अध्यायः 023
गरुडोत्पत्तिः ॥ 1 ॥ देवकृतस्तुत्या गरुडकृतं स्वतेजस्संहरणम् ॥ 2 ॥
सौतिरुवाच ।
तं समुद्रमतिक्रम्य कद्रूर्विनतया सह ।
न्यपतत्तुरगाभ्याशे न चिरादिव शीघ्रगा ॥
ततस्ते तं हयश्रेष्ठं ददृशाते महाजवम् ।
शशाङ्ककिरणप्रख्यं कालवालमुभे तदा ॥
निशाम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान् ।
विषण्णरूपां विनतां कद्रूर्दास्ये न्ययोजयत् ॥
ततः सा विनता तस्मिन्पणितेन पराजिता ।
अभवद्दुःखसंतप्ता दासीभावं समास्थिता ॥
एतस्मिन्नन्तरे चापि गरुडः काल आगते ।
विना मात्रा महातेजा विदार्याण्डमजायत ॥
महासत्त्वबलोपेतः सर्वा विद्योतयन्दिशः ।
कामरूपः कामगमः कामवीर्यो विहंगमः ॥
अग्निराशिरिवोद्भासन्समिद्धोऽतिभयंकरः ।
विद्युद्विस्पष्टपिङ्गाक्षो युगान्ताग्निसमप्रभः ॥
प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ।
घोरो घोरस्वनो रौद्रो वह्निरौर्व इवापरः ॥
तं दृष्ट्वा शरणं जग्मुर्देवाः सर्वे विभावसुम् ।
प्रमिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ॥
अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि ।
असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ॥
अग्निरुवाच ।
नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः ।
गरुडो बलवानेष मम तुल्यश्च तेजसा ॥
जातः परमतेजस्वी विनतानन्दवर्धनः ।
तेजोराशिमिमं दृष्ट्वा युष्मान्मोहः समाविशत् ॥
नागक्षयकरश्चै काश्यपेयो महाबलः ।
देवानां च हिते युक्तस्त्वहितो दैत्यरक्षसाम् ॥
न भीः कार्या कथं चात्र पश्यध्वं सहिता मया ।
सौतिरुवाच ।
एवमुक्तास्तदा गत्वा गरुडं वाग्भिरस्तुवन् ॥
ते दूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ।
देवा ऊचुः ।
त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः ॥
त्वं प्रभुस्तपनः सूर्यः परमेष्ठी प्रजापतिः ।
त्वमिन्द्रस्त्वं हयमुखस्त्वं शर्वस्त्वं जगत्पतिः ॥
त्वं मुखं पद्मजी विप्रस्त्वमग्निः पवनस्तथा ।
त्वं हि धाता विधाता च त्वं विष्णुः सुरसत्तमः ॥
त्वं महानभिभूः शश्वदमृतं त्वं महद्यशः ।
त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् ॥
`त्वं गतिः सततं त्वत्तः कथं नः प्राप्नुयाद्भयम् ।'
बलोर्मिमान्साधुरदीनसत्त्वः
समृद्धिमान्दुर्विषहस्त्वमेव ।
त्वत्तः सृतं सर्वमहीनकीर्ते
ह्यनागतं चोपगतं च सर्वम् ॥
त्वमुत्तमः सर्वमिदं चराचरं
गभस्तिभिर्भानुरिवावभाससे ।
समाक्षिपन्भानुमतः प्रभां मुहु-
स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ॥
दिवाकरः परिकुपितो यथा दहे-
त्प्रजास्तथा दहसि हुताशनप्रभ ।
भयंकरः प्रलय इवाग्निरुत्थितो
विनाशयन्युगपरिवर्तनान्तकृत् ॥
खगेश्वरं शरणमुपागता वयं
महौजसं ज्वलनसमानवर्चसम् ।
तडित्प्रभं वितिमिरमभ्रगोचरं
महाबलं गरुडमुपेत्य खेचरम् ॥
परावरं वरदमजय्यविक्रमं
तवौजस सर्वमिदं प्रतापितम् ।
जगत्प्रभो तप्तसुवर्णवर्चसा
त्वं पाहि सर्वांश्च सुरान्महात्मनः ॥
भयान्विता नभसि विमानगामिनो
विमानिता विपथगतिं प्रयान्ति ते ।
ऋषेः सुतस्त्वमसि दयावतः प्रभो
महात्मनः खगवर कश्यपस्य ह ॥
स मा क्रुधः कुरु जगतो दयां परां
त्वमीश्वरः प्रशममुपैहि पाहि नः ।
महाशनिस्फुरितसमस्वनेन ते
दिशोऽम्बरं त्रिदिवमियं च मेदिनी ॥
चलन्ति नः खग हृदयानि चानिशं
निगृह्यतां वपुरिदमग्निसन्निभम् ।
तव द्युतिं कुपितकृतान्तसन्निभां
निशाम्य नश्चलति मनोऽव्यवस्थितम् ।
प्रसीद नः पतगते प्रयाचतां
शिवश्च नो भव भगवन्सुखावहः ॥
सौतिरुवाच ।
एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा ।
तेजसः प्रतिसंहारमात्मनः स चकार ह ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रयोविंशोऽध्यायः ॥ 23 ॥
1-23-2 शशाङ्ककिरणवत्प्रख्या दीप्तिर्यस्य तं तादृशमपि कालवालं कृष्णकेशम् ॥ 1-23-8 और्वो वडवाग्निः ॥ 1-23-9 विभावसुं अग्निम् ॥ 1-23-10 अग्ने मात्वमिति देवानां भ्रमवर्णनं अग्निगरुडयोरति सादृश्यकथनार्थम् ॥ 1-23-25 चलन्तीत्युत्तरादपकृष्यते ॥ 1-23-26 निगृत्यतां संक्षिप्यताम् ॥ त्रयोविंशोऽध्यायः ॥ 23 ॥