अध्यायः 029
कण्ठं दहतो ब्राह्मणस्य विषादीसहितस्य परित्राणम् ॥ 1 ॥ गरुडस्य
कश्यपेन संवादः ॥ 2 ॥ गजकच्छपपूर्ववृत्तान्तकथनम् ॥ 3 ॥ कश्यपाज्ञया गरुडस्य
गजकच्छपग्रहणम् ॥ 4 ॥ रोहिणवृक्षशाखाभङ्गः ॥ 5 ॥
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया ।
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ॥
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् ।
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥
सौतिरुवाच ।
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत ।
निषादी मम भार्येयं निर्गच्छतु मया सह ॥
गरुड उवाच ।
एतामपि निषादीं त्वं परिगृह्याशु निष्पत ।
तूर्णं संभावयात्मानमजीर्णं मम तेजसा ॥
सौतिरुवाच ।
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा ।
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् ।
वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥
ततोऽपश्यत्स्वपितरं पृष्टश्चाख्यातवान्पितुः ।
यथान्यायममेयात्मा तं चोवाच महानृषिः ॥
कश्यप उवाच ।
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत ।
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु ॥
`क्व गन्तास्यतिवेगेन मम त्वं वक्तुमर्हसि ॥'
गरुड उवाच ।
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम् ।
न हि मे कुशलं तात भोजने बहुले सदा ॥
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम् ।
महातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह ।
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ॥
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे ।
यद्भुक्त्वाऽमृतमाहर्तुं समर्तः स्यामहं प्रभो ॥
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान् ।
कश्यप उवाच ।
इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम् ॥
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः ।
तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः ॥
तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ ।
`शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम् ॥
पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज ।'
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् ॥
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ।
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः ॥
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः ।
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः ॥
`विभागे बहवो दोषा भविष्यन्ति महातपः ।'
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः ।
ततो विभक्तास्त्वन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः ।
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ ।
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥
तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः ।
`एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम् ॥
एवं निर्बध्यमानस्तु शशापैनं विभावसुः ।'
गुरुशास्त्रेऽनिबद्धानामन्योन्येनाभिशङ्किनाम् ॥
नियन्तु न हि शक्यस्त्वं भेदतो धनमिच्छसि ।
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥
कश्यप उवाच ।
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् ।
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि ॥
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू ।
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि ।
परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ ।
तयोरन्यतरः श्रीमान्समुपैति महागजः ॥
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः ।
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः ॥
तं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो जलम् ।
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम् ।
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः ।
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥
तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ ।
उपयुज्याशु कर्मेदं साधये हितमात्मनः ॥
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय ।
महागिरिसमप्रख्यं घोररूपं च हस्तिनम् ॥
सौतिरुवाच ।
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा ।
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम् ॥
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम् ।
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा ॥
युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल ।
ऋचो यजूंषि सामानि पवित्राणि हवींषि च ॥
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम् ।
`वर्धयिष्यन्ति समरे भविष्यति खगोत्तम ।'
इत्युक्तो गरुडः पित्रा गतस्तं ह्वदमन्तिकात् ॥
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम् ।
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः ॥
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ।
सधुत्पपात चाकाशं तत उच्चैर्विहङ्गमः ॥
सोऽलम्बं तीर्थणासाद्य देववृक्षानुपागमत् ।
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः ॥
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ।
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान् ॥
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ।
काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः ।
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥
`तेषां मध्ये महानासीत्पादपः सुमनोहरः ।
सहस्रयोजनोत्सेधो बहुशाखासमन्वितः ॥
खगानामालयो दिव्यो नाम्ना रौहिणपादपः ।
यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः; ॥
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः ।
अतिप्रवृद्धः समुहानापतन्तं मनोजवम् ॥
रौहिण उवाच ।
यैषा मम महाशाखा शतयोजनमायता ।
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ॥
सौतिरुवाच ।
ततो द्रुमं पतगसहस्रसेवितं
महीधरप्रतिमवपुः प्रकम्पयन् ।
खगोत्तमो द्रुतमभिपत्य वेगवा-
न्बभञ्ज तामविरलपत्रसंचयाम् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥
1-29-4 संभावय संजीवय ॥ 1-29-7 ततोऽपश्यत्स्वपितरं काश्यपं
दीप्ततेजसम् । तं श्रेष्ठं पततां श्रेष्ठो ब्रह्म ब्रह्मविदां वरम् । पृष्टश्च
पित्रा बलवान्वैनतेयः प्रतापदान् । इति पाठान्तरम् ॥ 7 ॥ 1-29-9 भोजने बहुले मम
कुशलं न हि ॥ 1-29-10 सोमं अमृतम् ॥ 1-29-14 कूर्माग्रजं कूर्मभूतं
ज्येष्ठभ्रातरम् ॥ 1-29-21 अन्तरेषु छिद्रेषु ॥ 1-29-30 आवेष्टितकरः
कुण्डलीकृतशुण्डादण्डः ॥ 1-29-33 उपयुज्य भुक्त्वा ॥ 1-29-38 भविष्यति समरे ॥
एकोनत्रिंशोऽध्यायः ॥ 29 ॥