अध्यायः 242

सुभद्राविवाहः ॥ 1 ॥

वैशंपायन उवाच ।
कुकुरान्धकवृष्णीनामपयानं च पाण्डवः ।
विनिश्चित्य ततः पार्थः सुभद्रामिदमब्रवीत् ॥
शृणु भद्रे यथाशास्त्रं हितार्थं मुनिभिः कृतम् ।
विवाहं बहुधा सत्सु वर्णानां धर्मसंयुतम् ॥
कन्यायास्तु पिता भ्राता माता मातुल एव वा ।
पितुः पिता पितुर्भ्राता दाने तु प्रभुतां गतः ॥
महोत्सवं पशुपतेर्द्रष्टुकामः पिता तव ।
अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः ॥
मम चैव विशालाक्षि विदेशस्था हि बान्धवाः ।
तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमः स्मृतः ॥
समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः ।
तेषां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा ॥
वरमाहूय विधिना पित्रा दत्ता तथार्थिने ।
सा पत्नी तु परैरुक्ता सा वश्या तु पतिव्रता ॥
भृत्यानां भरणार्थाय आत्मनः पोषणाय च ।
दाने गृहीता या नारी सा भार्येति स्मृता बुधैः ॥
धर्मतो वरयित्वा तु आनीय स्वं निवेशनम् ।
न्यायेन दत्तातारुण्ये दाराः पितृकृताः स्मृताः ॥
गान्धर्वेण विवाहेन रागात्पुत्रार्थकारणात् ।
आत्मनाऽनुगृहीता या वश्या सा तु प्रजावती ॥
जनयेद्या तु भर्तारं जाया इत्येव नामतः ।
पत्नी भार्या च दाराश्च जाया चेति चतुर्विधाः ॥
चतस्र एवाग्निसाक्ष्याः क्रियायुक्ताश्च धर्मतः ।
गान्धर्वस्तु क्रियाहीनो रागादेव प्रवर्तते ॥
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः ।
मयोक्तमक्रियं चापि कर्तव्यं माधवि त्वया ॥
अयनं चैव मासश्च ऋतुः पक्षस्तथा तिथिः ।
करणं च मुहूर्तं च लग्नसंपत्तथैव च ॥
विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम् ।
वैशाखश्चैव मासानां पक्षाणां शुक्ल एव च ॥
नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि ।
लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा ॥
मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि ।
सर्वसंपदियं भद्रे अद्य रात्रौ भविष्यति ॥
भगवानस्तमभ्येति आदित्यस्तपतां वरः ।
रात्रौ विवाहकालोऽयं भविष्यति न संशयः ॥
नारायणोऽपि सर्वज्ञो नावबुध्येत विश्वकृत् ।
धर्मसङ्कटमापन्ने किं नु कृत्वा सुखं भवेत् ॥
मनोभवेन कामेन मोहितं मां प्रलापिनम् ।
प्रतिवाक्यं च मे देवि किं न वक्ष्यसि माधवि ॥
वैशंपायन उवाच ।
अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम् ।
नोवाच किंचिद्वचनं बाष्पदूषितलोचना ॥
रागोन्मादप्रलापी सन्नर्जुनो जयतां वरः ।
चिन्तयामास पितरं प्रविश्य च लतागृहम् ॥
चिन्तयानं तु कौन्तेयं मत्वा शच्या शचीपतिः ।
सहितो नारदाद्यैश्च मुनिभिश्च महामनाः ॥
गन्धर्वैरप्सरोभिश्च चारणैश्चापि गुह्यकैः ।
अरुन्धत्या वसिष्ठेन ह्याजगाम कुशस्थलीम् ॥
चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः ।
निद्रयापहृतज्ञानं रौहिणेयं विना तदा ॥
सहाक्रूरेण शिनिना सत्यकेन गदेन च ।
वसुदेवेन देवक्या आहूकेन च धीमता ॥
आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः ।
पूजयित्वा तु देवेशो नारदादीन्महायशाः ॥
कुशलप्रश्नमुक्त्वा तु देवेन्द्रेणाभियाचितः ।
वैवाहिकीं क्रियां कृष्णः स तथेत्येवमुक्तवान् ॥
आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः । अभिप्रणम्य शिरसा पाकशासनमब्रुवन् ।
देवदेव नमस्तेस्तु लोकनाथ जगत्पते ॥
वयं धन्याः स्म सहितैर्बान्धवैः सहिताः प्रभो ।
कृतप्रसादास्तु वयं तव वाक्येन विश्वजित् ॥
वैशंपायन उवाच ।
एवमुक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः ।
महेन्द्रशासनात्सर्वे सहिता ऋषिभिस्तदा ॥
विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः ।
अरुन्धती शची देवी रुग्मिणी देवकी तथा ॥
दिव्यस्त्रीभिश्च सहिताः सुभद्रायाः शुभाः क्रियाः ।
अर्जुनेऽपि तथा सर्वाः क्रिया भद्राः प्रयोजयन् ॥
महर्षिः काश्यपो होता सदस्या नारदादयः ।
पुण्याशिषः प्रयोक्तारः सर्वे ते हि तदार्जुने ॥
अभिषेकं तदा कृत्वा महेन्द्रः पाकशासनिम् ।
लोकपालैस्तु सहितः सर्वदेवैरभिष्टुतः ॥
किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः ।
भूषयित्वा तदा पार्थं द्वितीयमिव वासवम् ॥
पुत्रं परिष्वज्य तदा प्रीतिमाप पुरन्दरः ।
शछी देवी तदा भद्रामरुन्धत्यादिभिस्तथा ॥
कारयामास वैवाह्यमङ्गलान्यादवस्त्रियः ।
सहाप्सरोभिर्मुदिता भूषयित्वा स्वभूषणैः ॥
पौलोमीमिव मन्यन्ते सुभद्रां तत्र योषितः ।
ततो विवाहो ववृधे कृतः सर्वगुणान्वितः ॥
तस्याः पाणिं गृहीत्वा तु मन्त्रैर्होमपुरस्कृतम् ।
सुभद्रया बभौ जिष्णुः शच्या इव शचीपतिः ॥
सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना ।
पार्थस्य सदृशी भद्रा रूपेण वयसा तथा ॥
सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः ।
इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः ॥
एवं निवेश्य देवास्ते गन्धर्वैः साप्सरोगणैः ।
आमन्त्र्य यादवाः सर्वे विप्रजग्मुर्यथागतम् ॥
यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा ।
वासुदेवस्तदा पार्थमुवाच यदुनन्दनः ॥
द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ ।
मामकं रथमारुह्य शैब्यसुग्रीवयोजितम् ॥
सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश । यादवैः सहितः पश्चादागमिष्यामि भारत ।
यतिवेषेण नियतो वस त्वं रुक्मिणीगृहे ॥
वैशंपायन उवाच ।
एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः ।
कृतोद्वाहस्ततः पार्थः कृतकार्योऽभवत्तदा ॥
तस्यां चोपगतो भावः पार्थस्य सुमहात्मनः ।
तस्मिन्भावः सुभद्राया अन्योन्यं समवर्धत ॥
स तथा युयुजे वीरो भद्रया भरतर्षभः ।
अभिनिष्पन्नया रामः सीतयेव समन्वितः ॥
अपि जिष्णुर्विजज्ञे तां ह्रीं श्रियं सन्नतिक्रियाम् ।
देवतानां वरस्त्रीणां रूपेण सदृशीं सतीम् ॥
स प्रकृत्या श्रिया दीप्त्या संदिदीपे तयाऽधिकम् ।
उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः ॥
सा तु तं मनुजव्याघ्रमनुरक्ता यशस्विनी ।
कन्यापुरगता भूत्वा तत्परा समपद्यत ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि द्विचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 242 ॥