अध्यायः 031

वालखिल्यतपसा गरुडोत्पत्तिकथनपूर्वकं तस्य पक्षीन्द्रत्वेऽभिषेचनम् ॥ 1 ॥

शौनक उवाच ।
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज ।
तपसा वालखिल्यानां संभूतो गरुडः कथम् ॥
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः ।
अधृष्टः सर्वभूतानामवध्यस्चाभवत्कथम् ॥
कथं च कामचारी स कामवीर्यश्च खेचरः ।
एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ॥
सौतिरुवाच ।
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि ।
शृणु मे वदतः सर्वमेतत्संक्षेपतों द्विज ॥
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः ।
साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ॥
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह ।
मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ॥
शक्रस्तु वीर्यसदृशमिध्यभारं गिरिप्रभम् ।
समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ॥
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः ।
पलाशवर्तिकामेकां वहतः संहतान्पथि ॥
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।
क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके ॥
तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः ।
अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च ॥
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः ।
आरेभिरे महत्कर्म तदा शक्रभयंकरम् ॥
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् ।
मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ॥
कामवीर्यः कामगमो देवराजभयप्रदः ।
इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ॥
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः ।
तपसो नः फलेनाद्य दारुणः संभवित्विति ॥
तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः ।
जगाम शरणं तत्र कश्यपं संशितव्रतम् ॥
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः ।
वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ॥
`कश्यप उवाच ।
केन कामेन चारब्धं भवद्भिर्होमकर्म च ।
याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे ॥
वालखिल्या ऊचुः ।
अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना ।
ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता ॥
तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप ॥
सौतिरुवाच ।'
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः ।
तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ॥
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः ।
इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः ।
भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः ॥
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् ।
प्रसादः क्रियतामस्य देवराजस्य याचतः ॥
सौतिरुवाच ।
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः ।
प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम् ॥
वालखिल्या ऊचुः ।
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते ।
अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ॥
तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम् ।
तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ॥
सौतिरुवाच ।
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा ।
विनता नाम कल्याणी पुत्रकामा यशस्विनी ॥
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः ।
उपचक्राम भर्तारं तामुवाचाथ कश्यपः ॥
आरम्भः सफलो देवि भविता यस्त्वयेप्सितः ।
जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ॥
तपसा वालखिल्यानां मम संकल्पतस्तथा ।
भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ ॥
उवाच चैनां भगवान्कश्यपः पुनरेव ह ।
धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ॥
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति ।
लोकसंभावितो वीरः कामरूपो विहङ्गमः ॥
सौतिरुवाच ।
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः ।
त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः ॥
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर ।
व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि ॥
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः ।
न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः ॥
सौतिरुवाच ।
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् ।
विनता चापि सिद्धार्था बभूव मुदिता तथा ॥
जनयामास पुत्रौ द्वावरुणं गरुडं तथा ।
विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः ॥
पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत ।
तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥

1-31-8 अङ्गुष्ठोदरप्रमाणं वर्ष्म शरीरं येषां तान् । वर्तिकां यष्टिम् ॥ 1-31-9 स्वेष्वङ्गेषु प्रलीनानिव अतिकृशानित्यर्थः । क्लिश्यमानान् गोष्पदमात्रेति जले मज्जनेनेत्यर्थः ॥ 1-31-11 जातमन्यवः दीनाः । मन्युर्दैन्ये क्रतौ क्रुधीति कोशः ॥ 1-31-14 दारुणः इन्द्रं प्रत्येव ॥ 1-31-16 कर्मसिद्धिमपृच्छत सिद्ध वः कर्मेत्यपृच्छत् ॥ 1-31-20 एवमस्तु सिद्धमस्तु ॥ 1-31-28 पुंसवने ऋतुकाले ॥ 1-31-32 कारयिष्यति स्वार्थे णिच् ॥ एकत्रिंशोऽध्यायः ॥ 31 ॥