अध्यायः 240

द्वारकाया उपवने वसतः यतिरूपस्यार्जुतस्य रैवतकपर्वतात्प्रतिनिवृत्तैर्यादवैर्दर्शनम् ॥ 1 ॥ यतिनिवासविषये यादवै पृष्टे सुभद्रागृहे वसत्विति रामोक्तिः ॥ 2 ॥

वैशंपायन उवाच ।
चैराः संचारिते तस्मिन्ननुज्ञाते युधिष्ठिरे ।
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् ॥
कृष्णस्य मतमास्थाय प्रययौ भरतर्षभः ।
द्वारकाया उपवने तस्थौ वै कार्यसाधनः ॥
निवृत्ते ह्युत्सवे तस्मिन्गिरौ रैवतके तदा ।
वृष्णयोऽप्यगमन्सर्वे पुरीं द्वारवतीमनु ॥
चिन्तयानस्ततो भद्रामुपविष्टः शिलातले ।
रमणीये वनोद्देशे बहुपादपसंवृते ॥
सालतालाश्वकर्णैश्च बकुलैरर्जुनैस्तथा ।
चम्पकाशोकपुन्नागैः केतकैः पाटलैस्तथा ॥
कर्णिकारैरशोकैश्च अङ्कोलैरतिमुक्तकैः ।
एवमादिभिरन्यैश्च संवृते स शिलातले ॥
पुनःपुनश्चिन्तयानः सुभद्रां भद्रभाषिणीम् ।
यदृच्छया चोपपन्नान्वृष्णिवीरान्ददर्श सः ॥
बलदेवं च हार्दिक्यं साम्बं सारणमेव च ।
प्रद्युम्नं च गदं चैव चारुदेष्णं विदूरथम् ॥
भानुं च हरितं चैव विपृथुं पृथुमेव च ।
तथान्यांश्च बहून्पश्यन्हृदि शोकमधारयत् ॥
ततस्ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः ।
वृष्णयो विनयोपेताः परिवार्योपतस्थिरे ॥
ततोऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः ।
आस्यतामास्यतां सर्वै रमणीये शिलातले ॥
इत्येवमुक्ता यतिना प्रीतास्ते यादवर्षभाः ।
उपोपविविशुः सर्वे ते स्वागतमिति ब्रुवन् ॥
परितः सन्निविष्टेषु वृष्णिवीरेषु पाण्डवः ।
आकारं गूहमानस्तु कुशलप्रश्नमब्रवीत् ॥
सर्वत्र कुशलं चोक्त्वा बलदेवोऽब्रवीदिदम् ।
प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि ॥
त्वया दृष्टानि पुण्यानि वद त्वं वदतांवर ।
पर्वतांश्चैव तीर्थानि वनान्यायतनानि च ॥
वैशंपायन उवाच ।
तीर्थानां दर्शनं चैव पर्वतानां च भारत ।
आपगानां वनानां च कथयामास ताः कथाः ॥
श्रुत्वा धर्मकथाः पुण्या वृष्णिवीरा मुदान्विताः ।
अपूजयंस्तदा भिक्षुं कथान्ते जनमेजय ॥
ततस्तु यादवाः सर्वे मन्त्रयन्ति स्म भारत ।
अयं देशातिथिः श्रीमान्यतिलिङ्गधरो द्विजः ॥
आवासं कमुपाश्रित्य वसेत निरुपद्रवः ।
इत्येवं प्रब्रुवन्तस्तु रौहिणेयं च यादवाः ॥
ददृशुः कृष्णमायान्तं सर्वे यादवनन्दनम् ।
एहि केशव तातेति रौहिणेयो वचोऽब्रवीत् ॥
यतिलिङ्गधरो विद्वान्देशातिथिरयं द्विजः । वर्षमासनिवासार्थमागतो नः पुरं प्रति ।
स्थाने यस्मिन्निवसतु तन्मे ब्रूहि जनार्दन ॥
श्रीकृष्ण उवाच ।
त्वयि स्थिते महाभाग परवानस्मि धर्मतः ।
स्वयं तु रुचिरे स्थाने वासयेर्यदुनन्दन ॥
प्रीतः स तेन वाक्येन परिष्वज्य जनार्दनम् ।
बलदेवोऽब्रवीद्वाक्यं चिन्तयित्वा महाबलः ॥
आरामे तु वसेद्धीमांश्चतुरो वर्षमासकान् ।
कन्यागृहे सुभद्राया भुक्त्वा भोजनमिच्छया ॥
लतागृहेषु वसतामिति मे धीयते मतिः ।
लब्धानुज्ञास्त्वया तात मन्यन्ते सर्वयादवाः ॥
श्रीकृष्ण उवाच ।
बलवान्दर्शनीयश्च वाग्मी श्रीमान्बहुश्रुतः ।
कन्यापुरसमीपे तु न युक्तमिति मे मतिः ॥
गुरुः शास्ता च नेता च शास्त्रज्ञो धर्मवित्तमः ।
त्वयोक्तं न विरुध्येहं करिष्यामि वचस्तव ॥
शुभाशुभस्य विज्ञाता नान्योऽस्मि भुवि कश्चन ॥
बलदेव उवाच ।
अयं देशातिथिः श्रीमान्सर्वधर्मभृतां वरः ।
धृतिमान्विनयोपेतः सत्यबादी जितेन्द्रियः ॥
यतिलिङ्गधरो ह्येष को विजानाति मानसम् ।
त्वमिमं पुण्डरीकाक्ष नीत्वा कन्यापुरं शुभम् ॥
निवेदय सुभद्रायै मद्वाक्यपरिचोदितः ।
भक्ष्यैर्भोज्यैश्च पानैश्च अन्नैरिष्टैश्च पूजय ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥