अध्यायः 214
पञ्चे उपाख्यानप्रारम्भः ॥ 1 ॥ नैमिशारण्ये देवैरारब्धे सत्रे
यमस्य शामित्रकर्मणि व्यापृतत्वात् लोके प्रजाबाहुल्यं दृष्ट्वा
तत्परिजिहीर्षया देवैर्ब्रह्मसमीपगमनम् ॥ 2 ॥ ब्रह्माज्ञया पुनर्नैमिशारण्यं
गतस्य गङ्गायां पुण्डरीकं दृष्ट्वा तज्जिहीर्षया गतस्य इन्द्रस्य तत्र रुदन्ताः
स्त्रियाः दर्शनम् ॥ 3 ॥ तामनुगच्छतेन्द्रेण पर्वतविवरे पूर्वेषां चतुर्णां
इन्द्राणां दर्शनम् ॥ 4 ॥ बलरामकेशवद्रौपद्यादीनामुत्पत्तिकथा ॥ 5 ॥
व्यासदत्तदिव्यदृष्टेर्द्रुपदस्य पाण्डवद्रौपदीपूर्वरूपदर्शनं ॥ 6 ॥ द्रौपद्या
अव्यवहितपूर्वजन्मवृत्तान्तकथनम् ॥ 7 ॥
पुरा वै नैमिशारण्ये देवाः सत्रमुपासते ।
तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा ॥
ततो यमो दीक्षितस्तत्र राज-
न्नामारयत्कंचिदपि प्रजानाम् ।
ततः प्रजास्ता बहुला बभूवुः
कालातिपातान्मरणप्रहीणाः ॥
सोमश्च शक्रो वरुणः कुबेरः
साध्या रुद्रा वसवोऽथाश्विनौ च ।
प्रजापतिर्भुवनस्य प्रणेता
समाजग्मुस्तत्र देवास्तथाऽन्ये ॥
ततोऽब्रुवँल्लोकगुरुं समेता
भयात्तीव्रान्मानुषाणां विवृद्ध्या ।
तस्माद्भयादुद्विजन्तः सुखेप्सवः
प्रयाम सर्वे शरणं भवन्तम् ॥
पितामह उवाच ।
किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः ।
मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति ॥
देवा ऊचुः ।
मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन ।
अविशेषादुद्विजन्तो विशेषार्थमिहागताः ॥
श्रीभगवानुवाच ।
वैवस्वतो व्यापृतः सत्रहेतो-
स्तेन त्विमे न म्रियन्ते मनुष्याः ।
तस्मिन्नेकाग्रे कृतसर्वकार्ये
तत एषां भवितैवान्तकालः ॥
वैवस्वतस्यैव तनुर्विभक्ता
वीर्येण युष्माकमुत प्रवृद्धा ।
सैषामन्तो भविता ह्यन्तकाले
न तत्र वीर्यं भविता नरेषु ॥
व्यास उवाच ।
ततस्तु ते पूर्वजदेववाक्यं
श्रुत्वा जग्मुर्यत्र देवा यजन्ते ।
समासीनास्ते समेता महाबला
भागीरथ्यां ददृशुः पुण्डरीकम् ॥
दृष्ट्वा च तद्विस्मितास्ते बभूवु-
स्तेषामिन्द्रस्तत्र शूरो जगाम ।
सोऽपश्यद्योषामथ पावकप्रभां
यत्र देवी गङ्गा सततं प्रसूता ॥
सा तत्र योषा रुदती जलार्थिनी
गङ्गां देवीं व्यवगाह्य व्यतिष्ठत् ।
तस्याश्रुबिन्दुः पतितो जले य-
स्तत्पद्ममासीदथ तत्र काञ्चनम् ॥
तदद्भुतं प्रेक्ष्य वज्री तदानी-
मपृच्छत्तां योषितमन्तिकाद्वै ।
का त्वं भद्रे रोदिषि कस्य हेतो-
र्वाक्यं तथ्यं कामयेऽहं ब्रवीहि ॥
स्त्र्युवाच ।
त्वं वेत्स्यसे मामिह याऽस्मि शक्र
यदर्थं चाहं रोदिमि मन्दभाग्या ।
आगच्छ राजन्पुरतो गमिष्ये
द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम् ॥
व्यास उवाच ।
तां गच्छन्तीमन्वगच्छत्तदानीं
सोऽपश्यदारात्तरुणं दर्शनीयम् ।
सिद्धासनस्थं युवतीसहायं
क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि ॥
तमब्रवीद्देवराजो ममेदं
त्वं विद्धि विद्वन्भुवनं वशे स्थितम् ।
ईशोऽहस्मीति समन्युरब्रवी-
द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम् ॥
क्रुद्धं च शक्रं प्रसमीक्ष्य देवो
जहाय शक्रं च शैरुदैक्षत ।
संस्तम्भितोऽभूदथ देवराज-
स्तेनेक्षितः स्थाणुरिवावतस्थे ॥
यदा तु पर्याप्तमिहास्य क्रीडया
तदा देवीं रुदतीं तामुवाच ।
आनीयतामेष यतोऽहमारा-
न्नैनं दर्पः पुनरप्याविशेत ॥
ततः शक्रः स्पृष्टमात्रस्तया तु
स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम् ।
तमब्रवीद्भगवानुग्रतेजा
मैवं पुनः शक्र कृथाः कथंचित् ॥
निवर्तयैनं च महाद्रिराजं
बलं च वीर्यं च तवाप्रमेयम् ।
छिद्रस्य चैवाविश मध्यमस्य
यत्रासते त्वद्विधाः सूर्यभासः ॥
स तद्विवृत्य विवरं महागिरे-
स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श ।
स तानभिप्रेक्ष्य बभूव दुःखितः
कच्चिन्नाहं भविता वै यथेमे ॥
ततो देवो गिरिशो वज्रपाणिं
विवृत्य नेत्रे कुपितोऽभ्युवाच ।
दरीमेतां प्रविश त्वं शतक्रतो
यन्मां बाल्यादवमंस्थाः पुरस्तात् ॥
उक्तस्त्वेवं विभुना देवराजः
प्रावेपताऽऽर्तो भृशमेवाभिषङ्गात् ।
स्रस्तैरङ्गैरनिलेनेव नुन्न-
मश्वत्थपत्रं गिरिराजमूर्ध्नि ॥
स प्राञ्जलिर्वै वृषवाहनेन
प्रवेपमानः सहसैवमुक्तः ।
उवाच देवं बहुरूपमुग्र-
मद्याशेषस्य भुवनस्य त्वं भवाद्यः ॥
तमब्रवीदुग्रवर्चाः प्रहस्य
नैवंशीलाः शेषमिहाप्नुवन्ति ।
एतेऽप्येवं भवितारः पुरस्ता-
त्तस्मादेतां दरीमाविश्य शेष्य ॥
एषा भार्या भविता वो न संशयो
योनिं सर्वे मानुषीमाविशध्वम् ।
तत्र यूयं कर्म कृत्वाऽविषह्यं
बहूनन्यान्निधनं प्रापयित्वा ॥
`अस्त्रैर्दिव्यैर्मानुषान्योधयित्वा
शूरान्सर्वानाहवे संविजित्य ।'
आगन्तारः पुनरेवेन्द्रवलोकं
स्वकर्मणा पूर्वचितं महार्हम् ।
सर्वं मया भाषितमेतदेवं
कर्तव्यमन्यद्विविधार्थयुक्तम् ॥
पूर्वेन्द्रा ऊचुः ।
गमिष्यामो मानुषं देवलोका-
द्दुराधरो विहितो यत्र मोक्षः ।
देवास्त्वस्मानादधीरञ्जनन्यां
धर्मो वायुर्मघवानश्विनौ च ॥
व्यास उवाच ।
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु
देवश्रेष्ठं पुनरेवेदमाह ।
वीर्येणाहं पुरुषं कार्यहेतो-
र्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥
विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान् ।
शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः ॥
तेषां कामं भगवानुग्रधन्वा
प्रादादिष्टं सन्निसर्गाद्यथोक्तम् ।
तां चाप्येषां योषितं लोककान्तां
श्रियं भार्यां व्यदधान्मानुषेषु ॥
तैरेव सार्धं तु ततः स देवो
जगाम नारायणमप्रमेयम् ।
अनन्तमव्यक्तमजं पुराणं
सनातनं विश्वमनन्तरूपम् ॥
स चापि तद्व्यदधात्सर्वमेव
ततः सर्वे संबभूवुर्धरण्यमाम् ।
`नरं तु देवं विबुधप्रधान-
मिन्द्राज्जिष्णुं पञ्चमं कल्पयित्वा ।'
स चापि केशौ हरिरुद्बबर्ह
शुक्लमेकमपरं चापि कृष्णम् ॥
तौ चापि केशौ विशतां यदूनां
कुले स्त्रियौ देवकीं रोहिणीं च ।
तयोरेको बलदेवो बभूव
योऽसौ श्वेतस्य देवस्य केशः ।
कृष्णो द्वितीयः केशवः संबभूव
केशो योऽसौ वर्णतः कृष्ण उक्तः ॥
ये ते पूर्वं शक्ररूपा निबद्धा-
स्तस्यां दर्यां पर्वतस्योत्तरस्य ।
इहैव ते पाण्डवा वीर्यवन्तः
शक्रस्यांशः पाण्डवः सव्यसाची ॥
एवमेते पाण्डवाः संबभूवु-
र्ये ते राजन्पूर्वमिन्द्रा बभूवुः ।
लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा
भार्या यैषा द्रौपदी दिव्यरूपा ॥
कथं हि स्त्री कर्मणा ते महीतला-
त्समुत्तिष्ठेदन्यतो दैवयोगात् ।
यस्या रूपं सोमसूर्यप्रकाशं
गन्धश्चास्याः कोशमात्रात्प्रवाति ॥
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र
ददानि ते वरमत्यद्भुतं च ।
दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं
पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान् ॥
वैशंपायन उवाच ।
ततो व्यासः परमोदारकर्मा
शुचिर्विप्रस्तपसा तस्य राज्ञः ।
चक्षुर्दिव्यं प्रददौ तांश्च सर्वान्
राजाऽपश्यत्पूर्वदेहैर्यथावत् ॥
ततो दिव्यान्हेमकिरीटमालिनः
शक्रप्रख्यान्पावकादित्यवर्णान् ।
बद्धापीडांश्चारुरूपांश्च यूनो
व्यूढोरस्कांस्तालमात्रान्ददर्श ॥
दिव्यैर्वस्त्रैरजोभिः सुगन्धै-
र्माल्यैश्चाग्र्यैः शोभमानानतीव ।
साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रा-
नादित्यान्वा सर्वगुणोपपन्नान् ॥
तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपा-
त्र्शक्रात्मजं चेन्द्ररूपं निशम्य ।
प्रीतो राजा द्रुपदो विस्मितश्च
दिव्यां मायां तामवेक्ष्याप्रमेयाम् ॥
तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां
दिव्यां साक्षात्सोमवह्निप्रकाशाम् ।
योग्यां तेषां रूपतेजोयशोभिः
पत्नी मत्वा हृष्टवान्पार्थिवेन्द्रः ॥
स तद्दृष्ट्वा महदाश्चर्यरूपं
जग्राह पादौ सत्यवत्याः सुतस्य ।
नैतच्चित्रं परमर्षे त्वयीति
प्रसन्नचेताः स उवाच चैनम् ॥
`व्यास उवाच ।
इदं चापि पुरावृत्तं तन्निबोध च भूमिम ।
कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि ॥
नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः ।
तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिताः ॥
साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान् ।
तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः ॥
नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः ।
अनीर्ष्यवो धर्मविदः सौम्याश्चैव प्रियकराः ॥
एतान्नैतन्तवान्पञ्च शिबिपुत्री स्वयंवरे ।
अवाप स्वपतीन्वीरान्भौमाश्वी मनुजाधिपान् ॥
वीणेव मधुरारावा गान्धर्वस्वरमूर्च्छिता ।
उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा ॥
यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः ।
बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः ॥
तेषामेकाभवद्भार्या राज्ञामौशीनरी शुभा ।
भौमाश्वी नाम भद्रं ते तथारूपगुणान्विता ॥
पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत ।
तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा ॥
पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि ।
यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम ॥
साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः ।
तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम ॥
एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता ।
तथैव द्रुपदैषा ते सुता वै देवरूपिणी ।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता' ॥
व्यास उवाच ।
आसीत्तपोवंने काचिदृषेः कन्या महात्मनः ।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती ॥
तोषयामास तपसा सा किलोग्रेण शङ्करम् ।
तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम् ॥
सैवमुक्ताऽब्रवीत्कन्या देवं वरदमीश्वरम् ।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः ॥
ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः ।
पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः ॥
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत ।
एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर ॥
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः ।
पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः ॥
तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते ।
देहमन्यं गतायास्ते सर्वमेतद्भविष्यति ॥
द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी ।
पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता ॥
`सैव नालायनी भूत्वा रूपेणाप्रतिमा भुवि ।
मौद्गल्यं पतिमास्थाय शिवाद्वरमभीप्सती ॥
एतद्देवरहस्यं ते श्रावितं राजसत्तम ।
नाख्यातव्यं कस्यचिद्वै देवगुह्यमिदं यतः ॥'
स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे ।
सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता ॥
सैषा देवी रुचिरा देवजुष्टा
पञ्चानामेका स्वकृतेनेह कर्मणा ।
सृष्टा स्वयं देवपत्नी स्वयंभुवा
श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥
1-214-1 शमिता यज्ञे पशुवधकर्ता तस्य भावः शामित्रम् ॥ 1-214-3 यत्र प्रजापतिस्तत्र सोमादयः समाजग्मुः ॥ 1-214-11 तस्याः
अश्रुबिन्दुः । सन्धिरार्षः ॥ 1-214-21 ततः शीघ्रमप्रवेशाद्धेतोः ॥ 1-214-23 हे
भव अद्य त्वमशेषस्य भुवनस्य आद्यः पतिरसि । अद्येत्यनेन मां जित्वैव नत्वन्यथेति
सूचितम् ॥ 1-214-24 शेषं प्रसादम् ॥ 1-214-27 दुराधरो दुष्प्रापः ॥ 1-214-28
वीर्येण शुक्रद्वारा पुरुषमंशभूतं दद्याम् ॥ 1-214-29 तेजस्वी इन्द्रांशः ॥ 1-214-31 तैर्विश्वभुगादिभिः । स देवो महादेवः ॥ 1-214-32 व्यदधाद्विहितवान्
आज्ञप्तवानित्यर्थः । उद्बबर्ह उद्धृतवान् ॥ 1-214-38 तस्य राज्ञः । तस्मै
राज्ञे ॥ चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥