अध्यायः 039

एलापत्रोपदेशेन वासुकिभगिन्या जरत्कार्वा रक्षणम् ॥ 1 ॥

सौतिरुवाच ।
एलापत्रवचः श्रुत्वा ते नागा द्विजसत्तम ।
सर्वे प्रहृष्टमनसः साधुसाध्वित्यपूजयन् ॥
ततःप्रभृति तां कन्यां वासुकिः पर्यरक्षत ।
जरत्कारुं स्वसारं वै परं हर्षमवाप च ॥
ततो नातिमहान्कालः समतीत इवाभवत् ।
अथ देवासुराः `सर्वे ममन्थुर्वरुणालयम् ॥
तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः ।
समाप्यैव च तत्कर्म पितामहमुपागमन् ॥
देवा वासुकिना सार्धं पितामहमथाव्रुवन् ।
भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ॥
अस्यैतन्मानसं शल्यं समुद्धर्तुं त्वमर्हसि ।
जनन्याः शापजं देव ज्ञातीनां हितमिच्छतः ॥
हितो ह्ययं सदास्मकं प्रियकारी च नागराट् ।
प्रसादं कुरु देवेश शमयास्य मनोज्वरम् ॥
ब्रह्मोवाच ।
मयैव तद्वितीर्णं वै वचनं मनसाऽमराः ।
एलापत्रेण नागेन यदस्याभिहितं पुरा ॥
तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचः स्वयम् ।
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ॥
उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः ।
तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ॥
एलापत्रेण यत्प्रोक्तं वचनं भुजगेन ह ।
पन्नगानां हितं देवास्तत्तथा न तदन्यथा ॥
सौतिरुवाच ।
एतच्छ्रुत्वा तु नागेन्द्रः पितामहवचस्तदा ।
संदिश्य पन्नगान्सर्वान्वासुकिः शापमोहितः ॥
स्वसारमुद्यम्य तदा जरत्कारुमृषिं प्रति ।
सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ॥
जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः ।
शीघ्रमेत्य तदाऽऽख्येयं तन्नः श्रेयो भविष्यति ॥ ॥

इति श्रीमनमहाभारते आदिपर्वणि आस्तीकपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

1-39-4 नेत्रं रज्जुः ॥ 1-39-13 जरत्कारौ जरत्कारुऋषिनिमित्तं । तदन्वेषणायेत्यर्थः ॥ एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥