अध्यायः 258
जरितार्यादीनां चतुर्णां शार्ङ्गकाणां परस्परं संवादः ॥ 1 ॥ स्तुत्या प्रसन्नेनाग्निना तेभ्योऽभयदानम् ॥ 2 ॥ शार्ङ्गकाणां प्रार्थनया अग्निना मार्जाराणां दाहः ॥ 3 ॥
जरितारिरुवाच । 
					पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पुरुषः ।
						स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित् ॥
					यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते ।
						सकृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत् ॥
						सारिसृक्व उवाच । 
					धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः ।
						प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः ॥
						स्तम्बमित्र उवाच । 
					ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः ।
						ज्येष्ठश्चेन्न प्रजानाति नीयान्किं करिष्यति ॥
						द्रोण उवाच । 
					हिरण्यरेतास्त्वरितो जलन्नायाति नः क्षयम् ।
						सप्तजिह्वाननः क्रूरो लिहानो विसर्पति ॥
						वैशंपायन उवाच । 
					एवं संभाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः ।
						तुष्टुवुः प्रयता भूत्वा यथाऽग्निं शृणु पार्थिव ॥
						जरितारिरुवाच । 
					आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम् ।
						योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः ॥
					ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा ।
						अर्चिषस्ते महावीर्य रश्यमः सवितुर्यथा ॥
						सारिसृक्क उवाच । 
					माता प्रणष्टा पितरं न विद्मः
							पक्षा जाता नै नो धूमकेतो ।
						
						न नस्त्राता विद्यते वै त्वदन्य-
							स्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने ॥
						
					यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः ।
						तेन नः परिपाहि त्वमार्तान्नः शरणैषिणः ॥
					त्वमेवैकस्तपसे जप्तवेदो
							नान्यस्तप्ता विद्यते गोषु देव ।
						
						ऋषीनस्मान्बालकान्पालयस्व
							परेणास्मान्प्रेहि वै हव्यवाह ॥
						
						स्तम्बमित्र उवाच । 
					सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् ।
						त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥
					त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः ।
						मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च ॥
					सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह
							काले प्राप्ते पचसि पुनः समिद्धः ।
						
						त्वं सर्वस्य भुवनस्य प्रसूति-
							स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ॥
						
						द्रोण उवाच । 
					त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते ।
						नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ॥
					सूर्यो भूत्वा रश्मिभिर्जातवेदो
							भूमेरम्भो भूमिजातान्रसांश्च ।
						
						विश्वानादाय पुनरुत्सृज्य काले
							दृष्ट्वा वृष्ट्या भावयसीह शुक्र ॥
						
					त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः ।
						जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः ॥
					इदं वै सद्म तिग्मांशो वरुणस्य परायणम् ।
						शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय ॥
					पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन ।
						परेण प्रेहि मुञ्चास्मान्सागरस्य गृहानिव ॥
						वैशंपायन उवाच । 
					एवमुक्तो जातवेदा द्रोणेन ब्रह्मवादिना ।
						द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ॥
						अग्निरुवाच । 
					ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं
							ईप्सितं ते करिष्यामि न च ते
						
					मन्दपालेन वै यूयं मम पूर्वं निवेदिताः ।
						वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ॥
					तस्य तद्वचनं द्रोण त्वया यच्चेह भाषितम् ।
							उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते ।
						
						भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मंस्तोत्रेण सत्तम ॥
						
						द्रोण उवाच । 
					इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः ।
						एतान्कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान् ॥
						वैशंपायन उवाच । 
					तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान् ।
						ददाह खाण्डवं दावं समिद्धो जनमेजय ॥ ॥
					इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 258 ॥
