अध्यायः 257
पुत्रैः सह संवादानन्तरं जरितायाः स्थानान्तरगमनम् ॥ 1 ॥
जरितोवाच ।
अस्माद्बिलान्निष्पतितमाखुं श्येनो जहार तम् ।
क्षुद्रं पद्भ्यां गृहीत्वा च यातो नात्र भयं हि वः ॥
शार्ङ्गका ऊचुः ।
न हृतं तं वयं विद्मः श्येनेनाखुं कथंचन ।
अन्येऽपि भितारोऽत्र तेभ्योऽपि भमेव नः ॥
संशयो वह्निरागच्छेद्दृष्टं वायोर्निवर्तनम् ।
मृत्युर्नो बिलवासिभ्यो बिले स्यान्नात्र संशयः ॥
निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते ।
चर खे त्वं यथान्यायं पुत्रानाप्स्यसि शोभनान् ॥
जरितोवाच ।
अहं वेगेन तं यान्तमद्राक्षं पततां वरम् ।
बिलादाखुं समादाय श्येनं पुत्रा महाबलम् ॥
तं पतन्तं महावेगा त्वरिता पृष्ठतोऽन्वगाम् ।
आशिषोऽस्य प्रयुञ्जाना हरतो मूषिकं बिलात् ॥
यो नो द्वेष्टारमादाय श्येनराज प्रधावसि ।
भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ॥
स यदा भक्षितस्तेन श्येनेनाखुः पतत्रिणा ।
तदाहं तमनुज्ञाप्य प्रत्युपायां पुनर्गृहम् ॥
प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् ।
श्येनेन मम पश्यन्त्या हृत आखुर्महात्मना ॥
शार्ङ्गका ऊचुः ।
न विद्महे हृतं मातः श्येनैनाखुं कथंचन ।
अविज्ञाय न शक्यामः प्रवेष्टं विवरं भुवः ॥
जरितोवाच ।
अहं तमभिजानामि हृतं श्येनेन मूषिकम् ।
नास्ति वोऽत्र भयं पुत्राः क्रियतां वचनं मम ॥
शार्ङ्गका ऊचुः ।
न त्वं मिथ्योपचारेण मोक्षयेथा भयाद्धि नः ।
समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ॥
न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् ।
पीड्यमाना बिभर्ष्यस्मान्का सती के वयं तव ॥
तरुणी दर्शीयाऽसि समर्था भर्तुरेषणे ।
अनुगच्छ पतिं मातुः पुत्रानाप्स्यसि शोमनान् ॥
वयमस्निं समाविश्य लोकानाप्स्याम शोभनान् ।
अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ॥
वैशंपायन उवाच ।
एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे ।
जगाम त्वरिता देशं क्षेममग्नेरनामयम् ॥
ततस्तीक्ष्णार्चिरभ्यागात्त्वरितो हव्यवाहनः ।
यत्र शार्ङ्गा वभूवुस्ते मन्दपालस्य पुत्रकाः ॥
ततस्तं ज्वलितं दृष्ट्वा ज्वलनं ते विहङ्गमाः ।
`व्यथिताः करुणा वाचः श्रावयामासुरन्तिकात् ।'
जरितारिस्ततो वाक्यं श्रावयामास पावकम् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥
1-257-3 वह्निरागच्छेदित्यत्र संशयो यतो वायोः सकाशाद्वह्नेति वर्तनं दृष्टम् ॥ 1-257-5 अहं वैश्येनमायान्तं इति ङ. पाठः ॥ सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 257 ॥