अध्यायः 256

प्रज्वलदग्निदर्शनेन जरितायाः स्वपुत्रैः संवादः ॥ 1 ॥

वैशंपायन उवाच ।
ततः प्रज्वलिते वह्नौ शार्ङ्गकास्ते सुदुःखिताः ।
व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ॥
निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी ।
जरिता शोकदुःखार्ता विललाप सुदुःखिता ॥
जरितोवाच ।
अयमग्निर्दहन्कक्षमित आयाति भीषणः ।
जगत्संदीपयन्भीमो मम दुःखविवर्धनः ॥
इमे च मां कर्षयन्ति शिशवो मन्दचेतसः ।
अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणाः ॥
त्रासयंश्चायमायाति लेलिहानो महीरुहान् ।
अजातपक्षाश्च सुता न शक्ताः सरणे मम ॥
आदाय च न शक्नोमि पुत्रांस्तरितुमात्मना ।
न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे ॥
कं तु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ।
किंनु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् ॥
चिन्तयाना विमोक्षं वो नाधिगच्छामि किंचन ।
छादयिष्यामि वो गात्रैः करिष्ये मरणं सह ॥
जरितारौ कुलं ह्येतज्ज्येष्ठत्वेन प्रतिष्ठितम् ।
सारिसृक्कः प्रजायेत पितॄणां कुलवर्धनः ॥
स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदां वरः ।
इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ॥
कमुपादाय शक्येयं गन्तुं कष्टाऽऽपदुत्तमा । किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ।
नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् ॥
वैशंपायन उवाच ।
एवं ब्रुवाणां शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ।
स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् ॥
अस्मास्विह विनष्टेषु भवितारः सुतास्तव ।
त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ॥
अन्ववेक्ष्यैतदुभयं क्षेमं स्याद्यत्कुलस्य नः ।
तद्वै कर्तुं परः कालो मातरेष भवेत्तव ॥
मा त्वं सर्वविनाशाय स्नेहं कार्षीः सुतेषु नः ।
न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ॥
जरितोवाच ।
इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः ।
तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ॥
ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः ।
एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ॥
तत एष्याम्यतीतेऽग्नौ विहन्तुं पांसुशंचयम् ।
रोचतामेष वो वादो मोक्षार्थं च हुताशनात् ॥
शार्ङ्गका ऊचुः ।
अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् ।
पश्यमाना भयमिदं प्रवेष्टुं नात्र शक्नुमः ॥
कथमग्निर्न नो धक्ष्येत्कथमाखुर्न नाशयेत् ।
कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ॥
बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् ।
अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ॥
गर्हितं मरणं नः स्यादाखुना भक्षिते बिले ।
शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ॥
`अग्निदाहे तु नियतं ब्रह्मलोके ध्रुवा गतिः ॥' ॥

इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥

1-256-15 नोऽस्माकं सर्वविनाशाय सर्वेषां विनाशाय सुतेषु स्नेहं माकार्षीरिति संबन्धः ॥ 1-256-18 विहन्तुं दूरीकर्तुंम् । वादो वचनम् ॥ 1-256-19 क्रव्यादाखुर्मांसाद उन्दुरुः । पश्यमानाः पश्यन्तः ॥ 1-256-20 मोघो निष्फलाऽपत्योत्पत्तिः । ध्रियेत जीवेत ॥ 1-256-22 शिष्टादिष्टः शिष्टैरादिष्टः ॥ षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 256 ॥