अध्यायः 248

(अथ खाण्डवदाहपर्व ॥ 18 ॥)

युधिष्ठिरस्य राज्यपरिपालनप्रकारवर्णनम् ॥ 1 ॥ तत्रैव निवसता श्रीकृष्णेन सहार्जुनस्य जलक्रीडार्थं यमुनां प्रति गमनम् ॥ 2 ॥ सस्त्रीकयोस्तयोर्जलक्रीडावर्णनम् ॥ 3 ॥ ब्राह्मणरूपस्याग्नेस्तत्रागमनम् ॥ 4 ॥

वैशंपायन उवाच ।
इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान् ।
शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् ।
पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥
स समं धर्मकामार्थान्सिषेवे भरतर्षभ ।
त्रीनिवात्मसमान्बन्धून्नीतिमानिव मानयन् ॥
तेषां समविभक्तानां क्षितौ देहवतामिव ।
बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥
अध्येतारं परं वेदान्प्रयोक्तारं महाध्वरे ।
रक्षितारं शुभाँल्लोकाँल्लोभिरे तं जनाधिपम् ॥
अधिष्ठानवती लक्ष्मीः परायणवती मतिः ।
वर्धमानोऽखिलो धर्मस्तेनासीत्पृथिवीक्षिताम् ॥
भ्रातृभिः सहितौ राजा चतुर्भिरधिकं बभौ ।
प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे ।
बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥
धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले ।
प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥
न तु केवलदैवेन प्रजा भावेन रेमिरे ।
यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥
न ह्ययुक्तं न चासत्यं नासह्यं न च वाऽप्रियम् ।
भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥
स हि सर्वस्य लोकस्य हितमात्मन एव च ।
चिकीर्षन्सुमहातेजा रेमे भरतसत्तम ॥
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः ।
अवसन्पृथिवीपालाँस्तापयन्तः स्वतेजसा ॥
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् ।
उष्णानि कृष्ण वर्तन्ते गच्छावो यमुनां प्रति ॥
सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन ।
सायाह्ने पुनरेष्यावो रोचतां ते जनार्दन ॥
वासुदेव उवाच ।
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले ।
सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥
वैशंपायन उवाच ।
आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत ।
जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥
`विहरन्खाण्डवप्रस्थे काननेषु च माधवः ।
पुष्पितोपवनां दिव्यां ददर्श यमुनां नदीम् ॥
तस्यास्तीरे वनं दिव्यं सर्वर्तुसुमनोहरम् ।
आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत् ॥
ददर्श कृत्स्नं तं देशं सहितः सव्यसाचिना ।
ऋक्षगोमायुशार्दूलवृककृष्णमृगान्वितम् ॥
शाखामृगगणैर्जुष्टं गजद्वीपिनिषेवितम् ।
शकबर्हिणदात्यूहहंससारसनादितम् ॥
नानामृगसहस्रैश्च पक्षिभिश्च समावृतम् ।
मानार्हं तच्च सर्वेषां देवदानवरक्षसाम् ॥
आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः ।
वेणुशाल्मलिबिल्वातिमुक्तजंब्वाम्रचम्पकैः ॥
अङ्कोलपनसाश्वत्थतालजम्बीरवञ्जुलैः ।
एकपद्मकतालैश्च शतशश्चैव रौहिणैः ॥
नानावृक्षैः समायुक्तं नानागुल्मसमावृतम् ।
वेत्रकीचकसंयुक्तमाशीविषनिषेवितम् ॥
विगतार्कं महाभोगविततद्रुमसङ्कटम् ।
व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः ॥
रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम् ।
खाण्डवं सुमहाप्राज्ञः सर्वलोकविभागवित् ॥
दृष्टवान्सर्वलोकेश अर्जुनेन समन्वितः ।
पीताम्बरधरो देवस्तद्वनं बहुधा चरन् ॥
सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः । खाण्डवस्य विनाशं तं ददर्श मधुसूदनः ॥'
विहारदेशं संप्राप्य नानाद्रुममनुत्तमम् ।
गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम् ॥
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः ।
माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्मेयपाण्डवौ ॥
तदा विविशतुः पूर्णं रत्नैरुच्चावचैः शुभैः ।
यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥
स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः ।
मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः ॥
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः ।
यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः ॥
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी । द्रौपदी च सुभद्रा च वासांस्याभरणानि च ।
प्रायच्छन्त महाराज स्त्रीणां ताः स्म मदोत्कटाः ॥
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः ।
जहसुश्च परा नार्यः पपुश्चान्या वरासवम् ॥
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् ।
मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः ।
शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत् ॥
तस्मिंस्तदा वर्तमानो कुरुदाशार्हनन्दनौ ।
समीपं जग्मतुः कंचिदुद्देशं सुमनोहरम् ॥
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ ।
महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः ॥
तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च ।
बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव ।
अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः ।
हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतः समः ॥
तरुणादित्यसङ्काशश्चीरवासा जटाधरः ।
पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥
जगाम तौ कृष्णपार्थौ दिधक्षुः खाण्डवं वनम् । उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम् ।
अर्जनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि खाण्डवदाहपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥

1-248-14 उष्णानि निधाधदिनानि ॥ 1-248-16 कुन्ती माता यस्येति नेकुन्तामातर्हेऽर्जुन ॥ 1-248-30 गृहैः मध्येयमुनं निर्मितैः क्रीडावाप्यादियुक्तैः ॥ 1-248-39 उद्देशं प्रदेशम् ॥ 1-248-43 हरिपिङ्गः नीलपीताखिलाङ्गः । ज्वलश्मश्रुः ज्वालावत्पीतश्मश्रुः ॥ अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥