अध्यायः 233
(अर्थार्जुनवनवासपर्व ॥ 15 ॥)
तस्करैः कस्यचिद्ब्राह्मणस्य गोहरणम् ॥ 1 ॥ चोरितानां गवां
प्रत्याजिहीर्षया धनुर्ग्रहणार्थं द्रौपदीयुधिष्ठिराधिष्ठिते आयुधागारे
अर्जुनस्य प्रवेशः ॥ 2 ॥ चोरेश्यः प्रत्याहृता गाः ब्राह्मणाय दत्त्वा यथासमयं
अर्जुनस्य तीर्थयात्रा ॥ 3 ॥
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः ।
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ॥
तेषां मनुजसिंहानां पञ्चानाममितौजसाम् ।
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ॥
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः ।
बभूव परमप्रीता नागैरिव सरस्वती ॥
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु ।
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ॥
अथ दीर्घेण कालेन ब्राह्मणस्य विशांपते ।
कस्यचित्तस्करा जह्रुः केचिद्गा नृपसत्तम ॥
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः ।
आगम्य खाण्डवप्रस्थमुदक्रोशत्स पाण्डवान् ॥
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः ।
प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः ॥
ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाङ्क्षैः प्रलुप्यते ।
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति ॥
अरक्षितारं राजानं बलिषद्भागहारिणम् ।
तमाहुः सर्वलोकस्य समग्रं पापचारिणम् ॥
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते ।
रोरूयमाणे च मयि क्रियतां हस्तधारणा ॥
वैशंपायन उवाच ।
रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः ।
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ॥
श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम् ।
आयुधानि च यत्रासन्पाण्डवानां महात्मनां ॥
कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः ।
संप्रवेशाय चाशक्तो गमनाय च पाण्डवः ॥
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनःपुनः ।
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ॥
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः ।
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः ॥
उपर्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः ।
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ॥
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे ।
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ॥
अनापृच्छय तु राजानं गते मयि न संशयः ।
अजातशत्रोर्नृपतेर्मयि चैवानृतं भवेत् ॥
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम ।
सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः ॥
अधर्मो वै महानस्तु वने वा मरणं मम ।
शरीरस्य विनाशेन धर्म एव विशिष्यते ॥
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः ।
अनुप्रविश्य राजानमापृच्छय च विशांपते ॥
`मुखमाच्छाद्य निबिडमुत्तरीयेण वाससा ।
अग्रजं चार्जुनो गेहादभिवाद्याशु निःसृतः ॥'
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत ।
ब्राह्मणा गम्यतां शीघ्रं यावत्परधनैर्षिणः ॥
न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह ।
यावन्निवर्तयाम्यद्य चोरहस्ताद्धनं तव ॥
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी ।
शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम् ॥
ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः ।
ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये ॥
आजगाम पुरं वीरः सव्यसाची धनञ्जयः ।
सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः ॥
धर्मराजमुवाचेदं व्रतमादिश मे प्रभो ।
समयः समतिक्रान्तो भवत्संदर्शने मया ॥
वनवासं गमिष्यामि समयो ह्येष नः कृतः ।
इत्युक्तो धर्मरास्तु सहसा वाक्यमप्रियम् ॥
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ।
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ॥
उवाच दीनो राजा च धनञ्जयमिदं वचः ।
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ ॥
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ।
सर्वं तदनुजानामि व्यलीकं न च मे हृदि ॥
गुरोरनुप्रवेशो हि नोपघातो यवीयसः ।
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ॥
निवर्तस्व महाबाहो कुरुष्व वचनं मम ।
न हि ते धर्मलोपोऽस्ति न च ते धर्पणा कृता ॥
अर्जुन उवाच ।
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् ।
न सत्याद्विचलिष्यामि सत्येनायुधमालभे ॥
वैशंपायन उवाच ।
सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः ।
वने द्वादश मासांस्तु वासायानुजगाम ह ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि
त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥
1-233-3 नागैर्गजवधूरिव इति ङ. पाठः ॥ 1-233-16 उपप्रेक्षणज
उपेक्षाजन्यः ॥ 1-233-17 अनास्तिक्यमास्तिक्याभावः ॥ 1-233-30 सज्जमानया
स्खलन्त्या ॥ 1-233-36 मासांस्तु ब्रह्मचर्याय दीक्षितः इति ङ. पाठः ॥
त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 233 ॥