अध्यायः 222

भीष्मेण दुर्योधनादिसमीपे पाण्डवेक्ष्योऽर्धराज्यं दातव्यमिति स्वाबिप्रायकथनम् ॥ 1 ॥

भीष्म उवाच ।
न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन ।
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम् ॥
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम ।
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते ।
तथा कुरूणां सर्वेषामन्येषामपि पार्थिव ॥
एवं गते विग्रहं तैर्न रोचे सन्धाय वीरैर्दीयतामर्धभूमिः ।
तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम् ॥
दुर्योधन यथा र्जायं त्वमिदं तात पश्यसि ।
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः ॥
यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः ।
कुत एव तवापीदं भारतस्यापि कस्यचित् ॥
अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ ।
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः ॥
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम् ।
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति ।
तवाप्यकीर्तिः सकला भविष्यति न संशयः ॥
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम् ।
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफळं स्मृतम् ॥
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव ।
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति ॥
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम् ।
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु ॥
दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा ।
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः ॥
यदाप्रभृति दग्धास्ते कुन्तिभोजसुतासुताः ।
तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम् ॥
लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम् । न चापि दोषेण तथा लोको मन्येत्पुरोचनम् ।
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति ॥
तदिदं जीवितं तेषां तव किल्बिषनाशनम् ।
संमन्तव्यं महाराज पाण्डवानां च दर्शनम् ॥
न चापि तेषां वीराणां जीवतां कुरुनन्दन ।
पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयं ॥
ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः ।
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः ॥
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे ।
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥

1-222-8 मधुरेण प्रीत्या ॥ 1-222-13 ध्रियन्ते जीवन्ति ॥ 1-222-15 गच्छति अवगच्छति ॥ द्वाविंशत्यधिकद्विशततमोऽध्यायः ॥ 222 ॥