मे पश्चादयं सहदेवस्तरस्वी ।
वृकोदरोऽहं च यमौ च राज- न्नियं च कन्या भवतो नियोज्याः ॥
एवं गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तद्विचिन्त्य ।
पाञ्चालराजस्य हितं च यत्स्या- त्प्रशाधि सर्वे स्म वशे स्थितास्ते ॥
वैशंपायन उवाच ।
जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम् ।
दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः ॥
दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम् ।
संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन् ॥
तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम् ।
संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः ॥
काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम् ।
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम् ॥
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः ॥
अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः ।
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा ॥
`जनमेजय उवाच ।
सताऽपि शक्तेन च केशवेन सज्यं धनुस्तन्न कृतं किमर्थम् ।
विद्धं च लक्ष्यं न च कस्य हेतो- राचक्ष्व तन्मे द्विपदां वरिष्ठ ॥
वैशंपायन उवाच ।
शक्तेन कृष्णेन च कार्मुकं त- न्नारोपितं ज्ञातुकामेन पार्थान् ।
परिश्रवादेव बभूव लोके जीवन्ति पार्था इति निश्चयोऽस्य ॥
अन्यानशक्तान्नृपतीन्समीक्ष्य स्वयंवरे कार्मुकेणोत्तमेन ।
धनञ्जयस्तद्धनुरेकवीरः सज्यं करोतीत्यभिवीक्ष्य कृष्णः ॥
इति स्वयं वासुदेवो विचिन्त्य पार्थान्विवित्सन्विविधैरुपायैः ।
न तद्धनुः सज्यमियेप कर्तुं बभूवुरस्येष्टतमा हि पार्थाः ॥'
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् ।
तमेवार्थं ध्यायमाना मनोभिः सर्वे च ते तस्थुरदीनसत्वाः ॥
वृष्णिप्रवीरस्तु कुरुप्रवीरा- नाशंसमानः सहरौहिणेयः ।
जगाम तां भार्गवकर्मशालां यत्रासते ते पुरुषप्रवीराः ॥
तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः ।
अजातशत्रुं परिवार्य तांश्चा- प्युपोपविष्टाञ्ज्वलनप्रकाशान् ॥
ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम् ।
कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः ॥
तथैव तस्याप्यनु रौहिणेय- स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन ।
पितृष्वसुश्चापि यदुप्रवीरा- वगृह्णतां भारतमुख्य पादौ ॥
अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं विलोक्य ।
कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताश्च सर्वे ॥
तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन् ।
तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु ॥
दिष्ट्या सर्वे पावकाद्विप्रमुक्ता यूयं घोरात्पाण्डवाः शत्रुसाहाः ।
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत् ॥
भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलना इवैधमानाः ।
मा वो विद्युः पार्थिवाः केचिदेव यास्यावहे शिबिरायैव तावत् । सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः
प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि स्वयंवरपर्वणि षडधिकद्विशततमोऽध्यायः ॥ 206 ॥

1-206-12 दृष्ट्वा ते तत्र तिष्ठन्ती इति ङ. पाठः ॥ 1-206-29 यद्भद्रं गुहायां बुद्धौ वो निहितं तद्वोस्तु ॥ षडधिकद्विशततमोऽध्यायः ॥ 206 ॥