अध्यायः 244

द्वारकाया बहिर्निर्गच्छतोऽर्जुनस्य विपृथुना युद्धम् ॥ 1 ॥ विपृथुं जित्वाऽर्जुनस्य खाण्डवप्रस्थंप्रति गमनम् ॥ 2 ॥ युद्धोद्युक्तानां यादवानां बलरामवाक्यान्निवृत्तिः ॥ 3 ॥ बलस्य क्रोधः ॥ 4 ॥

वैशंपायन उवाच ।
शासनात्पुरुषेन्द्रस्य बलेन महता बली ।
गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः ॥
प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः ।
संबभूव तदा गोप्ता पुरस्य पुरवर्धनः ॥
प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः ।
निशम्य पुरनिर्घोषं स्वमनीकमचोदयत् ॥
सोऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम् ।
निःसृतं द्वारकाद्वारादंशुमन्तमिवाम्बिरात् ॥
सविद्युतमिवाम्भोदं प्रेक्षतां तं धनुर्धरम् ।
पार्थमानर्तयोधानां विस्मयः समपद्यत ॥
उदीर्णरथनागाश्वमनीकमभिवीक्ष्य तत् ।
उवाच परमप्रीता सुभद्रा भद्रभाषिणी ॥
संग्रहीतुमभिप्रायो दीर्घकालकृतो मम ।
युध्यमानस्य सङ्ग्रामे रथं तव नरर्षभ ॥
ओजस्तेजोद्युतिबलैरन्वितस्य महात्मनः ।
पार्थ ते सारथित्वेन भविता शिक्षितास्म्यहम् ॥
एवमुक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः ।
चोदयाश्वानसंसक्तान्विश्तु विपृथोर्बलम् ॥
बहुभिर्युध्यमानस्य तावकान्विजिघांसतः ।
पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम ॥
वैशंपायन उवाच ।
एवमुक्ता तदा भद्रा पार्थेन भरतर्षभ ।
चुचोद साश्वान्संहृष्टा ते ततो विविशुर्बलम् ॥
तदाहतमहावाद्यं समुदग्रध्वजायुतम् ।
अनीकं विपृथोर्हृष्टं पार्थमेवान्ववर्तत ॥
रथैर्बहुविधाकारैः सदश्वैश्च महाजवैः ।
किरन्तः शरवर्षाणि परिवव्रुर्धनञ्जयम् ॥
तेषामस्त्राणि संवार्य दिव्यास्त्रेण महास्त्रवित् ।
आवृणोन्महदाकाशं शरैः परपुरञ्जयः ॥
तेषां बाणान्महाबाहुर्मुकुटान्यङ्गदानि च ।
चिच्छेद निशितैर्बाणैः शरांश्चैव धनूंषि च ॥
युगानीषान्वरूथानि यन्त्राणि विविधानि च ।
अजिघांसन्परान्पार्थश्चिच्छेद निशितैः शरैः ॥
विधनुष्कान्विकवचान्विरथांश्च महारथान् ।
कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यतामित्यदर्शयत् ॥
सा दृष्ट्वा महदाश्चर्यं सुभद्रा पार्थमब्रवीत् ।
अवाप्तार्थाऽस्मि भद्रं ते याहि पार्थ यथासुखम् ॥
स सक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर्बलम् ।
त्वरमाणोऽभिसंक्रम्य स्थीयतामित्यभाषत ॥
ततः सेनापतेर्वाक्यं नात्यवर्तन्त यादवाः ।
सागरे मारुतोद्धूता वेलामिव महोर्मयः ॥
ततो रथवरात्तूर्णमवरुह्य नरर्षभः ।
अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे ॥
सोऽब्रवीत्पार्थमासाद्य दीर्घकालमिदं तव ।
निवासमभिजानामि शङ्खचक्रगदाधरात् ॥
न मेऽस्त्यविदितं किंचिद्यद्यदाचितं त्वया ।
सुभद्रार्थं प्रलोभेन प्रीतस्तव जनार्दनः ॥
प्राप्तस्य यतिलिङ्गेन वासितस्य धनञ्जय ।
बन्धुमानसि रामेण महेन्द्रावरजेन च ॥
मामेव च सदाकाङ्क्षी मन्त्रिणं मधुसूदनः ।
अन्तरेण सुभद्रां च त्वां च तात धनञ्जय ॥
इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम् ।
इदमेवानुयात्रं च निर्दिश्य गदपूर्वजः ॥
अन्तर्द्वीपं तदा वीर गतो वृष्णिसुखावहः ।
दीर्घकालावरुद्धं त्वां संप्राप्तं प्रियया सह ॥
पश्यन्तु भ्रातरः सर्वे वज्रपाणिमिवामराः ।
आयाते तु दशार्हाणामृषभे शार्ङ्गधन्वनि ॥
भद्रामनुगमिष्यन्ति रत्नानि च वसूनि च ।
अरिष्टं याहि पन्थानं सुखी भव धनञ्जय ॥
नष्टशोकैर्विशोकस्य सुहृद्भिः संगमोऽस्तु ते ॥
वैशंपायन उवाच ।
ततो विपृथुमामन्त्र्य पार्थः प्रीतोऽभिवाद्य च ।
कृष्णस्य मतमास्थाय कृष्णस्य रथमास्थितः ॥
पूर्वमेव तु पार्थाय कृष्णेन विनियोजितम् ।
सर्वरत्नसुसंपूर्णं सर्वभोगसमन्वितम् ॥
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि ।
शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना ।
ज्वलनार्चिःप्रकाशेन द्विषतां हर्षनाशिना ॥
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । युक्तः सेनानुयात्रेण रथणारोप्य माधवीम् ।
रथेनाकाशगेनैव पययौ *स्वपुरं प्रति ॥
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिका जनाः ।
विक्रोशन्तोऽद्रवन्सर्वे द्वारकामभितः पुरीम् ॥
ते समासाद्य सहिताः सुधर्मामभितः सभाम् ।
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥
तेषां श्रुत्वा सभापालो भेरीं सान्नाहिकीं ततः ।
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा । `अन्तर्द्वीपात्समुत्पेतुः सहसा सहितास्तदा ।'
अन्नपानमपास्याथ समापेतुः समन्ततः ॥
तत्र जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च ।
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः ।
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥
तेषां समुपविष्टानां देवानामिव सन्नये ।
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ॥
तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः ।
अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ॥
योजयध्वं रथानाशु प्रासानाहरतेति च ।
धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥
सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च ।
स्वयं च तुरगान्केचिदयुञ्जन्हेमभूषितान् ॥
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च ।
अभिक्रन्दे नृवीराणां तदासीत्तुमुलं महत् ॥
वनमाली ततः क्षीबः कैलासशिखरोपमः ।
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥
किमिदं कुरुथाप्रज्ञास्तूष्णींभूते जनार्दने ।
अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः ॥
एष तावदभिप्रायमाख्यातु स्वं महामतिः ।
यदस्य रुचिरं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् ।
तूष्णींभूतास्ततः सर्वे साधुसाध्विति चाब्रुवन् ॥
समं वचो निशम्यैव बलदेवस्य धीमतः ।
पुनरेवसभामध्ये सर्वे ते समुपाविशन् ॥
ततोऽब्रवीद्वासुदेवं वचो रामः परन्तपः । `त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत् ।'
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ॥
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत ।
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥
को हि तत्रैव भुक्तावान्नं भाजनं भेत्तुमर्हति ।
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥
इच्छन्नेव हि संबन्धं कृतं पूर्वं च मानयन् ।
को हि नाम भवेनार्थी साहसेन समाचरेत् ॥
सोऽवमन्य तथाऽस्माकमनादृत्य च केशवम् ।
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥
कथं हि शिरसो मध्ये कृतं तेन पदं मम ।
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ॥
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् ।
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् ।
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥ ॥ समाप्तं च सुभद्राहरणपर्व ॥

1-244-42 सन्नये समुदाये चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥ * 239 तमाध्यायस्य 26 श्लोकादुपरि प्रकृतश्लोकपर्यन्तं विद्यमानानां 248 श्लोकानां स्थाने च, ज, झ, ञ, ड, पुस्तकेषु अधोलिखिता अष्टौ श्लोका एव दृश्यन्ते । 1-244a-1x वैशंपायन उवाच । 1-244a-1a ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः । 1-244a-1b गतां रैवतके कन्यां विदित्वा जनमेजय ॥ 1-244a-2a वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् । 1-244a-2b कृष्णस्य मतमादाय प्रययौ भरतर्षभः ॥ 1-244a-3a रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । 1-244a-3b शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥ 1-244a-4a सर्वशस्त्रोपपन्नेन जीमूतरवनादिना । 1-244a-4b ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥ 1-244a-5a सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । 1-244a-5b मृगयाव्यपदेशेन प्रययौ पुरुषर्षभः ॥ 1-244a-6a सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्यैव हि रैवतम् । 1-244a-6b दैवतानि च सर्वाणि ब्राह्मणान्स्वस्तिवाच्य च ॥ 1-244a-7a प्रदक्षिणं गिरेः कृत्वा प्रययौ द्वारकां प्रति । 1-244a-7b तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् । 1-244a-7c सुभद्रां चारुसर्वाङ्गीं कामबाणप्रपीडितः ॥ 1-244a-8a ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् । 1-244a-8b रथेन काञ्चनाङ्गन प्रययौ स्वपुरं प्रति ॥