अध्यायः 260
मन्दपालस्य पुत्राश्वपूर्वकं सर्वैः सहान्यत्र गमनम् ॥ 1 ॥ देवगणैः सहागतस्येन्द्रस्य कृष्णार्जुनवरदानपूर्वकं स्वलोकगमनम् ॥ 2 ॥ अग्नेस्थानगमनानन्तरं कृष्णार्जुनमयानां नदीकूल उपवेशनम् ॥ 3 ॥
मन्दपाल उवाच ।
युष्माकमपवर्गार्थं ती ज्वलनो मया ।
अग्निना च तथेत्येतिज्ञातं महात्मना ॥
अग्नेर्वचनमाज्ञाय धर्मज्ञतां च वः ।
भवतां च परं वीर्यं नाहमिहागतः ॥
न सन्तापो हि वर्त्थः पुत्रका हृदि मां प्रति ।
ऋषीन्वेद हुताशो ब्रह्म तद्विदितं च वः ॥
वैशंपायन उवाच ।
एवमाश्वासितान्पुत्रान्भार्यामादाय स द्विजः ।
मन्दपालस्ततो देशादन्यं देशं जगाम ह ॥
भगवानापि तिग्मांशुः समिद्धः खाण्डवं ततः ।
ददाह सह कृष्णाभ्यां जनयञ्जगतो हितम् ॥
वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः ।
जगाम दर्शयामास चार्जुनम् ॥
ततोऽञन्तरिक्षाद्भगवानवतीर्य पुरन्दरः ।
मरुद्गणैर्वृतः पार्थं केशवं चेदमब्रवीत् ॥
कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् ।
वरं वृणीतं तुष्टोऽस्मि दुर्लभं पुरुषेष्विह ॥
पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः ।
प्रदातुं तच्च शक्रस्तु कालं चक्रे महाद्युतिः ॥
यदा प्रसन्नो भगवान्महादेवो भविष्यति ।
तदातुभ्यं प्रदास्यामि पाण्डवास्त्राणि सर्वशः ॥
अहमेव च तं कालं वेत्स्यामि कुरुनन्दन ।
तपसा महता चापि दास्यामि भवतोऽप्यहम् ॥
आग्नेयानि च सर्वाणि वायव्यानि च सर्वशः ।
मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ॥
वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् ।
ददौ सुरपतिश्चैव वरं कृष्णाय धीमते ॥
एवं दत्त्वा वरं ताभ्यां सह देवैर्मरुत्पतिः ।
हुताशनमनुज्ञाप्य जगामत्रिदिवं प्रभुः ॥
पावकश्च तदा दावं दग्ध्वसमृगपक्षिणम् ।
अहोभिरेकविंशद्भिर्विरराग्सुतर्पितः ॥
जग्ध्वा मांसानि पीत्वा चदांसि रुधिराणि च ।
युक्तः परमया प्रीत्या तावुत्वाच्युतार्जुनौ ॥
युवाभ्यां पुरुषाग्र्याभ्यां ततोऽस्मि यथासुखम् ।
अनुजानामि वां वीरौ चरतंत्र वाञ्छितम् ॥
`गाण्डिवं च धनुर्दिव्यमक्षौ च महेषुधी ।
कपिध्वजो रथश्चायं तव द महामते ॥
अनेन धनुषा चैव रथेनाने भारत ।
विजेष्यसि रणे शत्रून्सदेवामानुषान् ॥'
एवं तौ समनुज्ञातौ पाववेमहात्मना ।
अर्जुनो वासुदेवश्च दानवश्चयस्तथा ॥
परिक्रम्य ततः सर्वे त्रयोऽभरतर्षभ ।
रमणीये नदीकूले सहितामुपाविशंन् ॥
इति श्रीमन्महाभारते शतसाहस्त्र्यां संहितायां वैयासिक्यां आदिपर्वणि मयपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥ ॥ समाप्तं मयदर्शनपर्वादिपर्व च ॥
1-260-15 अहानि पञ्च चैकं च इति ख. पाठः ॥ षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥