अध्यायः 041
मुनिपुत्राच्छृङ्गिणः परीक्षितः शापः ॥ 1 ॥
सौतिरुवाच ।
एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः ।
मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ॥
स त कृशमक्षिप्रेक्ष्य सूनृतां वाचमुत्सृजन् ।
अपृच्छत्तं कथं तातः `सर्वभूतहिते रतः ॥
अनन्यचेताः सततं विष्णुं दवेमतोषयत् ।
वन्यान्नभोजी सततं मुनिर्मौनव्रते स्थितः ।
एवंभूतः स तेजस्वी' स मेऽद्य मृतधारकः ॥
कृश उवाच ।
राज्ञा परिक्षिता तात मृगयां परिधावता ।
अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ॥
शृङ्ग्युवाच ।
किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः ।
ब्रूहि तत्कृश तत्त्वेन पश्य मे तपसो बलम् ॥
कृश उवाच ।
स राजा मृगयां यातः परिक्षिदभिमन्युजः ।
ससार मृगमेकाकी विद्ध्वा बाणेन शीघ्रगम् ॥
न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने ।
पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ॥
तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः ।
पुनःपुनर्मृगं नष्टं प्रपच्छ पितरं तव ॥
स च मौनव्रतोपेतो नैव तं प्रत्यभाषत ।
तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासजत् ॥
शृङ्गिंस्तव पिता सोऽपि तथैवास्ते यतव्रतः ।
सोऽपि राजा स्वनगरं प्रस्थितो गजसाह्वयम् ॥
सौतिरुवाच ।
श्रुत्वैवमृषिपुत्रस्तु शवं स्कन्धे प्रतिष्ठितम् ।
कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ॥
आविष्टः स हि कोपेन शशाप नृपतिं तदा ।
वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ॥
शृङ्ग्युवाच ।
योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य ह ।
स्कन्धे मृतं समास्राक्षीत्पन्नगं राजकिल्विषी ॥
तं पापमतिसंक्रुद्धस्तक्षकः पन्नगेश्वरः ।
आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ॥
सप्तरात्रादितो नेता यमस्य सदनं प्रति ।
द्विजानामवमन्तारं कुरूणामयशस्करम् ॥
सौतिरुवाच ।
इति शप्त्वातिसंक्रुद्धः शृङ्गी पितरमभ्यगात् ।
आसीनं ग्रोव्रजे तस्मिन्वहन्तं शवपन्नगम् ॥
स तमलक्ष्य पितरं शृङ्गी स्कन्धगतेन वै ।
शवेन भुजगेनासीद्भूयः क्रोधसमाकुलः ॥
दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् ।
श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ॥
राज्ञा परिक्षिता कोपादशपं तमहं नृपम् ।
यथार्हति स एवोग्रं शापं कुरुकुलाधमः ।
सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः ॥
वैवस्वतस्य सदनं नेता परमदारुणम् ।
सौतिरुवाच ।
तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् ॥
शमीक उवाच ।
न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ।
वयं तस्य नरेन्द्रस्य विषये निवसामहे ॥
न्यायतो रक्षितास्तेन तस्य पापं न रोचये ।
सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा ॥
क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ।
यदि राजा न संरक्षेत्पीडा नः परमा भवेत् ॥
न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ।
रक्षमाणा वयं तात राजभिर्धर्मदृष्टिभिः ॥
चरामो विपुलं धर्मं तेषां भागोऽस्ति धर्मतः ।
सर्वथा वर्तमानस्य राज्ञः क्षन्तव्यमेव हि ॥
परिक्षित्तु विशेषेण यथाऽस्य प्रपितामहः ।
रक्षत्यस्मांस्तथा राज्ञा रक्षितव्याः प्रजा विभो ॥
अराजके जनपदे दोषा जायन्ति वै सदा ।
उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै ॥
दण्डात्प्रतिभयं भूयः शान्तिरुत्पद्यते तदा ।
नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् ॥
राज्ञा प्रतिष्ठितो धर्मो धर्मात्स्वर्गः प्रतिष्ठितः ।
राज्ञो यज्ञक्रियाः सर्वा यज्ञाद्देवाः प्रतिष्ठिताः ॥
देवाद्वृष्टिः प्रवर्तेत वृष्टेरोषधयः स्मृताः ।
ओषधिभ्यो मनुष्याणां धारयन्सततं हितम् ॥
मनुष्याणां च यो धाता राजा राज्यकरः पुनः ।
दशश्रोत्रियसमो राजा इत्येवं मनुरब्रवीत् ॥
तेनेह क्षुधितेनैत्य श्रान्तेन मृगलिप्सुना ।
अजानता कृतं मन्ये व्रतमेतदिदं मम ॥
कस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् ।
न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥
1-41-10 गजसाह्वयं हस्तिनपुरम् ॥ 1-41-13 कृच्छ्रगतस्य मौनव्रतधरस्य । राजा चासौ किल्बिषी च राजकिल्बिषी ॥ 1-41-21 विषये देशे ॥ 1-41-22 पापं द्रोहम् ॥ 1-41-27 दोषाः दस्युपीडादयः ॥ 1-41-30 मनुष्याणां हितं धारयन् कुर्वन् ॥ 1-41-31 धाता पोषकः ॥ 1-41-32 व्रतमजानतेति संबन्धः ॥ एकचत्वारिंशोऽध्यायः ॥ 41 ॥